________________
प्रथमं परिशिष्टम्- टिप्पनानि
१०९
जइ वि य निग्गयभावो तहवि य रक्खिजए स अण्णेहिं । वंसकडिल्ले च्छिण्णो वि वेणुतो पावए न महिं ॥६॥२६९५॥ यद्यपि च स संयमान्निर्गतभावस्तथापि सोऽन्यैर्हस्तकर्मादि वैहानसादि वा समाचरन् रक्ष्यते । अत्रैवार्थे प्रतिवस्तूपमामाह- वंसकडिल्ले वंशगहने च्छिन्नोऽपि वेणुको वंशो महीं न प्राप्नोति । अन्यैरन्यैर्वंशैरपान्तराले स्खलितत्वात् । एवं संयमभावान्निर्गतोऽपि शेषसाधुभिः सर्वथा पतन् रक्ष्यते । तदेतद्भिक्षोरुक्तमिदानीं गणावच्छेदकाचार्ययोराह ।
वीसु वसंते दप्पा गणि आयरिए य होंति एमेव । सुत्तं पुण कारणियं भिक्खुस्स वि कारणेऽणुना ॥६॥२६९६॥ विष्वग् दर्पात् कारणमन्तरेण गणिनि गणावच्छेदके आचार्ये च एवमेव भिक्षोरिव च प्रायश्चित्तं संयमात्मविराधने च भवतः, यद्येवं तर्हि सूत्रमनवकाशमत आह- सूत्रं पुनः कारणिकं कारणमधिकृत्य प्रवृत्तम्, ततो नाऽनवकाशम्, न केवलं गणावच्छेदकाचार्ययोः कारणे वसतेरन्तर्बहिर्वा वसनमनुज्ञातम्, किन्तु भिक्षोरपि कारणे बहिरन्तर्वा वसनस्यानुज्ञा । ___ अथ किं तत्कारणं यदधिकृत्य सूत्रं प्रवृत्तमत आह- विजाणं परिवाडी पव्वे पव्वे य देंति आयरिया । मासद्धमासियाणं पव्वं पुण होइ मज्झं तु ॥६।२६९७॥ आचार्याः पर्वणि पर्वणि विद्यानां परिपाटीर्ददति । विद्याः परावर्तन्ते इति भावः । अथ पर्व किमुच्यते तत आहमासार्धमासयोर्मध्यं पुनः पर्व भवति ।" - व्यवहार० मलय० ॥
[पृ० ५७०] “पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खायं । णामाइभेयविहियं तिविहमहोलोयभेयाइं ॥५३॥ व्या० पञ्चास्तिकायमयं लोकमनाद्यनिधनं जिनाख्यातमिति, क्रिया पूर्ववत्, तत्रास्तयः प्रदेशास्तेषां काया अस्तिकायाः पञ्च च ते अस्तिकायाश्चेति विग्रहः, एते च धर्मास्तिकायादयो गत्याधुपग्रहकरा ज्ञेया इति, उक्तं च- जीवानां पुद्गलानां च, गत्युपग्रहकारणम्। धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा ॥१॥ जीवानां पुद्गलानां च, स्थित्युपग्रहकारणम् । अधर्मः पुरुषस्येव, तिष्ठासोरवनिर्यथा ॥२॥ जीवानां पुद्गलानां च, धर्माधर्मास्तिकाययोः । बदराणां घटो यद्वदाकाशमवकाशदम् ॥३॥ ज्ञानात्मा सर्वभावज्ञो भोक्ता कर्ता च कर्मणाम् । नानासंसारिमुक्ताख्यो जीव: प्रोक्तो जिनागमे ॥४॥ स्पर्शरसगन्धवर्णशब्दमूर्तस्वभावकाः । सङ्घातभेदनिष्पन्नाः, पुद्गला जिनदेशिताः ॥५॥ [ ] तन्मयं तदात्मकम्, लोक्यत इति लोकस्तम्, कालतः किम्भूतमित्यत आह- अनाद्यनिधनम् अनाद्यपर्यवसितमित्यर्थः, अनेनेश्वरादिकृतव्यवच्छेदमाह, असावपि दर्शनभेदाच्चित्र एवेत्यत आह- जिनाख्यातं तीर्थकरप्रणीतम्, आह- 'जिनदेशिता'नित्यस्माज्जिनप्रणीताधिकारोऽनुवर्तत एव, ततश्च जिनाख्यातमित्यतिरिच्यते, न, अस्याऽऽदरख्यापनार्थत्वात्, आदरख्यापनादौ च पुनरुक्तदोषानुपपत्तेः, तथा चोक्तम्- अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु । ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् [ ] ॥१॥ तथा हि नामादिभेदविहितं भेदतो नामादिभेदावस्थापितमित्यर्थः, उक्तं च- नाम ठवणा दविए खित्ते काले भवे य भावे य । पज्जवलोगो य तहा अट्ठविहो लोगंमि(ग)निक्खेवो ॥१॥ [आव० नि० १०७०] भावार्थश्चतुर्विंशतिस्तवविवरणादवसेयः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org