________________
प्रथमं परिशिष्टम्- टिप्पनानि [पृ० ५४७] “तं चेवणुमजंते ववहारविहिं पउंजंति जहुत्तं । एसो सुअववहारी पण्णत्तो धीरपुरिसेहिं ॥१०।४४३६।। कुलादिकार्येषु व्यवहारे उपस्थिते यद्भगवता भद्रबाहुस्वामिना कल्पव्यवहारात्मकं सूत्रं नियूढं तदेवानुमज्जन् निपुणतरार्थं परिभावनेन तन्मध्ये प्रविशन् व्यवहारविधि यथोक्तं सूत्रमुच्चार्य तस्यार्थं निर्दिशन् यः प्रयुङ्क्ते स श्रुतव्यवहारी धीरपुरुषैः प्रज्ञप्तः ।
अपरकम्मो तवस्सी गंतुं जे सोहिकारगसमीवं । आगंतुं न चाएई सो सोहिकारो वि देसा उ ॥१०।४४४०।। स आलोचयितुकामस्तपस्वी शोधिकारकसमीपे गन्तुमपराक्रमः । यस्य समीपे शोधिः कर्तव्या सोऽपि देशादालोचयितुः समीपमागन्तुं न शक्नोति ।
अह पट्ठवेइ सीसं देसंतरगमणनट्ठचेट्टागो । इच्छामज्जो काउं सोहिं तुब्भं सगासम्मि ॥१०॥४४४१॥ अथानन्तरमालोचयितुकामो देशान्तरगमननष्टचेष्टाक आलोचनाचार्यस्य समीपे शिष्यम् आर्य! युष्माकं सकाशे शोधिं कर्तुमिच्छामीत्येतत्कथयित्वा प्रेषयति ।
सो ववहारविहण्णू अणुमज्जित्ता सुत्तोवएसेणं । सीसस्स देई आणं तस्स इमं देहि पच्छित्तं ॥१०॥४४८९॥ स आलोचनाचार्यो व्यवहारविधिज्ञः कल्पव्यवहारात्मके च्छेदश्रुते अनुमज्ज्य पौर्वापर्यालोचनेन श्रुततात्पर्यो निषण्णो भूत्वा श्रुतोपदेशेन रागद्वेषतोऽन्यथा तस्य पूर्व प्रेषितस्य स्वशिष्याज्ञां ददाति । यथा गत्वा तस्येदं प्रायश्चित्तं देहि ।
अहवा जेणण्णइया दिट्ठा सोही परस्स कीरंति । तारिसयं चेव पुणो उप्पण्णं कारणं तस्स ॥१०।४५१५॥ अथवेति प्रकारान्तरे येनाऽन्यदा परस्य शोधिः क्रियमाणा दृष्टा स तत् सर्वं स्मरति। यथा एवंभूतेषु द्रव्यादिष्वेवंभूते कारणे जाते एवंभूतं प्रायश्चित्तं दत्तमिति पुनरन्यदास्य पुरुषस्योपलक्षणमेतदन्यस्य वा तादृशमेव पुनः कारणं समुत्पन्नं ततो यदि तस्मिन्नेव तादृश एवेत्यर्थः । । सो तं पि चेव दव्वे खेत्ते काले य कारणे पुरिसे । तारिसयं चिय भुया, कुव्वं आराहगो होइ ॥१०।४५१७॥ अथ स तस्मिन्नेव द्रव्ये क्षेत्रे काले भावे च कारणे पुरुषे च तादृशं करोति, स तदा आराधको भवति । ___ वेयावच्चकरो वा सीसो वा देसहिंडगो वावि । दुम्मेहत्ता न तरइ आराहेउ बहुं जो उ ॥१०॥४५१८॥ यथाचार्याणां वैयावृत्यकरो यो वा संमतः शिष्यो यस्तु वा देशहिण्डको देशदर्शनं कुर्वतः सहाय आसीत् । स समस्तच्छेदश्रुतार्थं दुर्मेधस्त्वान्नावधारयितुं शक्नोति ।
बहुसो बहुस्सुएहिं जा वत्तो न य निवारितो होइ । वत्तणुवत्तपमाणं जीएण कयं भवति एयं ॥१०।४५४२॥ यो व्यवहारो बहुश्रुतैर्बहुशोऽनेकवारं वृत्तः प्रवर्तितो न चान्यैर्बहुभिः श्रुतै- भवति विद्यते निवारितः । एतेन वृत्तानुवृत्तं जीतेन प्रमाणं कृतं भवति । स जीतव्यवहारः प्रमाणीकृत इति भावः ।
जं जस्स च पच्छितं आयरियपरंपराए अविरुद्धं, जोगाय बहु विगप्पा एसो खलु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org