________________
प्रथमं परिशिष्टम्- टिप्पनानि
अंगेए अट्ठवासस्स ॥५८३॥ दसवासस्स विआहो एक्कारसवासयस्स य इमे उ। खुड्डियविमाणमाई अज्झयणा पंच नायव्वा ॥५८४॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उट्ठाणसुआइआ चउरो ॥५८५॥ चोद्दसवासस्स तहा आसीविसभावणं जिणा बिंति। पन्नरसवासगस्स य दिट्ठीविसभावणं तहय ॥५८६॥ सोलसवासाईसु अ एगुत्तरवढिएसु जहसंखं । चारणभावण महसुविणभावणा तेअगनिसग्गा ॥५८७।। एगूणवीसगस्स उ दिट्ठीवाओ दुवालसमसंगं । संपुण्णवीसवरिओ अणुवाई सव्वसुत्तस्स ॥५८८॥ त्रिवर्षपर्यायस्यैव नारत आचारप्रकल्पनाम- निशीथाभिधानम् अध्ययनं वाच्यत इति क्रिया योजनीया, चतुर्वर्षस्य तु सम्यग् अस्खलितस्य सूत्रकृतं नाम अङ्गं द्वितीयमिति गाथार्थः ॥५८२॥ दशाकल्पव्यवहारास्त्रयोऽपि पञ्चसंवत्सरदीक्षितस्यैव, स्थानं समवाय इति च अङ्गे एते द्वे अप्यष्टवर्षस्येति गाथार्थः ॥५८३॥ दशवर्षस्य ‘व्याख्ये'ति व्याख्याप्रज्ञप्तिर्भगवती, एकादशवार्षिकस्य चामूनीति हृदयस्थनिर्देश: क्षुल्लिकाविमानादीन्यध्ययनानि कालयोग्यतामङ्गीकृत्य पञ्च ज्ञातव्यानि, तद्यथा- 'खुड्डिया विभाणपविभत्ती [महल्लिया विमाणपविभत्ती] अंगचूलिया वग्गचूलिया वियाहचूलिय'त्ति गाथार्थः ॥५८४॥ द्वादशावार्षिकस्य 'तथा' कालपर्यायेण अरुणोपपातादीनि पञ्चाध्ययनानि, तद्यथा-अरुणोववाए वरुणोववाए गरुलोववाए वेलंधरोववाए वेसमणोववाए', त्रयोदशवार्षिकस्य तथोत्थानश्रुतादीनि चत्वारि, तद्यथा- ‘उट्ठाणसुयं समुट्ठाणसुयं देविंदोववाओ णागपारियावणियाओ'त्ति गाथार्थः ॥५८५।। चतुर्दशवर्षस्य तथा' पर्यायेण आशीविषावनां जिना ब्रुवते, नारतः, पञ्चदशवर्षस्य तु पर्यायेणैव दृष्टिविषभावनां तथैव ब्रुवत इति गाथार्थः ॥५८६॥ षोडशवर्षादिषु च पर्यायेष्वेकोत्तरवर्द्धितेषु यथासङ्ख्यं यथाक्रमं चारणभावनामहास्वपनभावना तेजोनिसर्ग इत्येतानि त्रीणि भवन्तीति गाथार्थः ॥५८७॥ एकोनविंशतिकस्य तु पर्यायेण दृष्टिवादो द्वादशमङ्गमत एव शेषलाभो ज्ञेय इति, सम्पूर्णविंशतिवर्षपर्यायेणानुपाती योग्यः सर्वस्य सूत्रस्य बिन्दुसारादेरिति गाथार्थः ॥५८८॥" - पञ्चव० टीका ।
[पृ०५२३] "तम्मिमं च आजीवणं- जाती-कुल-गण-कम्मे, सिप्पे आजीवणा उ पंचविहा। सूयाए असूयाए व, अप्पाण कहेज(ति) एक्केक्को ॥४४११॥" - निशीथ० चूर्णिः।
अस्या गाथाया विस्तरेण व्याख्यानम् ॥४४१२-४४१६॥ निशीथभाष्यगाथासु तच्चूर्णौ च वर्तते। जिज्ञासुभिः तत्रैव द्रष्टव्यम् ।
[पृ० ५२७ पं० ८] “पञ्च हेत्वयं हीयते गम्यते ज्ञायते अवबुध्यते अनेनेति हेतुः । स च समासः ज्ञापकः कारकश्च । सवितृप्रदीपमण्युल्क-शब्द-धूमादिज्ञापकः कारको बीजपिण्डादि, स एवाधुना परिच्छिद्यमानः कर्म भवति । सम्यग् दृष्टिणा द्विविधोऽपि जिनवचनपुरस्कृत्य हेत्वर्थानुसारिणा द्रव्य-पर्यायतद्विकल्पप्रपञ्चितः । सामान्यपुरुषोः भाषामात्रज्ञानातीतो ज्ञायते हेतुं जाणति तमेव पश्यति तमेवावबुध्यते । यथावस्थितमाभिमुखीभावेन प्राप्नोति गच्छति । तद्धेतुमान् हेतुः । छद्मन् कर्म तत्रस्थित: छद्मस्थः । मर्त्यस्य मरणं छद्मस्थमरणं तद्धितं म्रियते । छद्मस्थः मरणं म्रियते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org