________________
१०८
प्रथमं परिशिष्टम्- टिप्पनानि तत्र च कानिचित् गृहाण्युच्चस्थाने कानिचित् नीचस्थाने तानि भारेण वेदनायां सत्यां हिण्डमानस्य श्वासो भवति । तथा बाहोः कटेश्च वातेन ग्रहणं भवति, तथा ग्रामे विषमाकारेण व्यवस्थिते यत्र तत्र वा तिर्यक् शरीरं कृत्वा गच्छतः शूलं वा भवेत् ॥ बहिया य पित्तमुच्छा पडणं उण्हेण वावि वसहीए । आदियणे छड्डणादी सो चेव य पोरिसीभंगो ॥६॥२५७६॥ उष्णेन परितापितस्य पित्तप्रकृतेर्बहिः पित्तमूर्छावशतः पतनं भवेत् । तथा च सति भक्तभृतभाजनसहितस्य महानुड्डाहः वसतौ वा पित्तमूर्छावशतः पतनम् । तत्र प्रभूतजलापानं समुद्देशानान्तरमपि प्रचुरजलादानम्, तथा च सति त एव च्छर्दनादयः प्रागुक्ता दोषाः, स एव च सूत्रपौरुष्याश्च भङ्गः ॥" - व्यवहार० मलय० ॥ ___ [पृ० ५६७] जेण कुलं आयत्तं.... ॥ “इयं गाथा अणहिलपुरपत्तने खेतरवसीपाडामध्ये विद्यमानायाम् आवश्यकनिर्युक्तेर्हस्तलिखितायां तालपत्रात्मिकायां प्रतौ दृष्टाऽस्माभिः, मुद्रितायां तु न दृश्यते । आवश्यकसूत्रस्य हारिभत्र्यां वृत्तौ (पृ० २६३) इत्थमुपलभ्यते- “आह च- सुत्तत्थेसु अचिंतण आएसे वुड्ढसेहगगिलाणे । बाले खमए वाई इड्ढीमाइ अणिड्ढी य ॥१॥ एएहिं कारणेहिं तुंबभूओ उ होति आयरिओ । वेयावच्चं ण करे कायव्वं तस्स सेसेहिं ॥२॥ जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेजा न हु तुंबम्मि विणढे अरया साहारया होंति ॥३॥ वाले सप्पभए, तहा इड्ढिमंतंमि आगए पाणगादिगए आयरिए लहुत्तं, एवं वादिम्मि वि, अणिस्सरपव्वइयगा य एए त्ति जणापवादो, सेसं कंठं” । आवश्यकसूत्रस्य मलयगिरिविरचितायां वृत्तौ त्वेवमुपलभ्यते“तथा चाह- सुत्तत्थेसु अचिंतण..... ॥१॥ ..... ॥२॥ ....... ॥३॥ आदेशे प्राघूर्णके, वृद्धे, शैक्षके, ग्लाने, तथा बाले लघुवयसि, क्षपके च...... एतदेवाह- जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेह । न हु तुंबम्मि विणढे अरगा साहारगा हुंति ॥१३३॥ येन पुरुषेण कुलमायत्तं तं पुरुषमादरेण रक्षेत्, यतो न हु नैव तुम्बे विनष्टे अरकाः साधारकाः साधारा भवन्ति ।” इति आवश्यकनिर्युक्तेर्मलयगिरिसूरिविरचितायां वृत्तौ इच्छाकारसामाचारीवर्णने ॥" - इति द्वादशारनयचक्रस्य टिप्पने (पृ०८७७ टि० १) ॥ ___ "तब्भावुवयोगेणं रहिए कम्मादि संजमे भेदो । मेरावलंबिया मे वेहाणसमादि निव्वेदो ॥६॥२६९४॥ तस्य भावस्तद्भावः । पुंवेद इत्यर्थः । तस्मिन्नुपयोगस्तद्भावोपयोगस्तेन तद्भावोपयोगेन विजने स्थाने वर्तमानः सहायरहितो हस्तकर्मादि कुर्यात् । एवं संयमे संयमस्य भेदो विराधना । तथा कोऽप्यतिप्रबलपुंवेदोदयपीडित एवं चिन्तयेत् । यथा- मया मर्यादा सकलजनसमक्षं गुरुपादसमीपेऽवलम्बिता; । सम्प्रति चाहमतिपीडित आसितुं न शक्नोमि ततो निर्वेदात् वैहानस(सं?)मुक्तलम्बनमादिशब्दादन्यद्वा आत्मघातादिकमाचरेत् । एषात्मविराधना तस्माद्बहिरन्तर्वा एकाकिना न स्थातव्यम् । आह- यदि संयमानिर्गतभावस्ततस्तस्य सहाया अपि किं करिष्यन्ति तत आह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org