Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 525
________________ प्रथमं परिशिष्टम् - टिप्पनानि साम्प्रतं क्षेत्रलोकमधिकृत्याह - त्रिविधं त्रिप्रकारम् अधोलोकभेदादिं इति प्राकृतशैल्याऽधोलोकादिभेदम्, आदिशब्दात्तिर्यगूर्ध्वलोकपरिग्रह इति गाथार्थः ॥ ५३॥” ध्यानशतक हारि० । ११० - [पृ० ५७२-५७३] “अथेन्द्रियस्वरूपं विवरीषुराह - इंदो जीवो सव्वोवलद्धिभोगपरमेसरत्तणओ । सोत्ताइभेयमिंदियमिह तल्लिंगा भावाओ ।। २९९३।। व्या० ' इदि परमैश्वर्ये' [पा०धा० ६३ ] इन्दनात् परमैश्वर्ययोगादिन्द्रो जीवः; परमैश्वर्यमस्य कुतः ? इत्याह- सव्वो इत्यादि आवरणाभावे सर्वस्यापि वस्तुन उपलम्भात्, नानाभवेषु सर्वस्यापि त्रिजगद्गतस्य वस्तुनः परिभोगाच्च परमेश्वरो जीव इति तस्य परमैश्वर्यम् । तस्येन्द्रस्य जीवस्य लिङ्गं चिह्नं तेन दृष्टं सृष्टं वा निपातनादिहेन्द्रियमुच्यते, अत एवाह - इन्द्रियमिह तल्लिङ्गादिभावादिति । तच्च श्रोत्रादिभेदं श्रोत्र - नयन- घ्राण - रसन- स्पर्शनभेदात् पञ्चविधमित्यर्थः ॥२९९३॥ तदपि नामादिभेदाच्चतुर्विधमिति दर्शयन्नाह - तं नामाइ चउद्धा दव्वं निव्वित्ति उवगरणं च । आगारो निव्वित्ति चित्ता बज्झा इमा अंतो ॥ २९९४ ।। पुप्फे कलंबुयाए-धन्नमसूराइमुत्तचंदो य । होइ खुरप्पो नाणागिई य सोइंदियाईणं ॥ २९९५ । । विसयग्गहणसमत्थं उवगरणं इंदियंतरं तंपि । जं नेह तदुवघाए गिण्हइ निव्वत्तिभावे वि ।। २९९६ ।। व्या० तद् नामेन्द्रियं स्थापनेन्द्रियमित्यादिभेदाच्चतुर्धा । तत्र ज्ञ - भव्यशरीरव्यतिरिक्तं द्रव्यं द्रव्येन्द्रियं निर्वृत्तिरुपकरणं चेति द्विभेदम् । तत्र कर्णशष्कुलिकादिराकारो निर्वृत्तिरुच्यते । सापि बाह्या - ऽऽन्तरभेदात् पुनरपि द्विभेदा । तत्र बाह्या निर्वृत्तिश्चित्रा नानाप्रकारा मनुष्या - ऽश्व - शशकादेः कस्यापि कीदृक्स्वरूपेत्यर्थः । अन्तर्निर्वृत्तिस्त्वियम्; का ? इत्याह- पुप्फमित्यादि, श्रोत्रस्यान्तर्निर्वृत्तिः कदम्बपुष्पाकारमांसगोलकरूपा द्रष्टव्या, चक्षुषस्तु धान्यमसूराकारा, घ्राणस्यातिमुक्तककुसुमचन्द्रकाकारा, रसनस्य क्षुरप्राकारा, स्पर्शनं तु नानाकृति द्रष्टव्यमिति । एष श्रोत्रादीनां तन्निर्वृत्तेराकार इति । तस्या एव कदम्बपुष्पाकृतिमांसगोलकरूपायाः श्रोत्राद्यन्तर्निर्वृत्तेर्यद्विषयग्रणसमर्थं शक्तिरूपमुपकरणं तदुपकरणं द्रव्येन्द्रियम् 'उच्यते' इति शेषः ; यथा खड्गस्य च्छेत्री शक्तिः, वह्नेर्वा दाहादिका शक्तिस्तथेदम श्रोत्राद्यन्तर्निर्वृत्तेर्विषयग्रहणसमर्थशक्तिरूपं द्रष्टव्यम् । तर्ह्यन्तर्निर्वृत्तिरेव तत्, तच्छक्तिरूपत्वात्, न पुनर्भेदान्तरमित्याशङ्क्याह- तदपीन्द्रियान्तरं द्रव्येन्द्रियस्य भेदान्तरमित्यर्थः । कुतः ? इत्याहजमित्यादि, यस्मादिह कदम्बपुष्पाद्याकृतेर्मांसगोलकाकारायाः श्रोत्राद्यन्तर्निवृत्तेर्या शब्दादिविषयपरिच्छेत्री शक्तिस्तस्या वात-पित्तादिनोपघाते विनाशे सति यथोक्तान्तर्निर्वृत्तिसद्भावेऽपि न शब्दादिविषयं गृह्णाति जीवः, इत्यतो ज्ञायते - अस्त्यन्तर्निर्वृत्तिशक्तिरूपमुपकरणेन्द्रियं द्रव्येन्द्रियस्य द्वितीयो भेद इति ॥ २९९४ २९९६॥ भावेन्द्रियमाह- लधुवओगा भाविंदियं तु लद्धि त्ति जो खओवसमो । होइ तदावरणाणं तल्लाभे चेव सेसंपि ।। २९९७ ।। लब्ध्युपयोगौ भावेन्द्रियम् । तत्र यदावरणानां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579