Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 513
________________ प्रथमं परिशिष्टम्- टिप्पनानि [पृ० ५४७] “तं चेवणुमजंते ववहारविहिं पउंजंति जहुत्तं । एसो सुअववहारी पण्णत्तो धीरपुरिसेहिं ॥१०।४४३६।। कुलादिकार्येषु व्यवहारे उपस्थिते यद्भगवता भद्रबाहुस्वामिना कल्पव्यवहारात्मकं सूत्रं नियूढं तदेवानुमज्जन् निपुणतरार्थं परिभावनेन तन्मध्ये प्रविशन् व्यवहारविधि यथोक्तं सूत्रमुच्चार्य तस्यार्थं निर्दिशन् यः प्रयुङ्क्ते स श्रुतव्यवहारी धीरपुरुषैः प्रज्ञप्तः । अपरकम्मो तवस्सी गंतुं जे सोहिकारगसमीवं । आगंतुं न चाएई सो सोहिकारो वि देसा उ ॥१०।४४४०।। स आलोचयितुकामस्तपस्वी शोधिकारकसमीपे गन्तुमपराक्रमः । यस्य समीपे शोधिः कर्तव्या सोऽपि देशादालोचयितुः समीपमागन्तुं न शक्नोति । अह पट्ठवेइ सीसं देसंतरगमणनट्ठचेट्टागो । इच्छामज्जो काउं सोहिं तुब्भं सगासम्मि ॥१०॥४४४१॥ अथानन्तरमालोचयितुकामो देशान्तरगमननष्टचेष्टाक आलोचनाचार्यस्य समीपे शिष्यम् आर्य! युष्माकं सकाशे शोधिं कर्तुमिच्छामीत्येतत्कथयित्वा प्रेषयति । सो ववहारविहण्णू अणुमज्जित्ता सुत्तोवएसेणं । सीसस्स देई आणं तस्स इमं देहि पच्छित्तं ॥१०॥४४८९॥ स आलोचनाचार्यो व्यवहारविधिज्ञः कल्पव्यवहारात्मके च्छेदश्रुते अनुमज्ज्य पौर्वापर्यालोचनेन श्रुततात्पर्यो निषण्णो भूत्वा श्रुतोपदेशेन रागद्वेषतोऽन्यथा तस्य पूर्व प्रेषितस्य स्वशिष्याज्ञां ददाति । यथा गत्वा तस्येदं प्रायश्चित्तं देहि । अहवा जेणण्णइया दिट्ठा सोही परस्स कीरंति । तारिसयं चेव पुणो उप्पण्णं कारणं तस्स ॥१०।४५१५॥ अथवेति प्रकारान्तरे येनाऽन्यदा परस्य शोधिः क्रियमाणा दृष्टा स तत् सर्वं स्मरति। यथा एवंभूतेषु द्रव्यादिष्वेवंभूते कारणे जाते एवंभूतं प्रायश्चित्तं दत्तमिति पुनरन्यदास्य पुरुषस्योपलक्षणमेतदन्यस्य वा तादृशमेव पुनः कारणं समुत्पन्नं ततो यदि तस्मिन्नेव तादृश एवेत्यर्थः । । सो तं पि चेव दव्वे खेत्ते काले य कारणे पुरिसे । तारिसयं चिय भुया, कुव्वं आराहगो होइ ॥१०।४५१७॥ अथ स तस्मिन्नेव द्रव्ये क्षेत्रे काले भावे च कारणे पुरुषे च तादृशं करोति, स तदा आराधको भवति । ___ वेयावच्चकरो वा सीसो वा देसहिंडगो वावि । दुम्मेहत्ता न तरइ आराहेउ बहुं जो उ ॥१०॥४५१८॥ यथाचार्याणां वैयावृत्यकरो यो वा संमतः शिष्यो यस्तु वा देशहिण्डको देशदर्शनं कुर्वतः सहाय आसीत् । स समस्तच्छेदश्रुतार्थं दुर्मेधस्त्वान्नावधारयितुं शक्नोति । बहुसो बहुस्सुएहिं जा वत्तो न य निवारितो होइ । वत्तणुवत्तपमाणं जीएण कयं भवति एयं ॥१०।४५४२॥ यो व्यवहारो बहुश्रुतैर्बहुशोऽनेकवारं वृत्तः प्रवर्तितो न चान्यैर्बहुभिः श्रुतै- भवति विद्यते निवारितः । एतेन वृत्तानुवृत्तं जीतेन प्रमाणं कृतं भवति । स जीतव्यवहारः प्रमाणीकृत इति भावः । जं जस्स च पच्छितं आयरियपरंपराए अविरुद्धं, जोगाय बहु विगप्पा एसो खलु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579