Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 514
________________ प्रथमं परिशिष्टम्- टिप्पनानि जीयकप्पो ॥१२॥ यत् प्रायश्चित्तं यस्याचार्यस्य गच्छे आचार्यपरंपरागतत्वेनाविरुद्धम्, न पूर्वपुरुषमर्यादातिक्रमेण विरोधभाक्, यथान्येषामाचार्याणां नमस्कारपौरुष्यादिप्रत्याख्यानस्याकरणे कृतस्य वा भङ्गे प्रायश्चित्तमाचाम्लम्, तथा आवश्यकगतैककायोत्सर्गाकरणे पूर्वार्द्धकायोत्सर्गद्वयाकरणे एकाशनकमित्यादि, तथा ये योगा उपधानानि बहुविकल्पा गच्छभेदेन बहुभेदा आचार्यपरंपरागतत्वेन चाविरुद्धा यथा नागिलकुलवंशवर्तिनां साधूनामाचारादारभ्य यादवनुत्तरोपपातिकदशा: तावन्नास्ति आचाम्लम्, केवलं निर्विकृतिकेन ते पठन्ति आचार्यानुज्ञाताश्च विधिना कायोत्सर्गं कृत्वा विकृती: परिभुञ्जते, तथा कल्पव्यवहारयोः चन्द्रप्रज्ञप्ति-सूर्यप्रज्ञप्त्योश्च केचिदागाढं योगं प्रतिपन्ना अपरे त्वनागाढमिति, एस खलु जीयकप्पो उ इति एष सर्वोऽपि खलु गच्छभेदेन प्रायश्चित्तभेदो योगभेदश्चाचार्यपरंपरागतो जीतकल्पो जीतव्यवहारो वेदितव्यः उक्तो व्यवहारः ॥१२॥" - व्यवहार० मलय० पीठिका० ॥ ___ “अथाचीर्णस्यैव लक्षणमाह- असढेण समाइण्णं, जं कत्थइ कारणे असावजं। ण णिवारियमण्णेहिँ य, बहुमणुमयमेतमाइण्णं ॥४४९९॥ व्या० अशठेन राग-द्वेषरहितेन कालिकाचार्यादिवत् प्रमाणस्थेन सता समाचीर्णम् आचरितं यद् भाद्रपदशुद्धचतुर्थीपर्युषणापर्ववत् कुत्रचिद् द्रव्य-क्षेत्र-कालादौ कारणे पुष्टालम्बने असावद्यं प्रकृत्या मूलोत्तरगुणाराधनाया अबाधकम्, न च नैव निवारितम् अन्यैः तथाविधैरेव तत्कालवर्तिभिर्गीतार्थैः, अपि तु बहु यथा भवति एवमनुमतमेतदाचीर्णमुच्यते ॥४४९९।।" - बृहत्कल्पटीका० ॥ [पृ० ५५०] “साम्प्रतमेतासामेव कालातिक्रान्तादीनां व्याख्यानभिधित्सुराह- उउ-वासा समतीता, कालातीया उ सा भवे सेञ्जा । स च्चेव उवट्ठाणा, दुगुणा दुगुणं अवज्जेत्ता ॥५९५॥ व्या० ऋतुबद्धे काले वर्षाकाले च यत्र स्थितास्तस्यामृतुबद्धे काले मासे पूर्ण वर्षाकाले चतुर्मासे पूर्णे यत् तिष्ठति सा कालातिक्रान्ता वसतिः । सच्चेव इत्यादि । या कालमर्यादाऽनन्तरमुक्ता 'ऋतुबद्धे मासो वर्षासु चत्वारो मासाः' इति तामेव द्विगुणां द्विगुणामवर्जयित्वा यत्र भूयः समागत्य तिष्ठन्ति सा उपस्थाना । किमुक्तं भवति ?- ऋतुबद्धे काले द्वौ मासौ वर्षास्वष्टमासान् अपरिहृत्य यदि पुनरागच्छति तस्यां वसतौ ततः सा उपस्थाना भवति, उपसामीप्येन स्थानम् अवस्थानं यस्यां सा उपस्थानेति व्युत्पत्तेः । अन्ये पुनरिदमाचक्षते- यस्यां वसतौ वर्षावासं स्थितास्तस्यां द्वौ वर्षारात्रावन्यत्र कृत्वा यदि समागच्छन्ति ततः सा उपस्थाना न भवति अर्वाक् तिष्ठतां पुनरुपस्थापना ॥५९५।। ___ इमे उत्तरोत्तरगुणा विसोहिकोडिट्ठिया वसहीए उवघायकरा ।- दूमिय धूमिय वासिय, उजोवित बलिकडा अवत्ता य । सित्ता सम्मट्ठा वि य, विसोहिकोडी कया वसही ॥२०४८॥ दूमियं उल्लोइयं, दुग्गंधाए धूवाइणा धूवियं, दुग्गंधाए चेव पडिवासिणा वासाणं, रयणप्पदीवादिणा उज्जोवितं, कूरातिणा बलिकरणं, छगणमट्टियाए पाणिएण य अवत्ता, उदगेण केवलेण सित्ता, बहुकाराइणा सम्मट्ठा प्रमार्जिता ॥२०४८॥" - निशीथ० चूर्णिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579