________________
प्रथमं परिशिष्टम् - टिप्पनानि
प्राग्वत् । ताः कुतः ? एकस्य प्रतिप्रच्छन्नमुदग्रबुद्धितया प्रश्ने चरत्वात् । न कुतश्चित्, अत एव विनयादेकगृहणादिः, वैयावृत्त्यमौषधसंपादनादि, आराधनता वा नमस्कारप्रत्याख्यानादिभावरूपा, मरणान्ते मरणलक्षणावसानकाले कुत इति वर्तते ॥ १५७॥
११६
तथा - पिल्लिज्जेसणमिक्को पइन्नपमयाजणाउ निच्च भयं । काउमणोवि अकज्जं न तरइ काऊ बहुझे || १५८ ।। व्या० प्रेरयेन्निर्भयत्वादुल्लंघयेत् एषणां गवेषणग्रहणग्रासविषयामागमोक्तां मार्गणामेकः, प्रकीर्णप्रमदाजनादितस्ततो विक्षिप्तस्त्रीलोकात् सकाशादेकस्य नित्यभयं सदाभीतिश्चारित्रधनापहारित्वात्तस्य, व्यतिरेकमाह- कर्मोदयात्कर्तुमना अप्यकार्यं न तरति, न शक्नोति कर्तुम्, बहुमध्ये नियन्त्रितत्वादिति ॥ १५८॥
यथा - उच्चारपासवणवंत-पित्तमुच्छाइमोहिओ इक्को । सदवभाणविहत्थो निक्खिव व कुणइ उड्डाहं ॥१५९॥ व्या० उच्चारं पुरीषम्, प्रश्रवणं मूत्रम्, वान्तं वमनम् पित्तमूर्छा पित्तोद्रेकादाकस्मिकी विह्वलता, आदिशब्दाद्वातविसूचिकादिग्रहः । एतैरकाण्डप्रवृत्तैर्मोहितो विधुरितशरीर एकः सद्रवभाजनविहस्तः सपानकपात्रव्यग्रकरः सन्, वाशब्दो यदिशब्दार्थः, यदि तद्भाजनं निक्षिपति विह्वलतापातेन प्रेरयति तदात्मसंयमविराधनेति गम्यते । अथागृहीतेनाचरति उच्चारादीनि । ततः करोत्युड्डाहं प्रवचनलाघवमिति ॥ १५९ ॥
अन्यच्च - एगदिवसेण बहुआ सुहा य असुहा य जीवपरिणामा । इक्को असुहपरिणओ चइज्ज आलंबणं लद्धुं ॥ १६० ।। व्या० एकदिवसेन बहवः शुभाश्चाशुभाश्च जीवपरिणामा मनोवितर्का भवन्ति, यदि नामैवं ततः किमित्याह - एकोऽसहायोऽशुभपरिणामतः क्लिष्टाध्यवसायगतचित्तः सन् त्यजेदुज्झेत्संयममिति गम्यते, आलम्बनं स्वमतिविकल्पितं किञ्चित्कारणं लब्ध्वा प्राप्येति ॥ १६०॥
किंच- सव्वजिणप्पडिकुटुं अणवत्था थेरकप्पभेओ अ । इक्को अ सुआउत्तो वि हणड़ तवसंजमं अइरा ॥ १६९ ॥ व्या० सर्वजिनैः ऋषभादिभिः प्रतिक्रुष्टम् इति समासः, एकाकित्वमिति गम्यते । तथाहि-अस्मिन् सत्यनवस्था भवति प्रमादप्रचुरतया प्राणिनामपरेषामपि तथा प्रवृत्तेः, अतः स्थविरकल्पभेदश्च, अयः शलाकाकल्पतापत्तेः किं बहुना ? एकः, चशब्दोऽवधारणार्थः, स च पर्यन्ते संभत्स्यते, स्वायुक्तोऽपि सुष्ट्वप्रमत्तोऽपि, आस्तामपरः किम् ? हन्ति विनाशयति तपः प्रधानः संयमस्तपःसंयमस्तमचिरादेव शीघ्रमेवेत्यर्थः ॥१६१॥"
इति उपदेशमाला० सिद्धर्षिगणि० [पृ०५८५] "इदाणिं 'अतिहि' त्ति पाएण देति लोगो, उवयारी परिजितेसु वुसिते वा । जो पुण अद्धाखिणं, अतिहिं पूएति तं दाणं ॥ ४४२५ || पातोग्गहं जतो बाहुल्ये उवकारकारी, परिचितो मित्तादी वुसितो समोसिओएगगामनिवासी वा । पायसो एरिसेसु दाणं लोगो देति, तं च दाणं ण भवति । जो त्ति दाता, पुणो त्ति विसेसणे । किं विसेसेति ? अद्धाणं, तम्मि अद्धाणे जो खिन्नः श्रान्त इत्यर्थः, सो अतिही भवति, नान्यः, तं जो पूएति सो दाता, तं च दाणं जं तारिसस्स अतिहिस्स दिज्जति । अतिथावुपस्थितः अतिथी ||४४२५ || अतिहि त्ति गतं ।
Jain Education International
-M
For Private & Personal Use Only
www.jainelibrary.org