________________
प्रथमं परिशिष्टम् - टिप्पनानि
स्निग्धाः। परिवेशाश्चासकलाः कपिलस्ताम्रो रविश्च शुभः || २१ || पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः । घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे ॥ २२॥ [ वाराही बृहत्संहति], पौषे मासे समार्गशीर्षे मार्गशीर्षसहिते सन्ध्यारागः सन्ध्ययो रक्तत्वम् । अम्बुदा मेघाः सपरिवेषाः परिवेषयुक्ताः । तथा मार्गशीर्षे मासि नात्यर्थं नातिबहु शीतम् । पौषे नातिहिमपातः शुभः ॥
माघे मासि प्रबलश्चण्डो वायुः । तथा रविशशाङ्कावर्कचन्द्रौ तुषारकलुषद्युती । तुषारद्युतिर्हिमकान्तिः सूर्यः । कलुषद्युतिरनिर्मलकान्तिश्चन्द्र इत्यर्थः । अतिशीतमत्यर्थं शीतम् । भानोरादित्यस्य सघनस्य समेघस्यास्तोदयौ धन्यौ द्वावपि शुभावित्यर्थः ॥
फाल्गुनमासे पवनो वायू रूक्षः परुषः । चण्डोऽतिवेगः । अभ्राणां मेघानां सम्प्लवा उद्गमाः । स्निग्धाः सूर्याचन्द्रमसोः परिवेषाः । असकला अखण्डाः । रविरादित्यः कपिलः कपिलवर्णस्ताम्रस्ताम्रवर्णश्च शुभः प्रशस्तः ॥
चैत्रे मासि गर्भाः पवनेन वायुना घनैर्मेधैर्वृष्ट्या वर्षणेन च युक्ताः सपरिवेषाः परिवेषसहिताः शुभाः । वैशाखे मासि धनैर्मेधैः । पवनेन वायुना । सलिलेन जलेन । विद्युता तडिता । स्तनितेन गर्जितेन च युक्ता गर्भा हिताय भवन्ति । तथा च कश्यपः- शीतमभ्रं तथा वायुश्चन्द्रार्कपरिवेषणम् । माघे मासि परीक्षेत श्रावणे वृष्टिमादिशेत् ॥ फाल्गुने चात्र सङ्घातं वृष्टिस्तनितमेव च । परोवाताश्च
प्रोक्ता मास भाद्रपदे शुभम् || बहुपुष्पफला वृक्षा वाताः शर्करवर्षिणः । शीतवर्षं तथाभ्राणि चैत्रेणाश्वयुजं वदेत् ॥ [ ] वहन्ति मृदवो वाताः पुरः शीघ्रं प्रदक्षिणाः । वैशाखे तानि रूपाणि कार्तिके मासि वर्षति ॥ तथा च समाससंहितायाम् शस्तानि मृगान्मासाच्छीतहिमवायुमेघकृतानि । स्तनिततडिज्जलमारुतघनतापान्यतिशयं तु वैशाखे । कृष्णेन शुक्लपक्षः सितेन कृष्णो निशा दिनोत्थेन । रात्र्याहः सन्ध्यायां सन्ध्यादिग्व्यत्ययाज्जलदाः ॥ [ ] इति ॥ ॥१९-२२॥ इति बृहत्संहिता ० भटोत्पल० ॥
७८
[पृ०४९६] “प्रत्येकरसाश्चत्वारः सागरास्त्रय उदकरसा इत्युक्तमतस्तान्नामत आह- वारुणिवर खीरवरो घयवर लवणो अ हुंति पत्तेया । कालोअ पुक्खरोदहि सयंभुरमणो अ उदयरसा ॥८८॥ व्या० वारुणीवरः क्षीरवरो घृतवरो लवणो लवणोदश्चेत्येते चत्वारोऽपि समुद्राः प्रत्येकरसा विभिन्नरसाः, तद्यथा- वारुणीवरसमुद्रः सुजातपरमद्रव्यसन्मिश्रमदिरास्वादजलः । क्षीरवरश्चतुर्विभागखण्डादिसन्मिश्रगोक्षीरास्वादजलः । घृतवरः सुक्वथितसद्योविस्पन्दितगोघृतास्वादतोयः । लवणोदो लवणमयजल इति । तथा कालोदः पुष्करवरोदधिः स्वयंभूरमणश्चेत्येते त्रयः समुद्रा उदकरसाः, नवरं कालोदसमुद्रस्य जलं कृष्णं माषराशिवर्णाभं गुरुपरिमाणं । पुष्करोदसमुद्रस्य हितं पथ्यं तनुपरिमाणं स्फटिकवर्णाभम् इत्थंभूतमेव च स्वयम्भूरमणस्येति ॥८८॥” बृहत्सं० मलय० ।
-
[पृ०५०० ] “सव्वगयं सम्मत्तं सुय चरित्ते न पज्जवा सव्वे । देसविर पडुच्चा दोन्ह वि पsिहणं कुजा || २७५१ ।। अथ 'केषु द्रव्येषु पर्यायेषु च सामायिकम् ?' इति जिज्ञासायामुच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org