________________
प्रथमं परिशिष्टम्- टिप्पनानि
१०७ पृ० ५६६] “अथ विवेचन-विशोधनपदे व्याचष्टे- सव्वस्स छड्डण विगिंचणा उ मुह-हत्थपादछूढस्स । फुसण धुवणा विसोहण, सकिं व बहुसो व णाणत्तं ॥५८१३।। व्या० अनुदितमस्तमितं वा ज्ञात्वा यद् मुखे प्रक्षिप्तं तस्य ज्ञाते सति खेलमल्लके यत् प्रक्षेपणम्, यच्च हस्तेपाणौ तस्य प्रतिग्रहे, यत् पात्रे प्रतिग्रहे तस्य स्थण्डिले, एवं सर्वस्यापि यत् परिष्ठापनं सा विवेचना । यत् तु फुसणं हस्तेनामर्शनं धावनं कल्पकरणं सा विशोधना । अथवा सकृत् एकशः परिष्ठापन-स्पर्शन-धावनानां करणं विवेचना, एतेषामेव बहुशः करणं विशोधनम् । एतद् विवेचनविशोधनयोर्नानात्वमुक्तम् ॥५८१३॥" - बृहत्कल्पटीका० ।
“सुयवंतम्मि परिवारवं च वणियंतरावणुट्ठाणे । दुट्ठाणनिग्गमम्मि य हाणी य परमुहावण्णा ॥६२५४३॥ संज्ञाभूमि व्रजति ततः प्रत्यागच्छति वा तस्मिन्नाचार्ये श्रुतवानेष परिवारवांश्चेति मन्यमाना अन्तरा निजनिजापणेषु स्थिता वणिजोऽभ्युत्थानं कृतवन्तः । तेषां चोत्थाने लोकस्य च भूयान् बहुमान आसीत् । कदाचिदाचार्यो द्वौ वारौ संज्ञाभूमिं व्रजेत् ततो द्विस्थाननिर्गमने चतुरो वारान् गच्छति प्रत्यागच्छति चोत्थातव्यं ततस्ते आलस्यं मन्यमाना अभ्युत्थानस्य हानि कुर्वन्ति। ते च हानिमभ्युत्थानस्य चिकीर्षवोऽभ्युत्थातव्यं भविष्यतीति कृत्वा तमाचार्यं दृष्ट्वा परमुखा भवन्ति। अन्यतो मुखं कुर्वन्तीति भावः । अथवा अवर्णः स्यात्, तथाहि-द्वौ वारौ संज्ञाभूमिं व्रजन्तमाचार्यं दृष्ट्वा ते वदन्ति । नूनमेष आचार्यो द्वौ त्रीन् वारान् समुद्दिशति तेन द्वौ वारौ संज्ञाभूमिं याति ॥ ___ गुणवं तु जतो वणिया पूयंतण्णे विसन्नया तम्मि । पडिय त्ति अणुट्ठाणे दुविहनियत्ती अभिमुहाणं ॥६।२५४४॥ वणिजां बहुमानेनाऽभ्युत्थानं दृष्ट्वा केचिदन्ये चिन्तयन्ति - गुणवानाचार्यो यतो वणिजः पूजयन्ति । एवं चिन्तयित्वा तेऽप्यन्ये तस्मिन्नाचार्ये सन्नता भवन्ति । वारद्वयं संज्ञाभूमिगमने वणिजामनुत्थाने ते चिन्तयन्ति । नूनमेष आचार्यः पतितः । कथमन्यथा वणिजः पूर्वमभ्युत्थानं कृतवन्तो नेदानीं कुर्वन्ति, तथा च सति तेषामभिमुखाणां द्विविधा निवृत्तिः, तथा ये श्रावकत्वं ग्रहीतुकामा ये च तस्य समीपे प्रव्रजितुकामास्ते चिन्तयन्ति - यद्येषोऽपि प्रधानो ज्ञात्वा कुशीलत्वं प्रतिपद्यते तर्हि नूनं सर्वं जिनवचनमसारमिति मन्यमानाः श्रावकत्वात् व्रतग्रहणाद्वा प्रतिनिवर्तन्ते मिथ्यात्वं गच्छन्ति।"
"उप्पण्णणाणा जह नो अडंती चोत्तीसबुद्धातिसया जिणिंदा । एवं गणी अट्ठगुणोववेतो सत्था व नो हिंडइ इड्डिमं तु ॥६।२५७१॥ यथा उत्पन्ने ज्ञाने जिनेन्द्राश्चतुस्त्रिंशत् बुद्धातिशयाः सर्वज्ञातिशया देहसौगन्धादयो येषां ते तथा, भिक्षां न हिण्डन्ते । एवं तीर्थकरदृष्टान्तेन गणी आचार्योऽष्टगुणोपेतोऽष्टविधगणिसम्पदुपेतः शास्ता इव तीर्थकर इव ऋद्धिमान् न हिण्डते ॥
भारेण वेयणाए हिंडते उच्चनीयसासो वा । बाहुकडिवायगहणं विसमाकारेण सूलं वा ॥६॥२५७४॥ भारेण भक्तभृतभाजनभारेण वेदना भवति । तथा कोऽपि ग्रामो गिरौ निविष्टो भवेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org