________________
प्रथमं परिशिष्टम् - टिप्पनानि
" सम्प्रति भाष्यकारो विषमपदानि व्याचष्टे - तिविहं च होति दुग्गं, रुक्खे सावय मणुस्सदुग्गं च । णिक्कारणम्मि गुरुगा, तत्थ वि आणादिणो दोसा ।। ६१८३ ।। व्या० त्रिविधं च भवति दुर्गम्, तद्यथा- वृक्षदुर्गं श्वापददुर्गं मनुष्यदुर्गं च । यद् वृक्षैरतीव गहनतया दुर्गमं यत्र वा पथि वृक्षः पतितः तद् वृक्षदुर्गम् । यत्र व्याघ्र - सिंहादीनां भयं तत् श्वापददुर्गम् । यत्र म्लेच्छ - बोधिकादीनां मनुष्याणां भयं तद् मनुष्यदुर्गम् । एतेषु त्रिष्वपि दुर्गेषु यदि निष्कारणे निर्ग्रन्थीं गृह्णाति अवलम्बते वा तदा चतुर्गुरु, आज्ञादयश्च दोषाः || ६१८३॥
अथ प्रस्खलन-प्रपतनपदे व्याचष्टे - भूमीए असंपत्तं, पत्तं वा हत्थ- जाणुगादीहिं । पक्खुलणं णायव्वं, पवडण भूमीय गत्तेहिं ॥ ६१८६ ॥ व्या० भूमावसम्प्राप्तं हस्त - जानुकादिभिः प्राप्तं वा प्रस्खलनं ज्ञातव्यम् । भूमौ प्राप्तं सर्वगात्रैश्च यत् पतनं तत् प्रपतनम् ||६१८६ ||
पंको खलु चिक्खल्लो, आगंतू पयणुओ दुओ पणओ । सो पुण सजलो सेओ, सीतिज्जति जत्थ दुविहे वी ॥ ६१८८।। व्या० पङ्कः खलु चिक्खल्ल उच्यते । आगन्तुकः प्रतनुको द्रुतश्च पनकः । यत्र पुनः द्विविधेऽपि पङ्के पनके वा सीइज्जति निमज्जते स पुनः सजलः सेक उच्यते ||६१८८||” बृहत्कल्पटीका० ।
-
[पृ०५६३] “पंक- पणएसु नियमा, ओगसणं वुब्भणं सिया सेए । थिमियम्मि णिमज्जणता, सजले से सिया दो वि ।। ६१८९।। व्या० पङ्क - पनकयोर्नियमाद् अपकसनं ह्रसनं भवति । सेके तु वुज्झणं 'अपोहनं' पानीयेन हरणं स्यात् । स्तिमिते तु तत्र निमज्जनं भवेत् । सजले तु सेके अपि अपवहन - निमज्जने स्याताम् || ६१८९।।
१०३
अथैनं भाष्यकारो विस्तरेण प्ररूपयितुमाह- रागेण वा भएण व अहवा अवमाणिया णरिंदेण । एतेहिं खित्तचित्ता, वणिताति परूविता लोए ।। ६९९५ ।। व्या० रागेण यदि वा भयेनाथवा नरेन्द्रेण प्रजापतिना, उपलक्षणमेतत्, सामान्येन वा प्रभुणा अपमानिताः अपमानं ग्राहिताः, एतैः खलु कारणैः क्षिप्तचित्ता भवन्ति । ते च लोके उदाहरणत्वेन प्ररूपिता वणिगादयः । तत्र रागेण क्षिप्तचित्ता यथावणिग्भार्या भर्तारं मृतं श्रुत्वा क्षिप्तचित्ता जाता ॥६१९५॥
अथ कथमेष दीप्तचित्तो भवति ? इति तत्कारणप्रतिपादनार्थमाह- इति एस असम्माणा, खित्ता सम्माणतो भवेदित्ता । अग्गी व इंधणेणं, दिप्पति चित्तं इमेहिं तु ॥ ६२४२ || व्या० इति अनन्तरसूत्रोक्ता एषा क्षिप्तचित्ता असम्मानतः अपमानतो भवति । दीप्ता दीप्तचित्ता पुनः सम्मानतः विशिष्टसम्मानावाप्तितो भवति । तच्च चित्तं दीप्यतेऽग्निरिवेन्धनैः एभिः वक्ष्यमाणैर्लाभमदादिभिः ॥६२४२॥ तानेवाह- लाभमएण व मत्तो, अहवा जेऊण दुज्जए सत्तू । दित्तम्मि सायवाहणो, तमहं वोच्छं समासेण || ६२४३ ॥ व्या० लाभमदेन वा मत्तः सन् दीप्तचित्तो भवति, अथवा दुर्जयान् शत्रून् जित्वा, एतस्मिन्नुभयस्मिन्नपि दीप्ते दीप्तचित्ते लौकिको दृष्टान्तः सातवाहनो राजा । तमहं सातवाहनदृष्टान्तं समासेन वक्ष्ये ॥ ६२४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org