SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ १०० प्रथमं परिशिष्टम्- टिप्पनानि उउ-वासा समतीता, कालातीया उ सा भवे सेजा । स च्चेव उवट्ठाणा, दुगुणा दुगुणं अवजेत्ता ॥५७५॥ ऋतुबद्धे काले वर्षाकाले च यत्र स्थितास्तस्यामृतुबद्धे काले मासे पूर्ण वर्षाकाले चतुर्मासे पूर्णे यत् तिष्ठति सा कालातिक्रान्ता वसतिः । “सच्चेव" इत्यादि । या कालमर्यादाऽनन्तरमुक्ता। 'ऋतुबद्धे मासो वर्षासु चत्वारो मासाः' इति तामेव द्विगुणां द्विगुणामवर्जयित्वा यत्र भूयः सम्रागत्य तिष्ठन्ति सा उपस्थाना । किमुक्तं भवति ?- ऋतुबद्धे काले द्वौ मासौ वर्षास्वष्टमासान् अपरिहत्य यदि पुनरागच्छति तस्यां वसतौ ततः सा उपस्थाना भवति, उपयस्यां वसतौ वर्षावासं स्थितास्तस्यां द्वौ वर्षारात्रावन्यत्र कृत्वा यदि समागच्छन्ति ततः सा उपस्थाना न भवति अर्वाक् तिष्ठतां पुनरुपस्थापना ॥५९५॥ - बृहत्कल्पटीका० । __ “विहिगहिअं विहिभुत्तं अइरेगं भत्तपान भोत्तव्वं । विहिगहिए विहिभुत्ते एत्थ य चउरो भवे भंगा ॥९१४॥ वृ० विधिनोद्गमदोषादिरहितं सारासारविभागेन च यन्न कृतं पात्रके तद्विधिगृहीतम्, तथा विधिभुक्तं कटकच्छेदेन प्रतरच्छेदादिना वा यद् भुक्तं तद्विधिभुक्तमुच्यते, तदेवंविधं विधिगृहीतं विधिभुक्तं च यद्यदतिरिक्तं संजातं भक्तं पानकं वा तद् भोक्तव्यं परिष्ठापनकं कल्पते, अत आह प्रकारान्तरेण- अत्र च विधिगृहीते विधिभुक्ते चास्मिन् पदद्वये चत्वारो भङ्गका भवन्ति, तद्यथाविहिगहिअं विहिभुत्तं एगो भंगो, विहिगहिअं अविहिभुत्तं बिइओ, अविहिगहिअं विहिभुत्तं तइओ, अविहिगहिअं अविहिभुत्तं चउत्थो ॥९१४॥" - ओघनि० द्रोणा० ॥ [पृ०५५२] "तेसि णमो तेसि णमो भावेण पुणो पुणोवि तेसि णमो । अणुवकयपरहिअरया जे एयं दिति जीवाणं ॥१६००॥ तेभ्यो नमस्तेभ्यो नमः । भावेन अन्तःकरणेन पुनरपि तेभ्यो नम इति त्रिर्वाक्यम्, अनुपकृतपरहितरता गुरवो यत एतद्ददति जीवेभ्यो धर्मयानमिति गाथार्थः ॥१६००॥" - पञ्चवस्तुकटीका । [पृ०५५३] राग-द्वेषविरहितः सम इत्ययनमयः इति गमनमिति । समगमनमिति समायः स एव सामायिकं नाम ॥३४७७॥ अथवा भवं समाये निर्वृत्तं तेन तन्मयं वापि । यत् तत्प्रयोजनं वा तेन वा सामायिकं ज्ञेयम् ॥३४७८॥ अथवा समानि सम्यक्त्व-ज्ञान-चरणानि तेषु तैर्वा । अयनमय: समायः स एव सामायिकं नाम ॥३४७९।। अथवा समस्यायो गुणानां लाभ इति यः समायः सः। अथवा समानामायोज्ञेयः सामायिकं नाम ॥३४८०॥ - इति संस्कृते छाया ॥ [पृ०५५४] “अहवा सामं मित्ती तत्थ अओ तेण सामाओ। अहवा सामस्साओ लाभो सामाइयं नाम ॥३४८१॥ व्या० अथवा, सर्वजीवेषु मैत्री साम भण्यते, तत्र साम्नि अयो गमनम्, साम्ना वाऽयो गमनं वर्तनं सामायः, अथवा, साम्न आयो लाभः सामायः स एव सामायिकं नामेति। अथवा, सम्यगर्थसंशब्दपूर्वकोऽयधातुः, सम्यगयनं वर्तनं समयः, समय एव स्वार्थिकेकञ्प्रत्ययोपादानादुभयत्र वृद्धिभावाच्च सामायिकम्; अथवा, सम्यगायो लाभः समायः, स एव सामायिकम्; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy