________________
प्रथमं परिशिष्टम् - टिप्पनानि
मध्यमो वर्षाकालावग्रहः, श्रावणपूर्णिमायां नवतिर्दिवसाः, (श्रावणशुद्धपञ्चम्यां दिवसशतम्, ) श्रावणबहुलदशम्यां दशोत्तरं दिवसशतं मध्यम एव वर्षाकालावग्रहो भवति । शेषान्तरेषु दिवसपरिमाणं गाथायामनुक्तमपि इत्थं वक्तव्यम् - भाद्रपदामावास्यां पर्युषणे क्रियमाणे पञ्चसप्ततिर्दिवसाः, भाद्रपदबहुलपञ्चम्यां पञ्चाशीतिः, श्रावणशुद्धदशम्यां पञ्चनवतिः, श्रावणामावास्यां पञ्चोत्तरं शतम् श्रावणबहुलपञ्चम्यां पञ्चदशोत्तरं शतम्, आषाढपूर्णिमायां तु पर्युषिते विंशत्युंत्तरं दिवसशतं भवति । एवमेतेषां प्रकाराणामन्यतरेण वर्षावासमेकक्षेत्रे स्थित्वा कार्त्तिकचातुर्मासिकप्रतिपदि निर्गन्तव्यम् । अथ मार्गशीर्षे गाढं वर्षं वर्षति कर्दमजलाकुलाश्च पन्थानः ततोऽपवादेनैकं दशरात्रमवतिष्ठन्ते, अथ तथापि वर्षं नोपरमते ततो द्वितीयं दशरात्रं तत्रासते, अथैवमपि वर्षं न तिष्ठति ततस्तृतीयमपि दशरात्रमासते, एवं त्रीणि दशरात्राण्युत्कर्षतस्तत्र क्षेत्रे आसितव्यम्, मार्गशिरः पौर्णमासीं यावदित्यर्थः । तत यद्यपि कर्दमाकुलाः पन्थानः, वर्षं चागाढमनुपरतं वर्षति, यद्यपि च पानीये प्लवमानैस्तदानीं गम्यते तथाप्यवश्यं निर्गन्तव्यम् । एवं पाञ्चमासिको ज्येष्ठकल्पावग्रहः सम्पन्नः ॥४२८५ ॥
काऊण मासकप्पं, तत्थेव ठिताणऽतीते मग्गसिरे । सालंबणाय छम्मासिओ उ जेट्ठोग्गहो होति ॥४२८६ ॥ यस्मिन् क्षेत्रे आषाढमासकल्पः कृतस्तद् वर्षावासयोग्यम् अन्यञ्च तथाविधं क्षेत्र नास्ति ततो मासकल्पं कृत्वा तत्रैव वर्षावासं स्थितानां ततश्चतुर्मासानन्तरं कर्दम-वर्षादिभिः कारणैरतीते मार्गशीर्षमासे निर्गच्छतां सालम्बनानाम् एवं विधालम्बनसहितानां षाण्मासिको ज्येष्ठावग्रहो भवति, एकक्षेत्रेऽवस्थानमित्यर्थः ॥४२८६॥” बृहत्कल्पटीका० ।
“इयाणिं पंचगपरिहाणिमधिकृत्य कालावग्रहोच्यते - इय सत्तरी जहण्णा, असति नउती दसुत्तरयं च । जति वासति मग्गसिरे, दसरायं तिन्नि उक्कोसा ।। ३१५४ ।। पण्णासा पाडिज्जति, चउण्ह मासाण मज्झओ । ततो उ सत्तरी होइ, जहण्णो वासुवग्गहो || ३१५५ ।। इय उपप्रदर्शने, जे आसाढचाउम्मासियातो सवीसतिमासे गते पज्जोसवेंति तेसिं सत्तरि दिवसा जहण्णो वासका लोग्गहो भवति ।
९२
-
कहं सत्तरी ? उच्यते- चउन्हं मासाणं वीसुत्तरं दिवससयं भवति- सवीसतिमासो पण्णासं दिवसा, ते वीसुत्तरसयमज्झाओ सोहिया, सेसा सत्तरी । जे भद्दवयबहुलदसमीए पज्जोसवेंति तेसि असीतिदिवसा मज्झिमो वासकालोग्गहो भवति । जे सावणपुण्णिमाए पज्जोसविंति तेसिं णउतिं चेव दिवसा मज्झिमो चेव वासकालोग्गहो भवति । जे सावणबहुलदसमीए पज्जोसवेंति सिं दसुत्तरं दिवससयं मज्झिमो चेव वासकालोग्गहो भवति । जे आसाढपुण्णिमाए पज्जोसविंति तेसिं वीसुत्तरं दिवससयं जेट्ठो वासुग्गहो भवति । सेसंतरेसु दिवसपमाणं वत्तव्वं । एवमादिपगारेहिं वरिसारत्तं एगखेत्ते अच्छित्ता कत्तियचाउम्मासियपडिवयाए अवस्सं णिग्गंतव्वं ।
अह मग्गसिरमासे वासति चिक्खल्लजलाउला पंथा तो अववातेण एक्कं उक्कोसेणं तिण्णि वा दस राया जाव तम्मि खेत्ते अच्छंति, मार्गसिरपौर्णमासी यावदित्यर्थः । मग्गसिरपुण्णिमाए जं परतो जति वि सचिक्खल्ला पंथा वासं वा गाढं अणुवरयं वासति जति विप्लवंतेहिं तहावि अवस्सं णिग्गंतव्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org