________________
प्रथमं परिशिष्टम्- टिप्पनानि
१०१
अथवा समस्य भावः साम्यम्, साम्यस्यायो निपातनात् सामायः स एव सामायिकमिति ।।३४८१॥
विस्तरार्थं तु भाष्यकृदाह- सव्वमिणं सामाइयं छेयाइविसेसओ पुणो भिन्नं । अविसेसियमाइमयं ठियमिह सामन्नसन्नाए ॥१२६२॥ सावजजोगविरइ त्ति तत्थ सामाइयं दुहा तं च। इत्तरमावकहं ति य पढम पढमं-तिमजिणाणं ॥१२६३॥ तित्थेसुमणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणं च ॥१२६४॥ व्या० सर्वमपीदं चारित्रमविशेषतः सामायिकमेव । एतदेव च च्छेदादिविशेषैर्विशेष्यमाणमर्थत: संज्ञातश्च नानात्वं प्रतिपद्यते । तत्राद्यं विशेषणाभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति । तत्र सावद्ययोगविरतिस्वरूपमेतत् सामायिकम् । तच्च द्विधा- इत्वरम्, यावत्कथिकं च । तत्रेत्वरं स्वल्पकालीनं भरतैरावताऽऽद्य-चरमतीर्थकरतीर्थयोरेवानारोपितमहाव्रतस्य शिष्यकस्य द्रष्टव्यम् । यावत्कथिकं यावज्जीविकं भरतैरावतप्रथम-चरमवर्जशेषतीर्थकरतीर्थसाधूनाम्, महाविदेहजानां च साधूनामवसेयमिति ॥१२६२-१२६४॥" - विशेषाव० मलधारि० ॥
[पृ०५५५] "छेदोपस्थापनीयस्य व्याख्यामाह- परियायस्स य छेओ जत्थोवट्ठावणं वएसुं च । छेओवट्ठावणमिह तमणइयारेयरं दुविहं ॥१२६८॥ सेहस्स निरइयारं तित्यंतरसंकमे च तं होजा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥१२६९॥ व्या० जत्थ त्ति यत्र चारित्रे पूर्वपर्यायस्य च्छेदः, व्रतेषु चोपस्थापनं विधीयते, तदिह च्छेदोपस्थापनम् । तच्च द्विधा- सातिचारम्, अनतिचारं च । तत्र शिष्यकस्योपस्थापनायाम्, तीर्थान्तरसंक्रान्तौ वा यदारोप्यते तद् निरतिचारं भवेत् । यत्तु मूलगुणघातिनः पुनरपि समारोप्यते तत् सातिचारम् । एतच्चोभयमपि स्थितकल्प एव भवति, न स्थितास्थितकल्पे । तत्र भरतैरावतप्रथम-चरमतीर्थकरसाधूनां स्थितकल्पः- “आचेलकु-हेसिअसेजाघर-रायपिंड-किइकम्मे । वय-जिट्ठ-पडिक्कमणे मासं पज्जोसणाकप्पे ॥" [बृहत्कल्प०६३६४] इत्येतस्मिन् दशविधेऽपि कल्पे तेषां स्थितत्वात् । भरतैरावतशेषद्वाविंशतितीर्थकरसाधूनाम्, महाविदेहार्हत्साधूनां च स्थितास्थितकल्पः- ‘सिज्जायरपिंडम्मि चाउज्जामे य पुरिसजेटे य । किइकम्मस्स य करणे चत्तारि अवट्ठिया कप्पा ॥१॥' [बृहत्कल्प०६३६१] एतेषु चतुर्षु कल्पेषु नियमेन तेषामपि स्थितत्वात्, शेषेषु तु षट्सु नियमाभावेनाऽस्थितत्वादिति ॥१२६८-१२६९।। अथ परिहारविशुद्धिकं विवृणोति- परिहारेण विसुद्धं सुद्धो वा तओ जहिं विसेसेण । तं परिहारविसुद्धं परिहारविसुद्धियं नाम ॥१२७०॥ तं दुविगप्पं निव्विस्समाण-निविट्ठकाइयवसेणं । परिहारिया-णुपरिहारियस्स कप्पट्ठियस्स वि य ॥१२७१॥ व्या० परिहारस्तपोविशेषः, तेन विशुद्धं परिहारविशुद्धम्, अथवा, तकोऽसौ परिहारो विशेषेण शुद्धो यत्र तत्परिहारविशुद्धम्, तदेव स्वार्थिकप्रत्ययोपादानात् परिहारविशुद्धिकं नामेति । एतच्च निर्विशमान-निर्विष्टकायिकभेदाद् द्विविधम् । कस्य पुनरेतच्चारित्रं भवति ?, इत्याहपरिहारिएत्यादि इदमुक्तं भवति- नवको गण इदं प्रतिपद्यते, तद्यथा- चत्वारः परिहारिकाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org