________________
प्रथमं परिशिष्टम्- टिप्पनानि
७७
“अथैतदेवाऽवग्रहादिस्वरूपं भाष्यकारो विवृण्वन्नाह- सामण्णत्थावग्गहणमुग्गहो भेयमग्गणमहेहा । तस्सावगमोऽवाओ अविच्चुई धारणा तस्सा ॥१८०॥ व्या० अन्तर्भूताऽशेषविशेषस्य केनापि रूपेणाऽनिर्देश्यस्य सामान्यस्याऽर्थस्यैकसामयिकमवग्रहणं सामान्यार्थावग्रहणम्, अथवा सामान्येन सामान्यरूपेणाऽर्थस्याऽवग्रहणं सामान्यार्थावग्रहणमवग्रहो वेदितव्यः । अथाऽनन्तरमीहा प्रवर्तते । कथम्भूतेयम् ? इत्याह- भेदमार्गणम्, भेदा वस्तुनो धर्मास्तेषां मार्गणमन्वेषणं विचारणं प्रायः काकनिलयनादयः स्थाणुधर्मा अत्र वीक्ष्यन्ते, न तु शिरःकण्डूयनादयः पुरुषधर्मा इत्येवं वस्तुधर्मविचारणमीहेत्यर्थः । तस्यैवेहयेहितस्य वस्तुनस्तदनन्तरमवगमनमवगमः स्थाणुरेवाऽयमित्यादिरूपो निश्चयोऽवायोऽपायो वेति । तस्यैव निश्चितस्य वस्तुनोऽविच्युति-स्मृतिवासनारूपं धरणं धारणा; सूत्रेऽविच्युतेरुपलक्षणत्वात् ॥ इति गथार्थः ॥१८०॥” - विशेषाव० मलधारि०॥
[पृ० ४९२] “सम्प्रति सौधर्मादिषु विमानानां वर्णविभागं प्रतिपिपादयिषुराह- सोहम्मि पंचवण्णा, एक्कगहाणीओ जा सहस्सारो । दो दो तुल्ला कप्पा, तेण परं पुंडरीयाणि ॥१३२॥ व्या० सौधर्मे कल्पे विमानानि वर्णेन वर्णमधिकृत्य पञ्चवर्णानि श्वेतपीतरक्तनीलकृष्णवर्णोपेतानि भवन्ति । तत ऊर्ध्वं यावत्सहस्रारकल्पस्तावदेकैकहानिरेकैकवर्णहानिर्द्रष्टव्या, नवरं द्वौ द्वौ कल्पौ तुल्यौ वर्णमधिकृत्य तुल्यवक्तव्यताको वेदितव्यौ, इयमत्र भावना- सौधर्मेशानकल्पयोर्विमानानि श्वेतपीतरक्तनीलकृष्णवर्णोपेतानि भवन्ति । सनत्कुमारमाहेन्द्रकल्पयोः कृष्णवर्णरहितशेषवर्णचतुष्टयोपेतानि । ब्रह्मलोकलान्तककल्पयोः कृष्णनीलरहितशेषवर्णत्रयोपेतानि । शुक्रसहस्रारकल्पयोः कृष्णनीलरक्तरहितशेषवर्णद्वयोपेतानि। तेण परं पुंडरीया इति, ततः सहस्रारात् परं विमानानि सर्वाण्यपि पुण्डरीकाणि पुण्डरीकतुल्यवर्णानि भवन्ति, पुण्डरीकं सिताम्बुजं [तद्वत्] श्वेतानि भवन्तीत्यर्थः ॥१३२॥ ___ भवणवणजोइसोहम्मीसाणे सत्त हुंति रयणीओ। इक्किक्कहाणि सेसे, दु दुगे य दुगे चउक्के य ॥१४३॥ व्या० भवनपतीनां वण त्ति वनचराणां ज्योतिष्काणां सौधर्मेशानदेवानां च शरीरप्रमाणमुत्कर्षतः सप्त सप्त रत्नयो हस्ता भवन्ति । शेषे द्विके द्विके द्विके चतुष्के चैकैकहानिरेकैकहस्तहानिर्वक्तव्या, तद्यथा- सनत्कुमारमाहेन्द्रयोरुत्कर्षतः षड् हस्ताः शरीरप्रमाणम्, ब्रह्मलोकलान्तकयोः पञ्च, शुक्रसहस्रारयोश्चत्वारः, आनतप्राणतारणाच्युतेषु त्रयः ॥१४३॥ __गेविजेसुं दुन्नि य, इक्का रयणी अणुत्तरेसुं च । भवधारणिज एसा, उक्कोसा होइ नायव्वा ॥१४४॥ व्या० ग्रैवेयके षूत्कर्षतः शरीरप्रमाणं द्वौ रत्नी, एकोऽनुत्तरेषु । एषा च सप्तहस्तप्रमाणादिकोत्कृष्टावगाहना भवधारणीया वेदितव्या ॥१४४॥" - बृहत्संग्रहणी० मलय० ॥
[पृ०४९३] अधुना तल्लक्षणमाह- पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः । नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिमपात: ॥१९॥ माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ। अतिशीतं सघनस्य च भानोरस्तोदयौ धन्यौ ॥२०॥ फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवा:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org