________________
प्रथमं परिशिष्टम्- टिप्पनानि तत्पुनरार्तादिभेदाच्चतुर्विधम्, तद्यथा- आर्तध्यानं रौद्रध्यानं धर्मध्यानं शुक्लध्यानं चेति, तत्र राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ध्यानं तदातमिति तत्प्रवदन्ति तज्ज्ञाः ॥१॥ संछेदनैर्दहनभञ्जनमारणैश्च, बन्धप्रहारदमनैर्विनिकृन्तनैश्च । यो याति रागमुपयाति च नानुकम्पाम्, ध्यानं तु रौद्रमिति तत्प्रवदन्ति तज्ज्ञाः ॥२॥ सूत्रार्थसाधनमहाव्रतधारणेषु, बन्धप्रमोक्षगमनागमहेतुचिन्ता । पञ्चेन्द्रियव्युपरमश्च दया च भूते, ध्यानं तु धर्ममिति तत्प्रवदन्ति तज्ज्ञाः ॥३॥ यस्येन्द्रियाणि विषयेषु पराङ्मुखानि, सङ्कल्पकल्पनविकल्पविकारदोषैः । योगैः सदा त्रिभिरहो निभृतान्तरात्मा, ध्यानोत्तमं प्रवरशुक्लमिदं वदन्ति ॥४॥ आर्ते तिर्यगितिस्तथा गतिरधो ध्याने तु रौद्रे सदा, धर्मे देवगतिः शुभं बत फलं शुक्ले तु जन्मक्षयः। तस्माद् व्याधिरुगन्तके हितकरे संसारनिर्वाहके, ध्याने शुक्लवरे रजःप्रमथने कुर्यात् प्रयत्नं बुधः ॥५॥ [ ] इति । उक्तं समासतो ध्यानम्, विस्तरतस्तु ध्यानशतकादवसेयमिति । साम्प्रतं व्युत्सर्गः, स च द्विधा-द्रव्यतो भावतश्च, द्रव्यतश्चतुर्धागणशरीरोपध्याहारभेदात्, भावतश्चित्रः, क्रोधादिपरित्यागरूपत्वात्तस्येति, उक्तं च- दव्वे भावे अ तहा दुहा विसग्गो चउव्विहो दव्वे । गणदेहोवहिभत्ते भावे कोहादिचाओ त्ति ॥१॥ काले गणदेहाणं अतिरित्तासुद्धभत्तपाणाणं । कोहाइयाण सययं कायव्वो होइ चाओ त्ति ॥२॥ [ ], उक्तो व्युत्सर्गः, अन्भिंतरओ तवो होइ त्ति, इदं प्रायश्चित्तादि व्युत्सर्गान्तमनुष्ठानं लौकिकैरनभिलक्ष्यत्वात्तन्त्रान्तरीयैश्च भावतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तर
ङ्गत्वाच्चाभ्यन्तरं तपो भवतीति गाथार्थः ॥ शेषपदानां प्रकटार्थत्वात् सूत्रपदस्पर्शिका [नियुक्तिः] नियुक्तिकृता नोक्ता, स्वधिया तु विभागे[न] स्थापनीयेति ॥ अत्राह- धर्मो मङ्गलमुत्कृष्टमित्यादौ धर्मग्रहणे सति अहिंसा संयमतपोग्रहणमयुक्तम्, तस्याहिंसासंयमतपोरूपत्वाव्यभिचारादिति, उच्यते, न, अहिंसादीनां धर्मकारणत्वाद्धर्मस्य च कार्यत्वात्कार्यकारणयोश्च कथञ्चिद्भेदात्, कथंचिद्भेदश्च तस्य द्रव्यपर्यायोभयरूपत्वात्, उक्तं च- णत्थि पुढवीविसिट्ठो घडो त्ति जं तेण जुजइ अणण्णो । जं पुण घडु त्ति पुव्वं नासी पुढवीइ तो अन्नो ॥१॥ [विशेषाव० २१०४] इत्यादि, गम्यादिधर्मव्यवच्छेदेन तत्स्वरूपज्ञापनार्थं वाऽहिंसादिग्रहणमदुष्टमित्यलं विस्तरेण ॥४८॥” - दशवै० हारि०॥
“अमुमेवार्थं स्पष्टयन्नाह- कयपच्चक्खाणोवि अ आयरिअगिलाणबालवुड्डाणं । दिजाऽसणाइ संते लाभे कयवीरिआयारो ॥५३७॥ कृतप्रत्याख्यानोऽपि च गृहीतप्रत्याख्यानोऽपि चेत्यर्थ आचार्यग्लानबालवृद्धेभ्यो दद्यादशनादि सति लाभे कृतवीर्याचार इति गाथार्थः ॥५३७॥" - पञ्चवस्तुकटीका ।
[पृ०५१२] “संविग्गअण्णसंभोइआण दंसिज सड्ढगकुलाणि । अतरंतो वा संभोइआण जह वा समाहीए ॥५३८॥ संविग्नान्यसम्भोगिकानां तु दर्शयेत् श्रावककुलानि, अतरन् वा अशक्नुवन् सम्भोगिकानामपि दर्शयेद् यथासामर्थ्यमिति गाथार्थः ॥५३८|| एत्थ पुण सामायारी-सयं अभुंजंतो साहूणमाणित्ता भत्तपाणं देजा, संतं वीरियं न विगूहियव्वं, अप्पणो संते वीरिए नाणावेयव्वो जहाअज्जो ! अमुकगस्स आणेउं देहि, तम्हा अप्पणओ संते वीरिए आयरियगिलाणबालवुड्ढपाहुणगादीण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org