________________
[सू० ३४६-३५२] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
४६५ देशवर्षी १ । यस्तु तयोः सर्वयोः सर्वात्मना वा वर्षति स सर्ववर्षी २ । यस्तु क्षेत्रतो देशे कालतः सर्वत्रात्मनो वा सर्वः २, अथवा कालतो देशे क्षेत्रतः सर्वत्र ३ आत्मनो वा सर्वः ४, अथवा आत्मनो देशेन क्षेत्रतः ५, कालतो वा सर्वत्र ६, अथवा क्षेत्रकालतो देशेन आत्मनः सर्वः ७, अथवा क्षेत्रतो देशे, आत्मनो देशेन कालतः सर्वत्र ८, अथवा कालतो देशे आत्मनो देशेन क्षेत्रतः सर्वत्रे ९ त्येवं नवभिर्विकल्पैर्वर्षति 5 स देशवर्षी सर्ववर्षी चेति ३ । चतुर्थः सुज्ञान इति १३ । राजा तु यो विवक्षितक्षेत्रस्य मेघवद्देश एव योग-क्षेमकारितया प्रभवति स देशाधिपतिर्न सर्वाधिपतिः स च पल्लीपत्यादिः, यस्तु न पल्ल्यादौ देशेऽन्यत्र तु सर्वत्र प्रभवति स सर्वाधिपतिर्न देशाधिपतिः, यस्तूभयत्र स उभयाधिपतिः, अथवा देशाधिपतिर्भूत्वा सर्वाधिपतिर्यो भवति वासुदेवादिवत् स देशाधिपतिश्च सर्वाधिपतिश्चेति, चतुर्थो राज्यभ्रष्ट इति १४ । 10
पुक्खलेत्यादि, एगेणं वासेणं ति एकया वृष्ट्या भावयतीति उदकस्नेहवती करोति, धान्यादिनिष्पादनसमर्थामिति यावत्, भुवमिति गम्यते । जिह्मस्तु बहुभिर्वर्षणैरेकमेव वर्षम् अब्दं यावत् भुवं भावयति नैव वा भावयति रूक्षत्वात्तज्जलस्येति १५। अत्रान्तरे मेघानुसारेण पुरुषाः पुष्कलावतंसमानादय: पुरुषाधिकारत्वात् अभ्यूह्या इति, तत्र सकृदुपदेशेन दानेन वा प्रभूतकालं 15 यावच्छुभस्वभावमीश्वरं वा देहिनं य: करोत्यसावाद्यमेघसमान:, एवं स्तोकतरस्तोकतमकालापेक्षया द्वितीय-तृतीयमेघसमानौ, असकृदुपदेशादिना देहिनमल्पकालं यावदुपकुर्वन्ननुपकुर्वन् वा चतुर्थमेघसमान इति ।
करण्डको वस्त्राभरणादिस्थानं जनप्रतीत:, श्वपाककरण्डक: चाण्डालकरण्डकः, स च प्रायश्चर्मपरिकम्र्मोपकरणवर्धादिचर्मांशस्थानतया अत्यन्तमसारो भवति, 20 वेश्याकरण्डकस्तु जतुपूरितस्वर्णाभरणादिस्थानत्वात् किञ्चित्ततः सारोऽपि वक्ष्यमाणकरण्डकापेक्षया त्वसार एवेति, गृहपतिकरण्डकः श्रीमत्कौटुम्बिककरण्डक:, स च विशिष्टमणि-सुवर्णाभरणादियुक्तत्वात् सारतरः, राजकरण्ड कस्तु अमूल्यरत्नादिभाजनत्वात् सारतम इति १६, एवमाचार्यो य: षट्प्रज्ञक
१. 'सर्वत्र १ आत्मनो वा सर्वः २' इत्येवं विकल्पद्वयम् ॥ २. चंडाल खं० पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org