________________
प्रथमं परिशिष्टम्- टिप्पनानि
सर्वद्रव्य-पर्यायगतं सम्यक्त्वम्, सर्वद्रव्य-पर्यायश्रद्धानरूपत्वात् तस्य । तथा, श्रुते श्रुतसामायिके, चारित्रे चारित्रसामायिके द्रव्याणि सर्वाण्यपि भवन्ति, विषयपर्यायास्तु न सर्वे तद्विषयः, श्रुतस्याभिलाप्यविषयत्वात्, पर्यायाणां चाभिलाप्या-ऽनभिलाप्यरूपत्वादिति; चारित्रस्यापि ‘पढमम्मि सव्वजीवा' इत्यादिना सर्वद्रव्या-ऽसर्वपर्यायविषयतायाः प्रतिपादितत्वादिति । देशविरतिं प्रतीत्य द्वयोरपि सकलद्रव्य-पर्याययोः प्रतिषेधनं कुर्यात्, न सर्वद्रव्यविषयम्, नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावः ॥ इति नियुक्तिगाथार्थः ॥२७५१।।" - विशेषाव० मलधारि० ॥
[पृ०५०७] "तत्र प्रथमत एकेन्द्रियादीनां शरीरावगाहनामाह- जोयणसहस्समहियं, ओहेण एगिदिए तरुगणेसु । मच्छजुअले सहस्सं, उरगेसु य गब्भजाईसु ॥३०७॥ व्या० ओघेन सामान्यरूपेणैकेन्द्रियसामान्यचिन्तायामेकेन्द्रियाणामित्यर्थः, विशेषचिन्तायां तरुगणेषु योजनसहस्रमधिकम् किञ्चित्समधिकम्, तच्च समुद्रादिगतं पद्मनालमवसे यम् । अत्राहशरीप्रमाणमुच्छ्रयाङ्गुलतः समुद्रादिपरिमाणं तु प्रमाणामुलतः, समुद्राणां चावगाहो योजनसहस्रमतस्तद्गतपद्मनालादिकमुच्छ्रयाङ्गुलापेक्षयाऽधिकप्रमाणं भवतीति कथं न विरोधः । नैष दोषः, इह समुद्रमध्ये प्रमाणाङ्गुलतो योजनसहस्रावगाहे यानि पद्मानि तानि पृथिवीपरिणामरूपाणि, यथा श्रीदेवतायाः पद्महदे पद्मम्, यानि पुनः शेषेषु गोतीर्थादिषु स्थानेषु पद्मानि तानि वनस्पतिपरिणामरूपाण्यपि भवन्ति, तानि च शेषेषु जलाशयेषु वल्ल्यादयश्चोत्कर्षतः शरीरप्रमाणमानेन किञ्चित्समधिकं योजनसहस्रं भवतीति न कश्चिद्दोषः। तथा चामुमेवार्थं जिनभद्रगणिक्षमाश्रमणो विशेषणवत्यामाहजोअणसहस्समहिअं, वणस्सईदेहमाणमुद्दिढं । तं च किल समुद्दगयं, जलरुहनालं हवइ नन्नं ॥१॥ उस्सेहंगुलओ तं, होइ पमाणंगुलेण य समुद्दो । अवरोप्परओ दुन्निवि, कहमविरोहीणि हुजाहु ॥२॥ पुढवीपरिणामाई ताई किर सिरिनिवासपउमं च । गोतित्थेसु वणस्सइपरिणामाई तु हुजाहि ॥३॥ जत्थुस्सेहंगुलओ, सहस्समवसेसएसु य जलेसु । वल्लीलयादओ वि य, सहस्समायामओ डंति ॥४॥ [विशेषणवती] तथा मत्स्ययुगले गर्भव्युत्क्रान्तिकसंमूर्छिमलक्षण उरगेषु च सर्पजातीयेषु गर्भजातिषु गर्भजन्मसु देहप्रमाणं प्रत्येकं योजनसहस्रं परिपूर्णमुक्तम् ॥३०७॥” - बृहत्संग्रहणी० मलय० ।
पृ०५११] “सत्यमधिकृत्याह- अविसंवादनयोगः कायमनोवागजिह्यता चैव । सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥१७४॥ टीका- विसंवादनमन्यथास्थितस्यान्यथाभाषणं गामश्वम् अश्वं वा गामिति भाषते, पिशुना वाऽन्यता चान्यथा च व्युद्ग्राह्य प्रीतिच्छेदनं करोति विसंवादयति । विसंवादनेन योगः संबन्धः न विसंवादनयोगः अविसंवादनयोगः । सत्यं यथादृश्यमानवस्तुभाषणम् । कायेनाजिह्मता जिह्मः कुटिलो मलीमसः, कायेनान्यवेषधारितया प्रतारयति न जिह्मोऽजिह्मः द्वितीयः सत्यभेदः । मनसा वाऽजिह्मता सत्यम्, मनसा प्रागालोच्य भाषते करोति वा, प्रायो न तादृगालोचयति जिह्मेन येन परः प्रतार्यते, एष तृतीयो भेदः । वागजिह्मता च सत्यम्, जिह्मा वाक् सद्भूतनिह्नवः असद्भूतोद्भावनं कटुकपरुषसावद्यादि चेति चतुर्थो भेदः । एतच्च जैनेन्द्र एव मते, नान्यत्र सत्यमिति ॥१७४॥ - प्रशमरति० टीका ।
A-31
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org