________________
प्रथमं परिशिष्टम् - टिप्पनानि
साम्प्रतं क्षेत्रलोकमधिकृत्याह - त्रिविधं त्रिप्रकारम् अधोलोकभेदादिं इति प्राकृतशैल्याऽधोलोकादिभेदम्, आदिशब्दात्तिर्यगूर्ध्वलोकपरिग्रह इति गाथार्थः ॥ ५३॥”
ध्यानशतक हारि० ।
११०
-
[पृ० ५७२-५७३] “अथेन्द्रियस्वरूपं विवरीषुराह - इंदो जीवो सव्वोवलद्धिभोगपरमेसरत्तणओ । सोत्ताइभेयमिंदियमिह तल्लिंगा भावाओ ।। २९९३।। व्या० ' इदि परमैश्वर्ये' [पा०धा० ६३ ] इन्दनात् परमैश्वर्ययोगादिन्द्रो जीवः; परमैश्वर्यमस्य कुतः ? इत्याह- सव्वो इत्यादि आवरणाभावे सर्वस्यापि वस्तुन उपलम्भात्, नानाभवेषु सर्वस्यापि त्रिजगद्गतस्य वस्तुनः परिभोगाच्च परमेश्वरो जीव इति तस्य परमैश्वर्यम् । तस्येन्द्रस्य जीवस्य लिङ्गं चिह्नं तेन दृष्टं सृष्टं वा निपातनादिहेन्द्रियमुच्यते, अत एवाह - इन्द्रियमिह तल्लिङ्गादिभावादिति । तच्च श्रोत्रादिभेदं श्रोत्र - नयन- घ्राण - रसन- स्पर्शनभेदात् पञ्चविधमित्यर्थः ॥२९९३॥
तदपि नामादिभेदाच्चतुर्विधमिति दर्शयन्नाह - तं नामाइ चउद्धा दव्वं निव्वित्ति उवगरणं च । आगारो निव्वित्ति चित्ता बज्झा इमा अंतो ॥ २९९४ ।। पुप्फे कलंबुयाए-धन्नमसूराइमुत्तचंदो य । होइ खुरप्पो नाणागिई य सोइंदियाईणं ॥ २९९५ । । विसयग्गहणसमत्थं उवगरणं इंदियंतरं तंपि । जं नेह तदुवघाए गिण्हइ निव्वत्तिभावे वि ।। २९९६ ।। व्या० तद् नामेन्द्रियं स्थापनेन्द्रियमित्यादिभेदाच्चतुर्धा । तत्र ज्ञ - भव्यशरीरव्यतिरिक्तं द्रव्यं द्रव्येन्द्रियं निर्वृत्तिरुपकरणं चेति द्विभेदम् । तत्र कर्णशष्कुलिकादिराकारो निर्वृत्तिरुच्यते । सापि बाह्या - ऽऽन्तरभेदात् पुनरपि द्विभेदा । तत्र बाह्या निर्वृत्तिश्चित्रा नानाप्रकारा मनुष्या - ऽश्व - शशकादेः कस्यापि कीदृक्स्वरूपेत्यर्थः । अन्तर्निर्वृत्तिस्त्वियम्; का ? इत्याह- पुप्फमित्यादि, श्रोत्रस्यान्तर्निर्वृत्तिः कदम्बपुष्पाकारमांसगोलकरूपा द्रष्टव्या, चक्षुषस्तु धान्यमसूराकारा, घ्राणस्यातिमुक्तककुसुमचन्द्रकाकारा, रसनस्य क्षुरप्राकारा, स्पर्शनं तु नानाकृति द्रष्टव्यमिति । एष श्रोत्रादीनां तन्निर्वृत्तेराकार इति । तस्या एव कदम्बपुष्पाकृतिमांसगोलकरूपायाः श्रोत्राद्यन्तर्निर्वृत्तेर्यद्विषयग्रणसमर्थं शक्तिरूपमुपकरणं तदुपकरणं द्रव्येन्द्रियम् 'उच्यते' इति शेषः ; यथा खड्गस्य च्छेत्री शक्तिः, वह्नेर्वा दाहादिका शक्तिस्तथेदम श्रोत्राद्यन्तर्निर्वृत्तेर्विषयग्रहणसमर्थशक्तिरूपं द्रष्टव्यम् । तर्ह्यन्तर्निर्वृत्तिरेव तत्, तच्छक्तिरूपत्वात्, न पुनर्भेदान्तरमित्याशङ्क्याह- तदपीन्द्रियान्तरं द्रव्येन्द्रियस्य भेदान्तरमित्यर्थः । कुतः ? इत्याहजमित्यादि, यस्मादिह कदम्बपुष्पाद्याकृतेर्मांसगोलकाकारायाः श्रोत्राद्यन्तर्निवृत्तेर्या शब्दादिविषयपरिच्छेत्री शक्तिस्तस्या वात-पित्तादिनोपघाते विनाशे सति यथोक्तान्तर्निर्वृत्तिसद्भावेऽपि न शब्दादिविषयं गृह्णाति जीवः, इत्यतो ज्ञायते - अस्त्यन्तर्निर्वृत्तिशक्तिरूपमुपकरणेन्द्रियं द्रव्येन्द्रियस्य द्वितीयो भेद इति ॥ २९९४
२९९६॥
भावेन्द्रियमाह- लधुवओगा भाविंदियं तु लद्धि त्ति जो खओवसमो । होइ तदावरणाणं तल्लाभे चेव सेसंपि ।। २९९७ ।। लब्ध्युपयोगौ भावेन्द्रियम् । तत्र यदावरणानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org