Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 507
________________ प्रथमं परिशिष्टम् - टिप्पनानि मध्यमो वर्षाकालावग्रहः, श्रावणपूर्णिमायां नवतिर्दिवसाः, (श्रावणशुद्धपञ्चम्यां दिवसशतम्, ) श्रावणबहुलदशम्यां दशोत्तरं दिवसशतं मध्यम एव वर्षाकालावग्रहो भवति । शेषान्तरेषु दिवसपरिमाणं गाथायामनुक्तमपि इत्थं वक्तव्यम् - भाद्रपदामावास्यां पर्युषणे क्रियमाणे पञ्चसप्ततिर्दिवसाः, भाद्रपदबहुलपञ्चम्यां पञ्चाशीतिः, श्रावणशुद्धदशम्यां पञ्चनवतिः, श्रावणामावास्यां पञ्चोत्तरं शतम् श्रावणबहुलपञ्चम्यां पञ्चदशोत्तरं शतम्, आषाढपूर्णिमायां तु पर्युषिते विंशत्युंत्तरं दिवसशतं भवति । एवमेतेषां प्रकाराणामन्यतरेण वर्षावासमेकक्षेत्रे स्थित्वा कार्त्तिकचातुर्मासिकप्रतिपदि निर्गन्तव्यम् । अथ मार्गशीर्षे गाढं वर्षं वर्षति कर्दमजलाकुलाश्च पन्थानः ततोऽपवादेनैकं दशरात्रमवतिष्ठन्ते, अथ तथापि वर्षं नोपरमते ततो द्वितीयं दशरात्रं तत्रासते, अथैवमपि वर्षं न तिष्ठति ततस्तृतीयमपि दशरात्रमासते, एवं त्रीणि दशरात्राण्युत्कर्षतस्तत्र क्षेत्रे आसितव्यम्, मार्गशिरः पौर्णमासीं यावदित्यर्थः । तत यद्यपि कर्दमाकुलाः पन्थानः, वर्षं चागाढमनुपरतं वर्षति, यद्यपि च पानीये प्लवमानैस्तदानीं गम्यते तथाप्यवश्यं निर्गन्तव्यम् । एवं पाञ्चमासिको ज्येष्ठकल्पावग्रहः सम्पन्नः ॥४२८५ ॥ काऊण मासकप्पं, तत्थेव ठिताणऽतीते मग्गसिरे । सालंबणाय छम्मासिओ उ जेट्ठोग्गहो होति ॥४२८६ ॥ यस्मिन् क्षेत्रे आषाढमासकल्पः कृतस्तद् वर्षावासयोग्यम् अन्यञ्च तथाविधं क्षेत्र नास्ति ततो मासकल्पं कृत्वा तत्रैव वर्षावासं स्थितानां ततश्चतुर्मासानन्तरं कर्दम-वर्षादिभिः कारणैरतीते मार्गशीर्षमासे निर्गच्छतां सालम्बनानाम् एवं विधालम्बनसहितानां षाण्मासिको ज्येष्ठावग्रहो भवति, एकक्षेत्रेऽवस्थानमित्यर्थः ॥४२८६॥” बृहत्कल्पटीका० । “इयाणिं पंचगपरिहाणिमधिकृत्य कालावग्रहोच्यते - इय सत्तरी जहण्णा, असति नउती दसुत्तरयं च । जति वासति मग्गसिरे, दसरायं तिन्नि उक्कोसा ।। ३१५४ ।। पण्णासा पाडिज्जति, चउण्ह मासाण मज्झओ । ततो उ सत्तरी होइ, जहण्णो वासुवग्गहो || ३१५५ ।। इय उपप्रदर्शने, जे आसाढचाउम्मासियातो सवीसतिमासे गते पज्जोसवेंति तेसिं सत्तरि दिवसा जहण्णो वासका लोग्गहो भवति । ९२ - कहं सत्तरी ? उच्यते- चउन्हं मासाणं वीसुत्तरं दिवससयं भवति- सवीसतिमासो पण्णासं दिवसा, ते वीसुत्तरसयमज्झाओ सोहिया, सेसा सत्तरी । जे भद्दवयबहुलदसमीए पज्जोसवेंति तेसि असीतिदिवसा मज्झिमो वासकालोग्गहो भवति । जे सावणपुण्णिमाए पज्जोसविंति तेसिं णउतिं चेव दिवसा मज्झिमो चेव वासकालोग्गहो भवति । जे सावणबहुलदसमीए पज्जोसवेंति सिं दसुत्तरं दिवससयं मज्झिमो चेव वासकालोग्गहो भवति । जे आसाढपुण्णिमाए पज्जोसविंति तेसिं वीसुत्तरं दिवससयं जेट्ठो वासुग्गहो भवति । सेसंतरेसु दिवसपमाणं वत्तव्वं । एवमादिपगारेहिं वरिसारत्तं एगखेत्ते अच्छित्ता कत्तियचाउम्मासियपडिवयाए अवस्सं णिग्गंतव्वं । अह मग्गसिरमासे वासति चिक्खल्लजलाउला पंथा तो अववातेण एक्कं उक्कोसेणं तिण्णि वा दस राया जाव तम्मि खेत्ते अच्छंति, मार्गसिरपौर्णमासी यावदित्यर्थः । मग्गसिरपुण्णिमाए जं परतो जति वि सचिक्खल्ला पंथा वासं वा गाढं अणुवरयं वासति जति विप्लवंतेहिं तहावि अवस्सं णिग्गंतव्वं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579