Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 526
________________ प्रथमं परिशिष्टम्- टिप्पनानि तेषामिन्द्रियाणामावारककर्मणां क्षयोपशमो भवति जीवस्य स लब्धिः । शेषमपि द्रव्येन्द्रियं तल्लाभ एव लब्धिप्राप्तावेव भवतीति द्रष्टव्यमिति ॥२९९७।। उपयोगः कः ? इत्याह- जो सविसयवावारो सो उवओगो स चेगकालम्मि । एगेण चेय तम्हा उवओगेगिंदिओ सव्वो ॥२९९८॥ यः श्रोत्रादीन्द्रियस्य स्वविषये शब्दादौ परिच्छेदो व्यापारः स उपयोगः । स चैकस्मिन् काले देवादीनामप्येकेनैव श्रोत्राद्यन्यतरेणेन्द्रियेण भवति, न तु व्यादिभिः । तस्मादुपयोगमाश्रित्य सर्वोऽपि जीव एकेन्द्रिय एव, सर्वस्मिन् काले देवादीनामप्येकस्यैव श्रोत्राद्यन्यतरेन्द्रियोपयोगस्य सद्भावादिति ॥२९९८॥ __ यधुपयोगतः सर्वोऽपि जीव एकेन्द्रियः, तर्हि एकेन्द्रियो द्वीन्द्रिय इत्यादिर्भेदः कथमागमे निर्दिष्टः ? इत्याह- एगेंदियाइभेया पडुच्च सेसेंदियाइं जीवाणं । अहवा पडुच्च लद्धिंदियं पि पंचेंदिया सव्वे ॥२९९९॥ अतो जीवानामेकेन्द्रियादयो भेदाः शेषाणि निवृत्त्युपकरण-लब्धीन्द्रियाणि प्रतीत्य द्रष्टव्याः । तानि यस्य यावन्ति तावद्भिर्व्यपदेश इति, न तूपयोगतः । अथवा, लब्धीन्द्रियमप्याश्रित्य वक्ष्यमाणयुक्तितः सर्वे पृथिव्यादयोऽपि जीवाः पञ्चेन्द्रिया एवेति ॥२९९९।। ___ कुतः सर्वे पञ्चेन्द्रियाः ? इत्याह- जं किर बउलाईंणं दीसइ सेसेंदिओवलंभो वि । तेण त्थि तदावरणखओवसमसंभवो तेसिं॥३०००। यस्मात् किल बकुल-चम्पक-तिलक-विरहकादीनां वनस्पतिविशेषाणां स्पर्शनात् शेषाणि यानि रसन-घ्राण-चक्षुः-श्रोत्रलक्षणानीन्द्रियाणि तत्संबन्ध्युपलम्भो दृश्यते, तेन ज्ञायते- तेषामपि बकुलादीनां तदावरणक्षयोपशमसंभवो रसनादीन्द्रियावारककर्मक्षयोपशमस्य या च यावती मात्राऽस्तीति । अन्यथा हि बकुलस्य शृङ्गारितकामिनीवदनार्पितचारुमदिरागण्डूषेण, चम्पकस्यातिसुरभिगन्धोदकसेकेन, तिलकस्य कामिनीकटाक्षविक्षेपेण, विरहकस्य पञ्चमोद्गारश्रवणेन पुष्पपल्लवादिसंभवो न घटते ॥३०००॥” - विशेषाव० मलधारि० ॥ [पृ० ५७५ पं०१४] “पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातका निर्ग्रन्थाः ॥९॥४८॥ भा० पुलाको बकुश: कुशीलो निर्ग्रन्थ: स्नातक इत्येते पञ्च निर्ग्रन्थविशेषा भवन्ति ॥ टी० पुलाकादयः पञ्चान्वर्थसञ्जका निर्ग्रन्थाः स्वामिनः । तद्विवरणार्थमाह- पुलाकः बकुश: कुशीलः निर्ग्रन्थः स्नातक इति । एते पञ्च निर्ग्रन्थविशेषा, भेदा भवन्ति निर्ग्रन्थानामिति । ग्रन्थः कर्माष्टकप्रकारं मिथ्यात्वा-ऽविरति-कषाय]दुष्प्रणिहितयोगाश्च । तज्जये प्रवृत्ताः । निर्गच्छद्ग्रन्था निर्ग्रन्थाः धर्मोपकरणादृते परित्यक्तबाह्याभ्यन्तरोपधयो निर्ग्रन्थाः । पुलाकादिस्वरूपनिरूपणायाह__ भा० तत्र सततमप्रतिपातिनो जिनोक्तादागमानिर्ग्रन्थपुलाकाः । नैर्ग्रन्थ्यं प्रति प्रस्थिताः शरीरोपकरणविभूषाऽनुवर्तिनः ऋद्धियशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवारा: छेदशबलयुक्ता निर्ग्रन्था बकुशाः ॥ टी० तत्र सततमित्यादि । तत्र-तेषु पञ्चसु निर्ग्रन्थेषु पुलाकास्तावदेवंविधाः । पुलाको निःसार इति प्ररूढं लोके । पलञ्जिस्तन्दुलकणशून्या पुलाकः । A-33 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579