________________
प्रथमं परिशिष्टम्- टिप्पनानि
तेषामिन्द्रियाणामावारककर्मणां क्षयोपशमो भवति जीवस्य स लब्धिः । शेषमपि द्रव्येन्द्रियं तल्लाभ एव लब्धिप्राप्तावेव भवतीति द्रष्टव्यमिति ॥२९९७।।
उपयोगः कः ? इत्याह- जो सविसयवावारो सो उवओगो स चेगकालम्मि । एगेण चेय तम्हा उवओगेगिंदिओ सव्वो ॥२९९८॥ यः श्रोत्रादीन्द्रियस्य स्वविषये शब्दादौ परिच्छेदो व्यापारः स उपयोगः । स चैकस्मिन् काले देवादीनामप्येकेनैव श्रोत्राद्यन्यतरेणेन्द्रियेण भवति, न तु व्यादिभिः । तस्मादुपयोगमाश्रित्य सर्वोऽपि जीव एकेन्द्रिय एव, सर्वस्मिन् काले देवादीनामप्येकस्यैव श्रोत्राद्यन्यतरेन्द्रियोपयोगस्य सद्भावादिति ॥२९९८॥ __ यधुपयोगतः सर्वोऽपि जीव एकेन्द्रियः, तर्हि एकेन्द्रियो द्वीन्द्रिय इत्यादिर्भेदः कथमागमे निर्दिष्टः ? इत्याह- एगेंदियाइभेया पडुच्च सेसेंदियाइं जीवाणं । अहवा पडुच्च लद्धिंदियं पि पंचेंदिया सव्वे ॥२९९९॥ अतो जीवानामेकेन्द्रियादयो भेदाः शेषाणि निवृत्त्युपकरण-लब्धीन्द्रियाणि प्रतीत्य द्रष्टव्याः । तानि यस्य यावन्ति तावद्भिर्व्यपदेश इति, न तूपयोगतः । अथवा, लब्धीन्द्रियमप्याश्रित्य वक्ष्यमाणयुक्तितः सर्वे पृथिव्यादयोऽपि जीवाः पञ्चेन्द्रिया एवेति ॥२९९९।। ___ कुतः सर्वे पञ्चेन्द्रियाः ? इत्याह- जं किर बउलाईंणं दीसइ सेसेंदिओवलंभो वि । तेण त्थि तदावरणखओवसमसंभवो तेसिं॥३०००। यस्मात् किल बकुल-चम्पक-तिलक-विरहकादीनां वनस्पतिविशेषाणां स्पर्शनात् शेषाणि यानि रसन-घ्राण-चक्षुः-श्रोत्रलक्षणानीन्द्रियाणि तत्संबन्ध्युपलम्भो दृश्यते, तेन ज्ञायते- तेषामपि बकुलादीनां तदावरणक्षयोपशमसंभवो रसनादीन्द्रियावारककर्मक्षयोपशमस्य या च यावती मात्राऽस्तीति । अन्यथा हि बकुलस्य शृङ्गारितकामिनीवदनार्पितचारुमदिरागण्डूषेण, चम्पकस्यातिसुरभिगन्धोदकसेकेन, तिलकस्य कामिनीकटाक्षविक्षेपेण, विरहकस्य पञ्चमोद्गारश्रवणेन पुष्पपल्लवादिसंभवो न घटते ॥३०००॥” - विशेषाव० मलधारि० ॥
[पृ० ५७५ पं०१४] “पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातका निर्ग्रन्थाः ॥९॥४८॥ भा० पुलाको बकुश: कुशीलो निर्ग्रन्थ: स्नातक इत्येते पञ्च निर्ग्रन्थविशेषा भवन्ति ॥ टी० पुलाकादयः पञ्चान्वर्थसञ्जका निर्ग्रन्थाः स्वामिनः । तद्विवरणार्थमाह- पुलाकः बकुश: कुशीलः निर्ग्रन्थः स्नातक इति । एते पञ्च निर्ग्रन्थविशेषा, भेदा भवन्ति निर्ग्रन्थानामिति । ग्रन्थः कर्माष्टकप्रकारं मिथ्यात्वा-ऽविरति-कषाय]दुष्प्रणिहितयोगाश्च । तज्जये प्रवृत्ताः । निर्गच्छद्ग्रन्था निर्ग्रन्थाः धर्मोपकरणादृते परित्यक्तबाह्याभ्यन्तरोपधयो निर्ग्रन्थाः । पुलाकादिस्वरूपनिरूपणायाह__ भा० तत्र सततमप्रतिपातिनो जिनोक्तादागमानिर्ग्रन्थपुलाकाः । नैर्ग्रन्थ्यं प्रति प्रस्थिताः शरीरोपकरणविभूषाऽनुवर्तिनः ऋद्धियशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवारा: छेदशबलयुक्ता निर्ग्रन्था बकुशाः ॥ टी० तत्र सततमित्यादि । तत्र-तेषु पञ्चसु निर्ग्रन्थेषु पुलाकास्तावदेवंविधाः । पुलाको निःसार इति प्ररूढं लोके । पलञ्जिस्तन्दुलकणशून्या पुलाकः ।
A-33
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org