________________
प्रथमं परिशिष्टम्- टिप्पनानि पञ्चाश्रवाः प्राणातिपातमृषाभाषणादत्तादानमैथुनपरिग्रहाः कर्मादानहेतवस्तेभ्यो विरमणं विरतिकरणं संयमः । पञ्चेन्द्रियाणि स्पर्शनादीनि तेषां निग्रहः नियमनं निरोधः । शब्दादिषु गोचरप्राप्तेष्वरक्तद्विष्टतामाध्यस्थ्यम् । कषः संसारः कष्यते यत्र जीवः स्वकृतैः कर्मभिः कदर्थ्यते पीड्यते तस्यायाः प्राप्तिहेतवः क्रोधादयश्चत्वारस्तेषां जयोऽभिभव उदयनिरोधः, उदितानां वा विफलतापादनम्। दण्डा मनोवाक्कायाख्याः । अभिद्रोहाभिमानेादिलक्षणो मनोदण्डः । हिंस्रपरुषानृतादिलक्षणो वाग्दण्डः। धावन-वल्गन-प्लवनादिरूपः कायदण्डः । एभ्यो विरतिनिवृत्तिः । एवमेष संयमः सप्तदशभेदो भवति। आर्षे त्वन्येन क्रमेणायमेवार्थो निबद्धः । पृथिव्यप्तेजो-वायु-वनस्पति-द्वि-त्रि-चतुः-पञ्चेन्द्रियेषु संयमः। तथा पुस्तकाद्यपरिग्रहः अजीवकायसंयमः । प्रेक्षोपेक्षाप्रमार्जनापरिष्ठापनसंयमः मनोवाक्कायसंयम इति ॥१७२॥ - प्रशमरति० टीका ॥
साम्प्रतं तपः प्रतिपाद्यते-तच्च द्विधा-बाह्यमाभ्यन्तरं च । तत्र तावद् बाह्यप्रतिपादनायाहअणसणमूणोअरिआ वित्ती संखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥४७॥ व्या० न अशनमनशनम्-आहारत्याग इत्यर्थः, तत्पुनर्द्विधा-इत्वरं यावत् कथिकं च, तत्रेत्वरं-परिमितकालम्, तत्पुनश्चरमतीर्थकृत्तीर्थे चतुर्थादिषण्मासान्तम्, यावत्कथिकं त्वाजन्मभावि, तत्पुनश्चेष्टाभेदोपाधिविशेषतनिधा, तद्यथा- पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति, तत्रानशनिनः परित्यक्तचतुर्विधाहारस्याधिकृतचेष्टाव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य पादपस्येवोपगमनं सामीप्येन वर्त्तनं पादपोपगमनमिति, तच्च द्विधा- व्याघातवनिर्व्याघातवच्च, तत्र व्याघातवन्नाम यत्सिंहाद्युपद्रवव्याघाते सति क्रियत इति, उक्तं च- सीहादिसु अभिभूओ पादवगमणं करेइ थिरचित्तो । आउम्मि पहुप्पंते विआणिउं नवरि गीअत्थो ॥१॥ [पञ्चव० १६२०] इत्यादि, निर्व्याघातवत्पुनर्यत्सूत्रार्थतदुभयनिष्ठितः शिष्यान्निष्पाद्योत्सर्गतः द्वादश समाः कृतपरिकर्मा सन्काल एव करोति, उक्तं च- चत्तारि विचित्ताई विगईनिजूहियाइं चत्तारि । संवच्छरे अ दोण्णि उ एगंतरिअं च आयामं ॥१॥ णाइविगिट्ठो अ तवो छम्मासे परिमिअं च आयामं । अन्ने वि अ छम्मासे होइ विगिटुं तवोकम्मं ॥२॥ वासं कोडीसहियं आयामं काउ आणुपुव्वीए । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ॥३॥ [आचा० नि० २७१-२७२-२७३] इत्यादि । तथा इङ्गिते प्रदेशे मरणमिङ्गितमरणम्, इदं च संहननापेक्षमनन्तरोदितमशक्नुवतश्चतुर्विधाहारविनिवृत्तिरूपं स्वत एवोद्वर्तनादिक्रियायुक्तस्यावगन्तव्यमिति, उक्तं च- इंगिअदेसंमि सयं चउव्विहाहारचायणिप्फण्णं । उव्वत्तणादिजुत्तं णाणेण उ इंगिणीमरणं ॥१॥ [ ] इत्यादि। भक्तपरिज्ञा पुनस्त्रिविधचतुर्विधाहारविनिवृत्तिरूपा, सा नियमात्सप्रतिकर्मशरीरस्यापि धृतिसंहननवतो यथासमाधि भावतोऽवगन्तव्येति, उक्तं चभत्तपरिण्णाणसणं तिविहाहाराइचायनिप्फण्णं । सपडिक्कम्मं नियमा जहासमाहिं विणिद्दिढें ॥१॥ [ ] इत्यादि उक्तमनशनम्, अधुना ऊनोदरता ऊनोदरस्य भाव ऊनोदरता, सा पुनर्द्विविधा-द्रव्यतो भावतश्च, तत्र द्रव्यत उपकरणभक्तपानविषया, तत्रोपकरणे जिनकल्पिकादीनामन्येषां वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org