SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि १०५ भएणं, होति किलंता व वहमाणी ॥६२७९॥ व्या० अधिकरणे कृते क्षामिते च तस्मिन् समुपस्थितायाः प्रायश्चित्तं दीयते, ततः साधिकरणसूत्रानन्तरं प्रायश्चित्तसूत्रमुक्तम् ॥ अस्य व्याख्याप्राग्वत् ॥ सा सप्रायश्चित्ता तत्प्रथमतायां प्रथमतः प्रायश्चित्ते दीयमाने भयेन ‘कथमहमेतत् प्रायश्चित्तं वक्ष्यामि ?' इत्येवंरूपेण विषण्णा भवेत्, यदि वा प्रायश्चित्तं वहन्ती तपसा क्लान्ता भवेत् ॥६२७९॥" - बृहत्कल्पटीका० ॥ ___ [पृ० ५६४] “अत्र भाष्यम्- अटुं वा हेउं वा, समणीणं विरहिते कहेमाणो । मुच्छाए विपडिताए, कप्पति गहणं परिणाए ॥६२८२॥ व्या० श्रमणीनाम् अन्यासां साध्वीनां विरहिते अशिवादिभिः कारणैरभावे एकाकिन्या आर्यिकाया भक्त-पानप्रत्याख्याताया अर्थं वा हेतुं वा कथयतो निर्ग्रन्थस्य यदि सा मूर्च्छया विपतेत्, ततो मूर्च्छया विपतितायास्तस्याः परिणाए त्ति परिज्ञायाम् अनशने सति कल्पते ग्रहणम्, उपलक्षणत्वाद् अवलम्बनं वा कर्तुम् ॥६२८२॥ ___ साम्प्रतमर्थजातशब्दव्युत्पत्तिप्रतिपादनार्थमाह- अट्टेण जीए कजं, संजातं एस अट्ठजाता तु। तं पुण संजमभावा, चालिजंती समवलंबे ॥६२८६॥ व्या० अर्थेन अर्थितया सञ्जातं कार्य यया यद्वा अर्थेन द्रव्येण जातम् उत्पन्नं कार्यं यस्याः सा अर्थजाता, गमकत्वादेवमपि समासः। उपलक्षणमेतत्, तेनैवमपि व्युत्पत्तिः कर्तव्या अर्थः प्रयोजनं जातोऽस्या इत्यर्थजाता । कथं पुनरस्या अवलम्बनं क्रियते ? इत्याह- तां पुनः प्रथमव्युत्पत्तिसूचितां संयमभावात् चाल्यमानां द्वितीयतृतीयव्युत्पत्तिपक्षे तु द्रव्याभावेन प्रयोजनानिष्पत्त्या वा सीदन्तीं समवलम्बेत साहाय्यकरणेन सम्यग् धारयेत्, उपलक्षणत्वाद् गृह्णीयादपि ॥६२८६॥" - बृहत्कल्पटीका० । [पृ०५६५] “बहिअंतो विवज्जासो पणगं सागारिए असंतम्मि । सागारियम्मि उ चले, अच्छंति मुहुत्तगं थेरा ॥६॥२५२४॥ यदि सागारिके असति अविद्यमाने बहिरन्तर्विपर्यासो भवति बहिरप्रस्फोट्यान्तः प्रस्फोटयतीत्यर्थः । तदा गणिनः प्रायश्चित्तं पञ्चकम्, अथ सागारिको बहिस्तिष्ठति सोऽपि चलश्चलो नाम मुहूर्त्तमात्रेण गन्ता तस्मिन् सागारिके चले तिष्ठति मुहूर्तकमल्पार्थे कप्रत्ययोऽल्पं मुहूर्तम्, किमुक्तं भवति ? सप्ततालमात्रं सप्तपदातिक्रमणमात्रं वा स्थविरास्तिष्ठन्ति । - व्यवहार० मलय० । आभिगाहियस्स असती तस्सेव रओहरेण अण्णयरे । पाउंछणुण्णिएण व पुस्संति उ अणण्णभुत्तेणं ॥६॥२५२६॥ केनापि साधुना अभिग्रहो गृहीतो वर्तते । यथा मया आचार्यस्य बहिर्निर्गतस्य प्रत्यागतस्य च पादाः प्रस्फोटयितव्या इति, स यद्यस्ति तर्हि तेन प्रमार्जनायोपस्थातव्यम् तत्र चाचार्येणात्मीयं रजोहरणं तस्य समर्पयितव्यं पादप्रमार्जनाय, ततः स आभिग्रहिकस्तेनाचार्यसत्केन रजोहरणेन आचार्यस्य पादान् प्रमार्जयति । अथवा यदन्यदौर्णिकं पादप्रोञ्छनकमन्येन साधुना पादप्रमार्जनेनापरिभुक्तं तेनाचार्यस्य पादान् प्रस्फोटयति । अथाभिग्रहिको न विद्यते । तत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy