Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 496
________________ प्रथमं परिशिष्टम्- टिप्पनानि पञ्चाश्रवाः प्राणातिपातमृषाभाषणादत्तादानमैथुनपरिग्रहाः कर्मादानहेतवस्तेभ्यो विरमणं विरतिकरणं संयमः । पञ्चेन्द्रियाणि स्पर्शनादीनि तेषां निग्रहः नियमनं निरोधः । शब्दादिषु गोचरप्राप्तेष्वरक्तद्विष्टतामाध्यस्थ्यम् । कषः संसारः कष्यते यत्र जीवः स्वकृतैः कर्मभिः कदर्थ्यते पीड्यते तस्यायाः प्राप्तिहेतवः क्रोधादयश्चत्वारस्तेषां जयोऽभिभव उदयनिरोधः, उदितानां वा विफलतापादनम्। दण्डा मनोवाक्कायाख्याः । अभिद्रोहाभिमानेादिलक्षणो मनोदण्डः । हिंस्रपरुषानृतादिलक्षणो वाग्दण्डः। धावन-वल्गन-प्लवनादिरूपः कायदण्डः । एभ्यो विरतिनिवृत्तिः । एवमेष संयमः सप्तदशभेदो भवति। आर्षे त्वन्येन क्रमेणायमेवार्थो निबद्धः । पृथिव्यप्तेजो-वायु-वनस्पति-द्वि-त्रि-चतुः-पञ्चेन्द्रियेषु संयमः। तथा पुस्तकाद्यपरिग्रहः अजीवकायसंयमः । प्रेक्षोपेक्षाप्रमार्जनापरिष्ठापनसंयमः मनोवाक्कायसंयम इति ॥१७२॥ - प्रशमरति० टीका ॥ साम्प्रतं तपः प्रतिपाद्यते-तच्च द्विधा-बाह्यमाभ्यन्तरं च । तत्र तावद् बाह्यप्रतिपादनायाहअणसणमूणोअरिआ वित्ती संखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥४७॥ व्या० न अशनमनशनम्-आहारत्याग इत्यर्थः, तत्पुनर्द्विधा-इत्वरं यावत् कथिकं च, तत्रेत्वरं-परिमितकालम्, तत्पुनश्चरमतीर्थकृत्तीर्थे चतुर्थादिषण्मासान्तम्, यावत्कथिकं त्वाजन्मभावि, तत्पुनश्चेष्टाभेदोपाधिविशेषतनिधा, तद्यथा- पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति, तत्रानशनिनः परित्यक्तचतुर्विधाहारस्याधिकृतचेष्टाव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य पादपस्येवोपगमनं सामीप्येन वर्त्तनं पादपोपगमनमिति, तच्च द्विधा- व्याघातवनिर्व्याघातवच्च, तत्र व्याघातवन्नाम यत्सिंहाद्युपद्रवव्याघाते सति क्रियत इति, उक्तं च- सीहादिसु अभिभूओ पादवगमणं करेइ थिरचित्तो । आउम्मि पहुप्पंते विआणिउं नवरि गीअत्थो ॥१॥ [पञ्चव० १६२०] इत्यादि, निर्व्याघातवत्पुनर्यत्सूत्रार्थतदुभयनिष्ठितः शिष्यान्निष्पाद्योत्सर्गतः द्वादश समाः कृतपरिकर्मा सन्काल एव करोति, उक्तं च- चत्तारि विचित्ताई विगईनिजूहियाइं चत्तारि । संवच्छरे अ दोण्णि उ एगंतरिअं च आयामं ॥१॥ णाइविगिट्ठो अ तवो छम्मासे परिमिअं च आयामं । अन्ने वि अ छम्मासे होइ विगिटुं तवोकम्मं ॥२॥ वासं कोडीसहियं आयामं काउ आणुपुव्वीए । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ॥३॥ [आचा० नि० २७१-२७२-२७३] इत्यादि । तथा इङ्गिते प्रदेशे मरणमिङ्गितमरणम्, इदं च संहननापेक्षमनन्तरोदितमशक्नुवतश्चतुर्विधाहारविनिवृत्तिरूपं स्वत एवोद्वर्तनादिक्रियायुक्तस्यावगन्तव्यमिति, उक्तं च- इंगिअदेसंमि सयं चउव्विहाहारचायणिप्फण्णं । उव्वत्तणादिजुत्तं णाणेण उ इंगिणीमरणं ॥१॥ [ ] इत्यादि। भक्तपरिज्ञा पुनस्त्रिविधचतुर्विधाहारविनिवृत्तिरूपा, सा नियमात्सप्रतिकर्मशरीरस्यापि धृतिसंहननवतो यथासमाधि भावतोऽवगन्तव्येति, उक्तं चभत्तपरिण्णाणसणं तिविहाहाराइचायनिप्फण्णं । सपडिक्कम्मं नियमा जहासमाहिं विणिद्दिढें ॥१॥ [ ] इत्यादि उक्तमनशनम्, अधुना ऊनोदरता ऊनोदरस्य भाव ऊनोदरता, सा पुनर्द्विविधा-द्रव्यतो भावतश्च, तत्र द्रव्यत उपकरणभक्तपानविषया, तत्रोपकरणे जिनकल्पिकादीनामन्येषां वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579