________________
८६
प्रथमं परिशिष्टम्- टिप्पनानि गच्छस्स वा सन्नायकुलेहिंतो वा असण्णाएहिं वा लद्धिसंपण्णो आणित्ता दिज्जा वा दवाविज्जा वा परिचिएसु वा संवुड्ढीएव[खडीए] वा दवाविज्जा, उवदिसिज्ज वावि संविग्गअण्णसंभोइयाणं जहा एयाणि दाणकुलाणि सड्ढगकुलाणि वा, अतरंतो संभोइयाणवि देसिज्ज, न दोसो, अह पाणगस्स सण्णाभूमिं वा गएणं संखडी सुया दिट्ठा वा होज्जा ताहे साहूणममुगत्थ संखडि त्ति एवमुवइसिज्जा, जहासमाही णाम दाणे उवएसे वा जहा सामत्थं, जइ तरति आणेउं तो देइ अह ण तरइ तो दवावेज वा उवदिसिज्ज वा, जहा जहा साहूणं अप्पणो वा समाही तहा तहा पयत्तियव्वं ति कृतं विस्तरेण ॥ - पञ्चव० टीका ॥
[पं० ५] अन्यत्र त्वयमेवमुक्तः । “खंती य मद्दवज्जव मुत्ती तव संजमे य बोधव्वे। सच्चं सोयं आकिंचणं च बंभं च जतिधम्मो ॥११/१९॥ व्या० शान्तिः क्रोधनिग्रहः । यतिधर्मो भवतीति योगः । चशब्द उत्तरपदापेक्षया समुच्चयार्थः । मार्दवं मृदुता, मानविवेक इत्यर्थः । आर्जवमृजुता, मायाविवेक इत्यर्थः । मुक्तिर्लोभविवेकः । तपोऽनशनादिकम् । संयमः पृथिव्यादिसंरक्षणलक्षणः । एतानि च मार्दवादिपदानि लुप्तप्रथमैकवचनानि, समाहारद्वन्द्वसमासवन्ति वा द्रष्टव्यानि । बोद्धव्यो ज्ञेयः । तथा सत्यं प्रतीतम् । शौचं भावतो निरुपलेपता, अचौर्यमित्यन्ये। आकिञ्चन्यं च कनकादिरहितता । ब्रह्म च ब्रह्मचर्यम् । चशब्दाः समुच्चयार्थाः । यतिधर्मः साधुधर्मो बोद्धव्यः इति गाथार्थः ॥११/१९॥" - पञ्चाशक० अभय० टीका ।
उत्तमः क्षमा-मार्दवा-ऽऽर्जव-शौच-सत्य-संयम-तपस्त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि धर्मः ॥ [तत्त्वार्थ०९।६] विस्तरेण जिज्ञासुभिः अस्य तत्त्वार्थसूत्रस्य श्वेताम्बर-दिगम्बराचार्यविरचिता टीका विलोकनीयाः ॥
"भावाभिग्रहमाह- उक्खित्तमाइचरगा भावजुआ खलु अभिग्गहो हुँति । गाअंतो अ रुअंतो जं देइ निसण्णमाई वा ॥३०३॥ उत्क्षिप्तादिचरा इति उत्क्षिप्ते भाजनात्पिण्डे चरति गच्छति यः स उत्क्षिप्तचर एवं निक्षिप्ते भाजनादाविति भावनीयम्, त एते भावयुक्ताः खल्वभिग्रहा इत्यर्थः। गायन रुदन् वा यद्ददाति निषण्णादिति तद्ग्राहिण इति गाथार्थः ॥३०३॥
अभिग्रहानाह- लेवडमलेवडं वा अमुगं दव्वं व अज घिच्छामि । अमुगेण व दव्वेणं अह दव्वाभिग्गहो चेव ॥२९८॥ लेपवत् जगार्यादि तन्मिश्रं वा अलेपवद्वा तद्विपरीतम् अमुकं द्रव्यं वा मण्डकादि अद्य ग्रहीष्यामि, अमुकेन वा द्रव्येण दीकुन्तादिना अथ अयं द्रव्याभिग्रहो नाम साध्वाचरणविशेष इति गाथार्थः ॥२९८॥ - पञ्चवस्तुकटीका ।
[पृ०५१४] “अत्र भाष्यकारो विषमपदानि व्याख्यानयति- उद्धट्ठाणं ठाणाइयं तु पडिमाउ होंति मासाई । पंचेव णिसिज्जाओ, तासि विभासा उ कायव्वा ॥५९५३॥ स्थानायतं नाम ऊर्ध्वस्थानरूपमायतं स्थानं तद् यस्यामस्ति सा स्थानायतिका । केचित्तु ठाणाइयाए इति पठन्ति, तत्रायमर्थः- सर्वेषां निषदनादीनां स्थानानाम् आदिभूतमूर्द्धस्थानम्, अतः स्थानानामादौ गच्छतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org