________________
प्रथमं परिशिष्टम्- टिप्पनानि ओदनवंजणपानगआयामुसिणोदगं च कुम्मासा । डगलगसरक्खसूई पिप्पलमाई य परिभोगो ॥५७६॥ वृ० ओदनं-कूरादि, व्यञ्जनं-तिम्मणम्, पानकम्-आचाम्लम् आयामम्-अवश्रावणम् उष्णोदकं कुल्माषाश्च, एतानि अग्ने निर्वानि कार्याणि, ततश्चै भिरुपयोगः क्रियते । इदानीमग्निनिर्वर्तितशरीरोपभोगं दर्शयन्नाह- डगलका इष्टकाखण्डा अतीव पक्वाः, सरक्खो-भस्म, सूच्यः, पिप्पलक:-क्षुरकः, एवमादिभिरचित्तैरग्निशरीरैरुपयोगः क्रियते, अग्निशरीराणि च द्विविधानि भवन्ति-बद्धेल्लयाणि मुक्केल्लयाणि च, तत्रात्र मुक्केल्लयाणि द्रष्टव्यानि ॥५७६॥ ___ इदानीमचित्तेन वायुना यत्प्रयोजनं भवति तत्प्रतिपादयन्नाह- दइएण वत्थिणा वा पओयणं होज वाउणा मुणिणो । गेलनम्मि व होजा सचित्तमीसे परिहरेजा ॥५७९॥ वृ० सुगमा॥ नवरं दतिएणं तरणं कीरति, गेलने वत्थिणा कजं होइ । उक्तो वायुः ॥५७९॥ __ संथारपायदंडगखोभिअकप्पाइ पीढफलगाई। ओसहभेसजाणि य एमाइ पओयणं तरुसु ॥५८१॥ वृ० तत्र संस्तारकः अशुषिरतृणैः क्रियते, कल्पद्वयं च कार्पासिकं भवति, औषधमन्तरुपयुज्यते, भेषजं बहिः । उक्तो वनस्पतिकायः ॥५८१॥ __चम्मट्ठिदंतनहरोमसिंगअमिलाइच्छगणगोमुत्ते । खीरदहिमाइयाणं पंचिंदिअतिरिअपरिभोगो ॥५८५।। वृ० तत्र चर्मणा कुष्ठिनः कार्यं भवति, अस्थ्ना-गृध्रनलकेन प्रयोजनं भवति वाय्वाद्यपहरणार्थ पादे बध्यते, दन्तेन सूकरादेः संबन्धिना प्रयोजनं नखेन वा, रोमभिः प्रयोजनमुरभ्रादीनां सत्कैस्तैः कम्बलिका भवति, शृङ्गेण किञ्चित् प्रयोजनं भवेत्, अमिला-उरभ्रा तत्पुरीषं पामादावुयुज्यते, तेन गोमूत्रेण चोपयोगः । शेषं सुगमम् ॥५८५॥" - ओघनि० द्रोणा० ॥
___ “गुरुपरिवारो गच्छो तत्थ वसंताण निजरा विउला । विणयाओ तह सारणमाईहिं न दोसपडिवत्ती ॥६९६॥ गुरुपरिवारः साधुवर्गो गच्छस्तत्र वसतां गच्छे निर्जरा विपुला भवति, कुत इत्याह- विनयात्, तथा स्मारणादिभिः करणभूतैर्न दोषप्रतिपत्तिर्भवतीति गाथार्थः ॥६९६।। ___अण्णोण्णाविक्खाए जोगम्मि तहिं तहिं पयट्टतो। निअमेण गच्छवासी असंगपयसाहगो भणिओ ॥६९९॥ अन्योऽन्यापेक्षया उक्तन्यायेन योगे तत्र तत्र- विनयादौ प्रवर्त्तमानः सन् नियमेन गच्छवासी साधुरसङ्गपदसाधको ज्ञेयः । असङ्गो मोक्ष इति गाथार्थः ॥६९९॥" - पञ्चवस्तुकटीका।
“इक्कस्स कओ धम्मो ? सच्छंदगईमईपयारस्स । किं वा करेइ इक्को परिहरउ कहं अकजं वा ॥१५६॥ व्या० एकस्य कुतो धर्मः ? किंभूतस्य ? स्वच्छंदसा निजाकूतेन गतिमतिप्रचारो बहिश्चेष्टाबुद्ध्याः प्रसरो यस्य स तथा तस्य, किंवा करोत्वेकः कृत्यम्, परहिरतु कथमकार्यं वा अकृत्यमुपायाभावात्, वाशब्दौ परस्परापेक्षया विकल्पार्थाविति ॥१५६॥ ____किंच- कत्तो सुत्तत्थागम- पडिपुच्छणचोयणा य इक्कस्स । विणओ वेयावच्चं - आराहणया य मरणंते ? ॥१५७॥ व्या० कुतः सूत्रार्थागमप्रतिप्रच्छनं चोदनं वा, एकस्य, तत्र सूत्रार्थागमः सूत्रार्थयोर्लाभः, प्रतिप्रच्छनं मुग्धबुद्धितया प्रश्नः, चोदना व्युत्पन्नमतित्वाच्चालना, वाशब्दः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org