Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 501
________________ ८६ प्रथमं परिशिष्टम्- टिप्पनानि गच्छस्स वा सन्नायकुलेहिंतो वा असण्णाएहिं वा लद्धिसंपण्णो आणित्ता दिज्जा वा दवाविज्जा वा परिचिएसु वा संवुड्ढीएव[खडीए] वा दवाविज्जा, उवदिसिज्ज वावि संविग्गअण्णसंभोइयाणं जहा एयाणि दाणकुलाणि सड्ढगकुलाणि वा, अतरंतो संभोइयाणवि देसिज्ज, न दोसो, अह पाणगस्स सण्णाभूमिं वा गएणं संखडी सुया दिट्ठा वा होज्जा ताहे साहूणममुगत्थ संखडि त्ति एवमुवइसिज्जा, जहासमाही णाम दाणे उवएसे वा जहा सामत्थं, जइ तरति आणेउं तो देइ अह ण तरइ तो दवावेज वा उवदिसिज्ज वा, जहा जहा साहूणं अप्पणो वा समाही तहा तहा पयत्तियव्वं ति कृतं विस्तरेण ॥ - पञ्चव० टीका ॥ [पं० ५] अन्यत्र त्वयमेवमुक्तः । “खंती य मद्दवज्जव मुत्ती तव संजमे य बोधव्वे। सच्चं सोयं आकिंचणं च बंभं च जतिधम्मो ॥११/१९॥ व्या० शान्तिः क्रोधनिग्रहः । यतिधर्मो भवतीति योगः । चशब्द उत्तरपदापेक्षया समुच्चयार्थः । मार्दवं मृदुता, मानविवेक इत्यर्थः । आर्जवमृजुता, मायाविवेक इत्यर्थः । मुक्तिर्लोभविवेकः । तपोऽनशनादिकम् । संयमः पृथिव्यादिसंरक्षणलक्षणः । एतानि च मार्दवादिपदानि लुप्तप्रथमैकवचनानि, समाहारद्वन्द्वसमासवन्ति वा द्रष्टव्यानि । बोद्धव्यो ज्ञेयः । तथा सत्यं प्रतीतम् । शौचं भावतो निरुपलेपता, अचौर्यमित्यन्ये। आकिञ्चन्यं च कनकादिरहितता । ब्रह्म च ब्रह्मचर्यम् । चशब्दाः समुच्चयार्थाः । यतिधर्मः साधुधर्मो बोद्धव्यः इति गाथार्थः ॥११/१९॥" - पञ्चाशक० अभय० टीका । उत्तमः क्षमा-मार्दवा-ऽऽर्जव-शौच-सत्य-संयम-तपस्त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि धर्मः ॥ [तत्त्वार्थ०९।६] विस्तरेण जिज्ञासुभिः अस्य तत्त्वार्थसूत्रस्य श्वेताम्बर-दिगम्बराचार्यविरचिता टीका विलोकनीयाः ॥ "भावाभिग्रहमाह- उक्खित्तमाइचरगा भावजुआ खलु अभिग्गहो हुँति । गाअंतो अ रुअंतो जं देइ निसण्णमाई वा ॥३०३॥ उत्क्षिप्तादिचरा इति उत्क्षिप्ते भाजनात्पिण्डे चरति गच्छति यः स उत्क्षिप्तचर एवं निक्षिप्ते भाजनादाविति भावनीयम्, त एते भावयुक्ताः खल्वभिग्रहा इत्यर्थः। गायन रुदन् वा यद्ददाति निषण्णादिति तद्ग्राहिण इति गाथार्थः ॥३०३॥ अभिग्रहानाह- लेवडमलेवडं वा अमुगं दव्वं व अज घिच्छामि । अमुगेण व दव्वेणं अह दव्वाभिग्गहो चेव ॥२९८॥ लेपवत् जगार्यादि तन्मिश्रं वा अलेपवद्वा तद्विपरीतम् अमुकं द्रव्यं वा मण्डकादि अद्य ग्रहीष्यामि, अमुकेन वा द्रव्येण दीकुन्तादिना अथ अयं द्रव्याभिग्रहो नाम साध्वाचरणविशेष इति गाथार्थः ॥२९८॥ - पञ्चवस्तुकटीका । [पृ०५१४] “अत्र भाष्यकारो विषमपदानि व्याख्यानयति- उद्धट्ठाणं ठाणाइयं तु पडिमाउ होंति मासाई । पंचेव णिसिज्जाओ, तासि विभासा उ कायव्वा ॥५९५३॥ स्थानायतं नाम ऊर्ध्वस्थानरूपमायतं स्थानं तद् यस्यामस्ति सा स्थानायतिका । केचित्तु ठाणाइयाए इति पठन्ति, तत्रायमर्थः- सर्वेषां निषदनादीनां स्थानानाम् आदिभूतमूर्द्धस्थानम्, अतः स्थानानामादौ गच्छतीति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579