Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 490
________________ प्रथमं परिशिष्टम्- टिप्पनानि फंदइ, ताहे लोगो आगंतुं सामि वंदित्ता तंपि सप्पं महति अ, अन्नाओ य घयविक्कणियातो तं सप्पं घएण मक्खंति, ततो सो पिवीलियाहिं गहितो, तं वेयणं सम्मं अहियासेइ, अद्धमासे कालगतो सहस्सारे उववन्नो॥ - आव० मलय० ॥ ___“केन पुन: कारणेन देवादिभ्यः साधूनामुपसर्गा भवन्ति ? इत्याह- हास-प्पओस-वीमंसओ विमायाए वा भवो दिव्वो । एवं चिय माणुस्सो कुसीलपडिसेवणचउत्थो ॥३००६॥ तिरिओ भय-प्पओसा-हारावच्चाइरक्खणत्थं वा । घट्ट-त्थंभण-पवडण-लेसणओ चायसंवेओ ॥३००७॥ व्या० हासात् क्रीडातः, अवज्ञातपूर्वभवसंबन्धादिकृतप्रद्वेषाद् वा, वीमंसउ त्ति 'किमयं स्वप्रतिज्ञातश्चलति नवा ?' इति मीमांसातो विमर्षाद् दिव्य उपसर्गो भवेत् । तथा विमायाए त्ति विविधा मात्रा विमात्रा तस्याः सकाशात् किमपि हास्यात्, किमपि प्रद्वेषात्, किं च मीमांसातश्चेत्यर्थः, दिव्य उपसर्गो भवेदिति । एवं मानुषोऽप्युपसर्गश्चतुर्विधो भवेत् । केवलं कुसीलपडिसेवणचउत्थो त्ति स्त्रीपण्डकलक्षणो यः कुशीलस्तत्प्रतिसेवनामाश्रित्य चतुर्थभेदो द्रष्टव्यः, विमात्रापक्षस्यात्र हास्यादिष्वेवान्तर्भावविवक्षणादिति । तिर्यङ् भयात्, प्रद्वेषात्, आहारार्थम्, अपत्यनीडगुहादिस्थानरक्षणार्थमुपसर्गं कुर्यादिति । आत्मसंवेदनीयस्तूपसर्गो नेत्रपतितकूणिकादिघट्टनात्, अङ्गानां वा स्तम्भनात् स्तब्धताभावात्, गर्तादौ वा प्रपतनात्, विगुणितबाह्वाद्यङ्गानां वा लेशनात् परस्परं श्लेषणाद् भवति ॥३००६-३००७॥” - विशेषाव० मलधारि०॥ [पृ० ४८४] “तो समणो जइ सुमणो भावेण य जइ न होइ पावमणो । सयणे य जेण य समो समो य माणावमाणेसु ॥१५६॥ व्या० ततः श्रमणो यदि सुमनाः, द्रव्यमनः प्रतीत्य, भावेन च यदि न भवति पापमनाः, एतत्फलमेव दर्शयति- स्वजने च जने च समः, समश्च माना-ऽपमानयोरिति गाथार्थः ॥१५६।। नत्थि य सि कोइ वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नोऽवि पजओ ॥१५५॥ व्या० नास्ति च सि तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, तुल्यमनस्त्वात्, एतेन भवति सममनाः, समं मनोऽस्येति सममनाः, एषोऽन्योऽपि पर्याय इति गाथार्थः ॥१५५॥" - दशवै० हारि० ॥ पृ० ४८५] “औत्पत्तिक्या लक्षणं प्रतिपादयन्नाह- पुव्वमदिट्ठमस्सुअमवेइअ तक्खणविसुद्धगहिअत्था । अव्वाहयफलजोगिणि बुद्धी उप्पत्तिआ नाम ॥९३९॥ व्या० पूर्वम् इति बुद्ध्युत्पादात् प्राक् स्वयमदृष्टोऽन्यतश्चाश्रुतः अवेदित: मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धः यथावस्थितः गृहीत: अवधारितः अर्थः अभिप्रेतपदार्थो यया सा तथा, इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं वाऽव्याहतमुच्यते, फलं प्रयोजनम्, अव्याहतं च तत्फलं च अव्याहतफलम्, योगोऽस्या अस्तीति योगिनी अव्याहतफलेन योगिनी अव्याहतफलयोगिनी, अन्ये पठन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579