Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 494
________________ प्रथमं परिशिष्टम्- टिप्पनानि सर्वद्रव्य-पर्यायगतं सम्यक्त्वम्, सर्वद्रव्य-पर्यायश्रद्धानरूपत्वात् तस्य । तथा, श्रुते श्रुतसामायिके, चारित्रे चारित्रसामायिके द्रव्याणि सर्वाण्यपि भवन्ति, विषयपर्यायास्तु न सर्वे तद्विषयः, श्रुतस्याभिलाप्यविषयत्वात्, पर्यायाणां चाभिलाप्या-ऽनभिलाप्यरूपत्वादिति; चारित्रस्यापि ‘पढमम्मि सव्वजीवा' इत्यादिना सर्वद्रव्या-ऽसर्वपर्यायविषयतायाः प्रतिपादितत्वादिति । देशविरतिं प्रतीत्य द्वयोरपि सकलद्रव्य-पर्याययोः प्रतिषेधनं कुर्यात्, न सर्वद्रव्यविषयम्, नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावः ॥ इति नियुक्तिगाथार्थः ॥२७५१।।" - विशेषाव० मलधारि० ॥ [पृ०५०७] "तत्र प्रथमत एकेन्द्रियादीनां शरीरावगाहनामाह- जोयणसहस्समहियं, ओहेण एगिदिए तरुगणेसु । मच्छजुअले सहस्सं, उरगेसु य गब्भजाईसु ॥३०७॥ व्या० ओघेन सामान्यरूपेणैकेन्द्रियसामान्यचिन्तायामेकेन्द्रियाणामित्यर्थः, विशेषचिन्तायां तरुगणेषु योजनसहस्रमधिकम् किञ्चित्समधिकम्, तच्च समुद्रादिगतं पद्मनालमवसे यम् । अत्राहशरीप्रमाणमुच्छ्रयाङ्गुलतः समुद्रादिपरिमाणं तु प्रमाणामुलतः, समुद्राणां चावगाहो योजनसहस्रमतस्तद्गतपद्मनालादिकमुच्छ्रयाङ्गुलापेक्षयाऽधिकप्रमाणं भवतीति कथं न विरोधः । नैष दोषः, इह समुद्रमध्ये प्रमाणाङ्गुलतो योजनसहस्रावगाहे यानि पद्मानि तानि पृथिवीपरिणामरूपाणि, यथा श्रीदेवतायाः पद्महदे पद्मम्, यानि पुनः शेषेषु गोतीर्थादिषु स्थानेषु पद्मानि तानि वनस्पतिपरिणामरूपाण्यपि भवन्ति, तानि च शेषेषु जलाशयेषु वल्ल्यादयश्चोत्कर्षतः शरीरप्रमाणमानेन किञ्चित्समधिकं योजनसहस्रं भवतीति न कश्चिद्दोषः। तथा चामुमेवार्थं जिनभद्रगणिक्षमाश्रमणो विशेषणवत्यामाहजोअणसहस्समहिअं, वणस्सईदेहमाणमुद्दिढं । तं च किल समुद्दगयं, जलरुहनालं हवइ नन्नं ॥१॥ उस्सेहंगुलओ तं, होइ पमाणंगुलेण य समुद्दो । अवरोप्परओ दुन्निवि, कहमविरोहीणि हुजाहु ॥२॥ पुढवीपरिणामाई ताई किर सिरिनिवासपउमं च । गोतित्थेसु वणस्सइपरिणामाई तु हुजाहि ॥३॥ जत्थुस्सेहंगुलओ, सहस्समवसेसएसु य जलेसु । वल्लीलयादओ वि य, सहस्समायामओ डंति ॥४॥ [विशेषणवती] तथा मत्स्ययुगले गर्भव्युत्क्रान्तिकसंमूर्छिमलक्षण उरगेषु च सर्पजातीयेषु गर्भजातिषु गर्भजन्मसु देहप्रमाणं प्रत्येकं योजनसहस्रं परिपूर्णमुक्तम् ॥३०७॥” - बृहत्संग्रहणी० मलय० । पृ०५११] “सत्यमधिकृत्याह- अविसंवादनयोगः कायमनोवागजिह्यता चैव । सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥१७४॥ टीका- विसंवादनमन्यथास्थितस्यान्यथाभाषणं गामश्वम् अश्वं वा गामिति भाषते, पिशुना वाऽन्यता चान्यथा च व्युद्ग्राह्य प्रीतिच्छेदनं करोति विसंवादयति । विसंवादनेन योगः संबन्धः न विसंवादनयोगः अविसंवादनयोगः । सत्यं यथादृश्यमानवस्तुभाषणम् । कायेनाजिह्मता जिह्मः कुटिलो मलीमसः, कायेनान्यवेषधारितया प्रतारयति न जिह्मोऽजिह्मः द्वितीयः सत्यभेदः । मनसा वाऽजिह्मता सत्यम्, मनसा प्रागालोच्य भाषते करोति वा, प्रायो न तादृगालोचयति जिह्मेन येन परः प्रतार्यते, एष तृतीयो भेदः । वागजिह्मता च सत्यम्, जिह्मा वाक् सद्भूतनिह्नवः असद्भूतोद्भावनं कटुकपरुषसावद्यादि चेति चतुर्थो भेदः । एतच्च जैनेन्द्र एव मते, नान्यत्र सत्यमिति ॥१७४॥ - प्रशमरति० टीका । A-31 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579