________________
१०६
प्रथमं परिशिष्टम्- टिप्पनानि आभिग्रहिकस्यासत्यभावे अन्यतरस्तस्यैवाचार्यस्य रजोहरणेन और्णिकेन वा पादप्रोञ्छकेनान्यभुक्तेन पादान् पुंसयति । यदि पुनरव्यापृता अपि निष्कारणमाचार्यस्य पादानप्रमार्जयते तदा मासलघु । अथात्मीयेन रजोहरणेन पादप्रोञ्छनेन वा अन्यपादप्रमार्जनतः परिभुक्तेन प्रमार्जयन्ति, तदापि मासलघु। यदि बहिर्वसतेः सागारिकस्तिष्ठतीत्याचार्यस्य पादा न प्रस्फोटितास्तर्हि वसतेरन्तः प्रविष्टस्य प्रस्फोटनीयास्तत्रायं विधिः- विपुलाए अपरिभोगे अप्पणउवासए व चिट्ठस्स । एमेव य भिक्खुस्स वि नवरिं बाहिं चिरयरं तु ॥६।२५२७॥ यदि विपुला वसतिस्तत्र तस्यां विपुलायां वसतावपरिभोगे अवकाशे आचार्येण स्थित्वा पादाः प्रस्फोटयितव्याः । अथ संकटा वसतिस्तर्हि आचार्यस्य आत्मीयो वेण्टकाद्यवकाशस्तत्र ऐर्यापथिकी प्रतिक्रम्योपविष्टस्य पादाः प्रमार्जनीयास्ते च कुशलेन साधुना तथा प्रमार्जनीया यथाऽन्ये साधवो धूल्या न भ्रियन्ते यथा आचार्यस्योक्तमेवं भिक्षोरपि द्रष्टव्यम्, नवरं यदि बहिर्वसतेः सागरिकस्तिष्ठति। ततश्चिरतरमपि कालं प्रतीक्षेत, यावच्चलः सागारिको व्यतिक्रामति। यदि पुनर्भिक्षुः वसतेर्बहिः सागारिकाभावेऽपि पादावप्रस्फोट्य वसतेरन्तः प्रविशति तदा तस्य प्रायश्चित्तं मासलघु ॥
तिण्हुण्हभावियस्सा पडिच्छमाणस्स मुच्छमादीया । खद्धादियणगिलाणे सुत्तत्थविराहणा चेव ॥६।२५३३॥ आचार्यः स्वरूपत उष्णेनाभावितः क्वचित् कदाचित् प्रयोजनवशतो बहिर्निर्गमनात् ततः कुलादिकार्येषु निर्गतस्तृष्णाभिभूतो वसतिमागतोऽपि यदि सागारिकमपगच्छन्तं यावत्प्रतीक्षते, ततः प्रतीक्षमाणस्य तृष्णया उष्णेन च तापितस्य मूर्छादयो भवन्ति | आदि- शब्दादागाढापरितापनादिपरिग्रहस्तथा वसतिं प्रविष्टोऽतीव तृष्णाभिभूतः खद्धस्य प्रचुरस्य पानीयस्यादानं ग्रहणं कुर्यात् । प्रचुर पानीयं पिबेदित्यर्थः । ततो भक्ताजीर्णतया ग्लानो भवेत्, तस्मिंश्च ग्लाने सूत्रार्थपरिहाणिर्विराधना च तस्याचार्यस्य स्यात् । ग्लानत्वेनाचार्यो म्रियेतेति भावः । अथवा सूत्रार्थपरिहाण्या अजानतां साधूनां ज्ञानादिविराधना स्यात् । सूत्रार्थाभावतोऽजानन्तः साधवो ज्ञानादिविराधनां कुर्युरिति भावः ॥८०॥ आचार्य आह- 'अणेगबहुनिग्गमणे अन्भुट्ठण भाविया य हिंडंता । दसविहवेयावच्चे सग्गाम बहिं च वायामो ॥६।२५३९॥ सीउण्हसहा भिक्खु न य हाणी वायणादिया तेसिं । गुरुणो पुण ते नत्थी तेण पमजंतो खेयण्णो ।।६।२५४०॥ अनेकैः कारणैः बहून् वारान् निर्गमनम् अनेक-बहुनिर्गमनं तस्मिन्, तथा गुर्वादीनामभ्युत्थाने आसनप्रदानादौ च, तथा भिक्षार्थं हिण्डमाना भाविता व्यायामितशरीराः, यदुक्तमनैकैः बहुवारं निर्गमनम्, तत्र कारणान्याह- दशविधवैयावृत्यनिमित्तम् । स्वग्रामे बहिः परग्रामेऽनेकवारमनेकधा व्यायामोऽभवत् । तथा शीतोष्णसहा भिक्षवो न च तेषां भिक्षूणां वाचनादिका वाचनादिविषया हानिः, गुरोः पुनस्तेऽनेकबहुनिर्गमनादयो न सन्ति । ततस्तृष्णाद्यध्यासितुमसहिष्णव आचार्या वसतेर्बहिः सागारिके तिष्ठन्ति लघुवसतेरन्तः प्रविशन्ति,। ततः खेदज्ञेन कुशलेन पादान् प्रमार्जापयन्ति ॥" - व्यवहार० मलय० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org