Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 523
________________ १०८ प्रथमं परिशिष्टम्- टिप्पनानि तत्र च कानिचित् गृहाण्युच्चस्थाने कानिचित् नीचस्थाने तानि भारेण वेदनायां सत्यां हिण्डमानस्य श्वासो भवति । तथा बाहोः कटेश्च वातेन ग्रहणं भवति, तथा ग्रामे विषमाकारेण व्यवस्थिते यत्र तत्र वा तिर्यक् शरीरं कृत्वा गच्छतः शूलं वा भवेत् ॥ बहिया य पित्तमुच्छा पडणं उण्हेण वावि वसहीए । आदियणे छड्डणादी सो चेव य पोरिसीभंगो ॥६॥२५७६॥ उष्णेन परितापितस्य पित्तप्रकृतेर्बहिः पित्तमूर्छावशतः पतनं भवेत् । तथा च सति भक्तभृतभाजनसहितस्य महानुड्डाहः वसतौ वा पित्तमूर्छावशतः पतनम् । तत्र प्रभूतजलापानं समुद्देशानान्तरमपि प्रचुरजलादानम्, तथा च सति त एव च्छर्दनादयः प्रागुक्ता दोषाः, स एव च सूत्रपौरुष्याश्च भङ्गः ॥" - व्यवहार० मलय० ॥ ___ [पृ० ५६७] जेण कुलं आयत्तं.... ॥ “इयं गाथा अणहिलपुरपत्तने खेतरवसीपाडामध्ये विद्यमानायाम् आवश्यकनिर्युक्तेर्हस्तलिखितायां तालपत्रात्मिकायां प्रतौ दृष्टाऽस्माभिः, मुद्रितायां तु न दृश्यते । आवश्यकसूत्रस्य हारिभत्र्यां वृत्तौ (पृ० २६३) इत्थमुपलभ्यते- “आह च- सुत्तत्थेसु अचिंतण आएसे वुड्ढसेहगगिलाणे । बाले खमए वाई इड्ढीमाइ अणिड्ढी य ॥१॥ एएहिं कारणेहिं तुंबभूओ उ होति आयरिओ । वेयावच्चं ण करे कायव्वं तस्स सेसेहिं ॥२॥ जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेजा न हु तुंबम्मि विणढे अरया साहारया होंति ॥३॥ वाले सप्पभए, तहा इड्ढिमंतंमि आगए पाणगादिगए आयरिए लहुत्तं, एवं वादिम्मि वि, अणिस्सरपव्वइयगा य एए त्ति जणापवादो, सेसं कंठं” । आवश्यकसूत्रस्य मलयगिरिविरचितायां वृत्तौ त्वेवमुपलभ्यते“तथा चाह- सुत्तत्थेसु अचिंतण..... ॥१॥ ..... ॥२॥ ....... ॥३॥ आदेशे प्राघूर्णके, वृद्धे, शैक्षके, ग्लाने, तथा बाले लघुवयसि, क्षपके च...... एतदेवाह- जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेह । न हु तुंबम्मि विणढे अरगा साहारगा हुंति ॥१३३॥ येन पुरुषेण कुलमायत्तं तं पुरुषमादरेण रक्षेत्, यतो न हु नैव तुम्बे विनष्टे अरकाः साधारकाः साधारा भवन्ति ।” इति आवश्यकनिर्युक्तेर्मलयगिरिसूरिविरचितायां वृत्तौ इच्छाकारसामाचारीवर्णने ॥" - इति द्वादशारनयचक्रस्य टिप्पने (पृ०८७७ टि० १) ॥ ___ "तब्भावुवयोगेणं रहिए कम्मादि संजमे भेदो । मेरावलंबिया मे वेहाणसमादि निव्वेदो ॥६॥२६९४॥ तस्य भावस्तद्भावः । पुंवेद इत्यर्थः । तस्मिन्नुपयोगस्तद्भावोपयोगस्तेन तद्भावोपयोगेन विजने स्थाने वर्तमानः सहायरहितो हस्तकर्मादि कुर्यात् । एवं संयमे संयमस्य भेदो विराधना । तथा कोऽप्यतिप्रबलपुंवेदोदयपीडित एवं चिन्तयेत् । यथा- मया मर्यादा सकलजनसमक्षं गुरुपादसमीपेऽवलम्बिता; । सम्प्रति चाहमतिपीडित आसितुं न शक्नोमि ततो निर्वेदात् वैहानस(सं?)मुक्तलम्बनमादिशब्दादन्यद्वा आत्मघातादिकमाचरेत् । एषात्मविराधना तस्माद्बहिरन्तर्वा एकाकिना न स्थातव्यम् । आह- यदि संयमानिर्गतभावस्ततस्तस्य सहाया अपि किं करिष्यन्ति तत आह For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579