________________
१०२
प्रथमं परिशिष्टम्- टिप्पनानि
चत्वारश्चानुपरिहारिकाः एकस्तु कल्पस्थितः । तत्र परिहारिकाणां तदासेवकत्वादिदं निर्विशमानकमुच्यते, अनुपरिहारिकाणां कल्पस्थितस्य च विहितवक्ष्यमाणतपसां निर्विष्टकायिकमाभिधीयत इति ॥१२७०१२७१॥” - विशेषाव० मलधारि० ॥
[पृ०५५५-५५६] “अथ सूक्ष्मसंपरायचारित्रमाह- कोवाइ संपराओ तेण जओ संपरीइ संसारं। तं सुहुमसंपरायं सुहुमो जत्थावसेसो सो ॥१२७७॥ सेढिं विलग्गओ तं विसुज्झमाणं तओ चयंतस्स । तह संकिलिस्समाणं परिणामवसेण विन्नेयं ॥१२७८॥ व्या० क्रोधादिः कषायवर्गः संपराय उच्यते । कुतः ?, इत्याह- यतः संपरैति पर्यटति संसारमनेनेति संपरायः सूक्ष्मोऽवशेषो यत्र तत् सूक्ष्मसंपरायम् । तच्च श्रेणिं विलगत आरोहतो विशुध्यमानकं भवति । तथा, तस्याः प्रच्यवमानस्य संक्लिश्यमानकं परिणामवशेन तद् विज्ञेयमिति ॥१२७७-१२७८।।
अथ यथाख्यातचारित्रं विवृण्वन्नाह- अहसदो जाहत्थे आङोऽभिविहीए कहियमक्खायं । चरणमकसायमुदितं तमहक्खायं जहक्खायं ॥१२७९॥ व्या० अथ इत्ययं याथातथ्यार्थे, आङ् अभिविधौ । ततश्च याथातथ्येन, अभिविधिना वाख्यातं कथितं तदकषायं चरणं तदथाख्यातं यथाख्यातं चोदितमिति ॥१२७९॥
एतच्च कतिविधम् ?, इत्याह- तं दुविगप्पं छउमत्थ-केवलिविहाणओ पुणेक्केकं । खयवसमज-सजोगा-ऽजोगिकेवलिविहाणओ दुविहं ॥१२८०॥ तच्च यथाख्यातचारित्रं छद्मस्थकेवलिस्वामिभेदाद् द्विभेदम् । छद्मस्थसंबन्धि पुनरपि द्विविधम्- मोहक्षयसमुत्थम्, तदुपशमप्रभवं च। केवलिसंबन्ध्यपि सयोग्य-ऽयोगिकेवलिभेदतो द्विविधमेवेति ॥१२८०॥" - विशेषाव० मलधारि०॥
पृ०५६२] “किञ्च- मिच्छत्ते उड्डाहो, विराहणा फास भावसंबंधो । पडिगमणादी दोसा, भुत्तमभुत्ते य णेयव्वा ॥६१७०।। व्या० मिथ्यात्वं नाम-निर्ग्रन्थ्याः कण्टकमुद्धरन्तं संयतं दृष्ट्वा लोको ब्रूयात्- यथा वादिनस्तथा कारिणोऽमी न भवन्ति । उड्डाहो वा भवेत्- अहो ! यद् एवमियं पादे गृहीता तद् नूनमन्यदाऽप्यनयोः साङ्गत्यं भविष्यति । विराधना वा संयमस्य भवति, कथम् ? इत्याह- स्पर्शत: शरीरसंस्पर्शेनोभयोरपि भावसम्बन्धो भवति । ततो भुक्तभोगिनोरभुक्तभोगिनोर्वा तयोः प्रतिगमनादयो दोषा ज्ञातव्याः ॥६१७०॥ - बृहत्कल्पटीका० ।। __मिच्छत्ते उड्डाहो, विराहणा फासभावसंबंधो । पडिगमणादी दोसा, भुत्ताभुत्ते य णायव्वा ॥५९२०॥ इत्थियाहिं कीरतं पासित्ता कोइ मिच्छत्तं गच्छेज्जा, एते कावडिय त्ति काउं । संजमविराहणा य । इत्थिफासे मोहोदयो परोप्परओ वा फासेण भावसंबंधो हवेज्जा, ताहे पडिगमणं अण्णतित्थियादि दोसा । अहवा- फासतो जो भुत्तभोगी सो पुव्वरयादि संभरिज्जा । अहवा- चिंतिज एरिसो मम भोइयाए फासो, एरिसी वा मम भोइया आसि । अभुत्तभोइस्स इत्थिफासेण कोउयादि विभासा ॥५९२०॥" - निशीथ० चूर्णिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org