________________
प्रथमं परिशिष्टम्- टिप्पनानि
मतिज्ञानादिचतुष्टयहेतुस्थितं छद्मस्थ इति यावत् । तेन वा हेतुना धूम - पीडादिलक्षणेन अग्निघटादिमवबुद्ध्यते । करणभूतेन पञ्चापि । स एवं पंचहेत्वयं मिथ्यादृष्टिहेतुं द्विविधमपि न जानाति । मत्यज्ञानं श्रुताज्ञान-विभंगम् । यथाऽयथार्थाऽगमकत्वात् । उन्मत्तमनुजवत् । सोह्यहेतु अज्ञानमरणं म्रियते । तथा तेनैव हेयार्थाप्रपिपत्तेः सदसदुन्मत्तनगवत् । एवंविधोऽज्ञानमरणं म्रियते । भिद्यज्ञानावरणीयं केवलेनाधिकृत्य ज्ञानाविभूतिरुच्यते । पञ्च हेत्वयं सो हि धूमादिकमर्थसम्बन्धकालप्रापणत्वाद्यवशेषिकं साक्षाद्वर्तमानविधि-नियमोभयात्मकं पश्यति । तथा हेयमत्यर्थमग्न्यादिकं साक्षात् । तथा परिणतद्रव्यपर्यायात्मकम् । धूमादिलिङ्गादिक्रमेण गृण्हात्यहेतुकम् । य एवंविधः स केवलिमरणं म्रियते । एष एव कैवल्यं हेत्वर्थसम्यग्मिथ्यादृष्टिसामान्यछद्मस्थतामधिकृत्य निषिध्यमानो ज्ञानभागमयति । यथा केवलिना हेतुनिमित्तो हेतुरप्यवबुद्ध्यते न तथा तस्यामहेतुहेतुं जानीते पाटुत्वादि विशेषितमवबुध्यत इति यावत्, तेऽग्न्यादिकं मषिनैव अहेतुकं जानीते, सहेतुकमेवेति यावत् । स चैवंविधज्ञानमरणं म्रियते । सर्वज्ञवादादयस्याकेवलज्ञानमिथ्यादृष्टिर्ज्ञानादयोज्ञेन प्रसाधिता द्रष्टव्या । पञ्चमे सप्तमो || || " भंगवतीचूर्णिः ॥
[पृ०५३२] “अथ भाष्यकारः कानिचिद् विषमपदानि विवृणोति- इमाउ त्ति सुत्तउत्ता, उद्दिट्ठ नदीउ गणिय पंचेव । गंगादि वंजिताओ, बहुओदग महण्णवातो तू ।। ५६९९ ।। इमा इति प्रत्यक्षवाचिना सर्वनाम्ना सूत्रोक्ता उच्यन्ते । उद्दिष्टा नद्य इति । गणिताः पञ्चेति । व्यञ्जिता गङ्गादिभिः पदैर्व्यक्तीकृताः । यास्तु बहूदकास्ता महार्णवा उच्यन्ते ॥ ५६१९ ॥
कृता विषमपदव्याख्या भाष्यकृता । अथ नियुक्तिविस्तरः- पंचन्हं गहणेणं, सेसा विउ सूइया महासलिला । तत्थ पुरा विहरिंसु य, ण य तातो कयाइ सुक्खंति ।। ५६२० ।। पञ्चानां गङ्गादीनां ग्रहणेन शेषा अपि याः महासलिला: बहूदका अविच्छेदवाहिन्यस्ताः सूचिता मन्तव्याः । स्याद् बुद्धिः- किमर्थं गङ्गादीनां ग्रहणम् ? इत्याह- तत्थ इत्यादि, येषु विषयेषु गङ्गादयः पञ्च महानद्यो वहन्ति तेषु पुरा साधवो विहृतवन्तो न च ताः कदाचनापि शुष्यन्ति अतस्तासां ग्रहणम् ॥५६२०॥
ओहार-मगरादीया, घोरा तत्थ उ सावया । सरीरोवहिमादीया, णावातेणा य कत्थई ॥५६३३|| ओहार-मकरादयः तत्र नद्यां घोराः श्वापदा भवन्ति । ओहारः मत्स्यविशेषः, स किल नावमधस्तले जलस्य नयति । शरीरहरा उपधिहरा वा आदिशब्दादुभयहरा वा नौस्तेनाः कुत्रापि भवेयुः, एतैरात्मन उपधेर्वा विनाशे तन्निष्पन्नं प्रायश्चित्तम् ||५६३३||” बृहत्कल्पटीका ।
[पृ०५३३] “अपरस्त्वाह- आलम्बनात्को विशेष उपजायते ? येन विशुद्धचरणा भवन्तीति, अत्र दृष्टान्तमाह- सालंबणो पडतो अप्पाणं दुग्गमेवि धारेइ । इय सालंबणसेवा धारेइ जई १. भगवतीचूर्णिः अत्यन्तमशुद्धा उपलभ्यते, 'लालभाई-दलपतभाई- भारतीय संस्कृति - विद्यामन्दिर- अहमदाबाद' इत्यतः सम्प्रति प्रकाशितायां यादृशः पाठो वर्तते तादृशोऽत्र उपन्यस्त इति ध्येयम् ॥
Jain Education International
८९
For Private & Personal Use Only
www.jainelibrary.org