SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि व्युत्पत्त्या स्थानादिगं तद् उच्यते, तद्योगाद् आर्यिकाऽपि स्थानादिगेति व्यपदिश्यते । प्रतिमाः मासिक्यादिकाः तासु तिष्ठतीति प्रतिमास्थायिनी । नेसज्जियाय त्ति निषद्याः पञ्चैव भवन्ति तासां विभाषा कर्तव्या । सा चेयम्- निषद्या नाम-उपवेशनविशेषाः, ताः पञ्चविधाः, तद्यथा- समपादयुता गोनिषधिका हस्तिशुण्डिका पर्यङ्काऽर्धपर्यङ्का चेति । तत्र यस्यां समौ पादौ पुतौ च स्पृशतः सा समपादयुता, यस्यां तु गौ(गो?)रिवोपवेशनं सा गोनिषद्यिका, यत्र पुताभ्यामुपविश्यैकं पादमुत्पाटयति सा हस्तिशुण्डिका, पर्यङ्का प्रतीता, अर्धपर्यङ्का यस्यामेकं जानुमुत्पाटयति । एवंविधया निषद्यया चरतीति नैषद्यिकी । उत्कटिकासनं तु सुगमत्वाद् भाष्यकृता न व्याख्यातम् ॥५९५३।।। वीरासणं तु सीहासणे व जह मुक्कजण्णुक णिविट्ठो । दंडे लगंड उवमा, आयत खुजाय दुण्हं पि ॥५९५४॥ वीरासनं नाम यथा सिंहासने उपविष्टो भून्यस्तपाद आस्ते तथा तस्यापनयने कृतेऽपि सिंहासन इव निविष्टो मुक्तजानुक इव निरालम्बनेऽपि यद् आस्ते । दुष्करं चैतद्, अत एव वीरस्य साहसिकस्यासनं वीरासनमित्युच्यते, तद् अस्या अस्तीति वीरासनिका। तथा दण्डासनिका लगण्डशायिकापदद्वये यथाक्रमं दण्डस्य लगण्डस्य चायतकुब्जताभ्यामुपमा कर्तव्या। तद्यथादण्डस्येवायतं पादप्रसारणेन दीर्घ यद् आसनं तद् दण्डासनम्, तद् अस्या अस्तीति दण्डासनिका। लगण्डं किल दुःसंस्थितं काष्ठम्, तद्वत् कुब्जतया मस्तकपार्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः, या तथाविधाभिग्रहविशेषेण शेते सा लगण्डशायिनी । अवाङ्मुखादीनि तु पदानि सुगमत्वाद् न व्याख्यातानीति द्रष्टव्यम् । एते सर्वेऽप्यभिग्रहविशेषाः संयतीनां प्रतिषिद्धाः ॥५९५४॥ अथ भाष्यम्- आयावणा य तिविहा, उक्कोसा मज्झिमा जहण्णा य । उक्कोसा उ णिवण्णा, णिसण्ण मज्झा ठिय जहण्णा ॥५९४५॥ आतापना त्रिविधा- उत्कृष्टा मध्यमा जघन्या च । तत्रोत्कृष्टा निपन्ना, निपन्नः शयितो यां करोतीत्यर्थः । मध्यमा निषण्णस्य। जघन्या ठिय त्ति ऊर्ध्वस्थितस्य ।।५९४५॥ पुनरेकैका त्रिविधा- तिविहा होइ निवण्णा, ओमत्थिय पास तइयमुत्ताणा । उक्कोसुक्कोसा उक्कोसमज्झिमा उक्कोसगजहण्णा ॥५९४६॥ या निपन्नस्योत्कृष्टातापना सा त्रिविधा भवतिउत्कृष्टोत्कृष्टा उत्कृष्टमध्यमा उत्कृष्टजघन्या च । तत्र यद् अवाङ्मुखं निपत्य आतापना क्रियते सा उत्कृष्टोत्कृष्टा। या तु पार्श्वतः शयानैः क्रियते सा उत्कृष्टमध्यमा । या पुनरुत्तानशयनेन विधीयते सा तृतीया उत्कृष्टजघन्या ॥५९४६॥" - बृहत्कल्पटीका । [पृ०५१८] "कालक्कमेण पत्तं संवच्छरमाइणा उ जं जम्मि । तं तम्मि चेव धीरो वाएजा सो अ कालोऽयं ॥५८१॥ कालक्रमेण प्राप्तमौचित्येन संवत्सरादिना तु यद् आचारादि यस्मिंस्तत्तस्मिन्नेव संवत्सरादौ धीरो वाचयेद्, न विपर्ययं कुर्यात्, स च कालोऽयं वक्ष्यमाण इति गाथार्थः ॥५८१॥ तिवरिसपरिआगस्स उ आचारपकप्पणाममज्झयणं । चउवरिसस्स उसम्म सअगड़ना अंगं ति ॥५८२॥ दसकप्पव्ववहारा संवच्छरपणगदिक्खिअस्सेव । ठाणं समवाओ त्ति अ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy