Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 518
________________ प्रथमं परिशिष्टम् - टिप्पनानि " सम्प्रति भाष्यकारो विषमपदानि व्याचष्टे - तिविहं च होति दुग्गं, रुक्खे सावय मणुस्सदुग्गं च । णिक्कारणम्मि गुरुगा, तत्थ वि आणादिणो दोसा ।। ६१८३ ।। व्या० त्रिविधं च भवति दुर्गम्, तद्यथा- वृक्षदुर्गं श्वापददुर्गं मनुष्यदुर्गं च । यद् वृक्षैरतीव गहनतया दुर्गमं यत्र वा पथि वृक्षः पतितः तद् वृक्षदुर्गम् । यत्र व्याघ्र - सिंहादीनां भयं तत् श्वापददुर्गम् । यत्र म्लेच्छ - बोधिकादीनां मनुष्याणां भयं तद् मनुष्यदुर्गम् । एतेषु त्रिष्वपि दुर्गेषु यदि निष्कारणे निर्ग्रन्थीं गृह्णाति अवलम्बते वा तदा चतुर्गुरु, आज्ञादयश्च दोषाः || ६१८३॥ अथ प्रस्खलन-प्रपतनपदे व्याचष्टे - भूमीए असंपत्तं, पत्तं वा हत्थ- जाणुगादीहिं । पक्खुलणं णायव्वं, पवडण भूमीय गत्तेहिं ॥ ६१८६ ॥ व्या० भूमावसम्प्राप्तं हस्त - जानुकादिभिः प्राप्तं वा प्रस्खलनं ज्ञातव्यम् । भूमौ प्राप्तं सर्वगात्रैश्च यत् पतनं तत् प्रपतनम् ||६१८६ || पंको खलु चिक्खल्लो, आगंतू पयणुओ दुओ पणओ । सो पुण सजलो सेओ, सीतिज्जति जत्थ दुविहे वी ॥ ६१८८।। व्या० पङ्कः खलु चिक्खल्ल उच्यते । आगन्तुकः प्रतनुको द्रुतश्च पनकः । यत्र पुनः द्विविधेऽपि पङ्के पनके वा सीइज्जति निमज्जते स पुनः सजलः सेक उच्यते ||६१८८||” बृहत्कल्पटीका० । - [पृ०५६३] “पंक- पणएसु नियमा, ओगसणं वुब्भणं सिया सेए । थिमियम्मि णिमज्जणता, सजले से सिया दो वि ।। ६१८९।। व्या० पङ्क - पनकयोर्नियमाद् अपकसनं ह्रसनं भवति । सेके तु वुज्झणं 'अपोहनं' पानीयेन हरणं स्यात् । स्तिमिते तु तत्र निमज्जनं भवेत् । सजले तु सेके अपि अपवहन - निमज्जने स्याताम् || ६१८९।। १०३ अथैनं भाष्यकारो विस्तरेण प्ररूपयितुमाह- रागेण वा भएण व अहवा अवमाणिया णरिंदेण । एतेहिं खित्तचित्ता, वणिताति परूविता लोए ।। ६९९५ ।। व्या० रागेण यदि वा भयेनाथवा नरेन्द्रेण प्रजापतिना, उपलक्षणमेतत्, सामान्येन वा प्रभुणा अपमानिताः अपमानं ग्राहिताः, एतैः खलु कारणैः क्षिप्तचित्ता भवन्ति । ते च लोके उदाहरणत्वेन प्ररूपिता वणिगादयः । तत्र रागेण क्षिप्तचित्ता यथावणिग्भार्या भर्तारं मृतं श्रुत्वा क्षिप्तचित्ता जाता ॥६१९५॥ अथ कथमेष दीप्तचित्तो भवति ? इति तत्कारणप्रतिपादनार्थमाह- इति एस असम्माणा, खित्ता सम्माणतो भवेदित्ता । अग्गी व इंधणेणं, दिप्पति चित्तं इमेहिं तु ॥ ६२४२ || व्या० इति अनन्तरसूत्रोक्ता एषा क्षिप्तचित्ता असम्मानतः अपमानतो भवति । दीप्ता दीप्तचित्ता पुनः सम्मानतः विशिष्टसम्मानावाप्तितो भवति । तच्च चित्तं दीप्यतेऽग्निरिवेन्धनैः एभिः वक्ष्यमाणैर्लाभमदादिभिः ॥६२४२॥ तानेवाह- लाभमएण व मत्तो, अहवा जेऊण दुज्जए सत्तू । दित्तम्मि सायवाहणो, तमहं वोच्छं समासेण || ६२४३ ॥ व्या० लाभमदेन वा मत्तः सन् दीप्तचित्तो भवति, अथवा दुर्जयान् शत्रून् जित्वा, एतस्मिन्नुभयस्मिन्नपि दीप्ते दीप्तचित्ते लौकिको दृष्टान्तः सातवाहनो राजा । तमहं सातवाहनदृष्टान्तं समासेन वक्ष्ये ॥ ६२४३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579