________________
प्रथमं परिशिष्टम्- टिप्पनानि जीयकप्पो ॥१२॥ यत् प्रायश्चित्तं यस्याचार्यस्य गच्छे आचार्यपरंपरागतत्वेनाविरुद्धम्, न पूर्वपुरुषमर्यादातिक्रमेण विरोधभाक्, यथान्येषामाचार्याणां नमस्कारपौरुष्यादिप्रत्याख्यानस्याकरणे कृतस्य वा भङ्गे प्रायश्चित्तमाचाम्लम्, तथा आवश्यकगतैककायोत्सर्गाकरणे पूर्वार्द्धकायोत्सर्गद्वयाकरणे एकाशनकमित्यादि, तथा ये योगा उपधानानि बहुविकल्पा गच्छभेदेन बहुभेदा आचार्यपरंपरागतत्वेन चाविरुद्धा यथा नागिलकुलवंशवर्तिनां साधूनामाचारादारभ्य यादवनुत्तरोपपातिकदशा: तावन्नास्ति आचाम्लम्, केवलं निर्विकृतिकेन ते पठन्ति आचार्यानुज्ञाताश्च विधिना कायोत्सर्गं कृत्वा विकृती: परिभुञ्जते, तथा कल्पव्यवहारयोः चन्द्रप्रज्ञप्ति-सूर्यप्रज्ञप्त्योश्च केचिदागाढं योगं प्रतिपन्ना अपरे त्वनागाढमिति, एस खलु जीयकप्पो उ इति एष सर्वोऽपि खलु गच्छभेदेन प्रायश्चित्तभेदो योगभेदश्चाचार्यपरंपरागतो जीतकल्पो जीतव्यवहारो वेदितव्यः उक्तो व्यवहारः ॥१२॥" - व्यवहार० मलय० पीठिका० ॥ ___ “अथाचीर्णस्यैव लक्षणमाह- असढेण समाइण्णं, जं कत्थइ कारणे असावजं। ण णिवारियमण्णेहिँ य, बहुमणुमयमेतमाइण्णं ॥४४९९॥ व्या० अशठेन राग-द्वेषरहितेन कालिकाचार्यादिवत् प्रमाणस्थेन सता समाचीर्णम् आचरितं यद् भाद्रपदशुद्धचतुर्थीपर्युषणापर्ववत् कुत्रचिद् द्रव्य-क्षेत्र-कालादौ कारणे पुष्टालम्बने असावद्यं प्रकृत्या मूलोत्तरगुणाराधनाया अबाधकम्, न च नैव निवारितम् अन्यैः तथाविधैरेव तत्कालवर्तिभिर्गीतार्थैः, अपि तु बहु यथा भवति एवमनुमतमेतदाचीर्णमुच्यते ॥४४९९।।" - बृहत्कल्पटीका० ॥
[पृ० ५५०] “साम्प्रतमेतासामेव कालातिक्रान्तादीनां व्याख्यानभिधित्सुराह- उउ-वासा समतीता, कालातीया उ सा भवे सेञ्जा । स च्चेव उवट्ठाणा, दुगुणा दुगुणं अवज्जेत्ता ॥५९५॥ व्या० ऋतुबद्धे काले वर्षाकाले च यत्र स्थितास्तस्यामृतुबद्धे काले मासे पूर्ण वर्षाकाले चतुर्मासे पूर्णे यत् तिष्ठति सा कालातिक्रान्ता वसतिः । सच्चेव इत्यादि । या कालमर्यादाऽनन्तरमुक्ता 'ऋतुबद्धे मासो वर्षासु चत्वारो मासाः' इति तामेव द्विगुणां द्विगुणामवर्जयित्वा यत्र भूयः समागत्य तिष्ठन्ति सा उपस्थाना । किमुक्तं भवति ?- ऋतुबद्धे काले द्वौ मासौ वर्षास्वष्टमासान् अपरिहृत्य यदि पुनरागच्छति तस्यां वसतौ ततः सा उपस्थाना भवति, उपसामीप्येन स्थानम् अवस्थानं यस्यां सा उपस्थानेति व्युत्पत्तेः । अन्ये पुनरिदमाचक्षते- यस्यां वसतौ वर्षावासं स्थितास्तस्यां द्वौ वर्षारात्रावन्यत्र कृत्वा यदि समागच्छन्ति ततः सा उपस्थाना न भवति अर्वाक् तिष्ठतां पुनरुपस्थापना ॥५९५।। ___ इमे उत्तरोत्तरगुणा विसोहिकोडिट्ठिया वसहीए उवघायकरा ।- दूमिय धूमिय वासिय, उजोवित बलिकडा अवत्ता य । सित्ता सम्मट्ठा वि य, विसोहिकोडी कया वसही ॥२०४८॥ दूमियं उल्लोइयं, दुग्गंधाए धूवाइणा धूवियं, दुग्गंधाए चेव पडिवासिणा वासाणं, रयणप्पदीवादिणा उज्जोवितं, कूरातिणा बलिकरणं, छगणमट्टियाए पाणिएण य अवत्ता, उदगेण केवलेण सित्ता, बहुकाराइणा सम्मट्ठा प्रमार्जिता ॥२०४८॥" - निशीथ० चूर्णिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org