________________
७६
प्रथमं परिशिष्टम्- टिप्पनानि अव्याहतफलयोगा, अव्याहतफलेन योगो यस्याः साऽव्याहतफलयोगा बुद्धिः औत्पत्तिकी नामेति गाथार्थः॥ ___ अधुना वैनयिक्या लक्षणं प्रतिपादयन्नाह- भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेआला। उभओलोगफलवई विणयसमुत्था हवइ बुद्धी ॥९४३॥ व्या० इहातिगुरु कार्यं दुर्निर्वहत्वाद्भर इव भरः, तन्निस्तरणे समर्था भरनिस्तरणसमर्था, त्रयो वर्गाः त्रिवर्गमिति लोकरूढेर्धर्मार्थकामाः, तदर्जनपरोपायप्रतिपादननिबन्धनं सूत्रं तदन्वाख्यानं तदर्थः पेयालं प्रमाणं सारः, त्रिवर्गसूत्रार्थयोर्गृहीतं प्रमाणं सारो यया सा तथाविधा, अथवा त्रिवर्ग: त्रैलोक्यम् ॥ आह- नन्द्यध्ययनेऽश्रुतनिसृताऽऽभिनिबोधिकाधिकारे औत्पत्तिक्यादिबुद्धिचतुष्टयोपन्यासः, त्रिवर्गसूत्रार्थ-गृहीतसारत्वे च सत्यश्रुतनिसृतत्वमुक्तं विरुध्यत इति, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं सम्भवति, अत्रोच्यते, इह प्रायोवृत्तिमङ्गीकृत्याश्रुतनिसृतत्वमुक्तम् अतः स्वल्पश्रुतनिसृतभावेऽप्यदोष इति । उभयलोकफलवती ऐहिकामुष्किकफलवती विनयसमुत्था विनयोद्भवा भवति बुद्धिरति गाथार्थः ॥९४३।। साम्प्रतं कर्मजाया बुद्धेर्लक्षणं प्रतिपादयन्नाह- उवओगदिट्ठसारा कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवई कम्मसमुत्था हवइ बुद्धी ॥९४६।। व्या० उपयोजनमुपयोगःविवक्षिते कर्मणि मनसोऽभिनिवेशः, सार:- तस्यैव कर्मणः परमार्थः, उपयोगेन दृष्टः सारो ययेति समासः अभिनिवेशोपलब्धकर्मपरमार्थेत्यर्थः, कर्मणि प्रसङ्गः अभ्यासः, परिघोलनं विचारः, कर्मप्रसङ्गपरिघोलनाभ्यां विशाला कर्मप्रसङ्गपरिघोलनविशाला अभ्यासविचारविस्तीर्णेति भावार्थः, साधु कृतं सुष्ठ कृतमिति विद्वद्भ्यः प्रशंसा साधुकारस्तेन फलवतीति समासः, साधुकारेण वा ऽशेषमपि फलं यस्याः सा तथा, कर्मसमुत्था कर्मोद्भवा भवति बुद्धिरिति गाथार्थः ॥” - आव० नि० हारि० ॥
[पृ० ४८६] “उक्ता कर्मजा, साम्प्रतं पारिणामिक्या लक्षणं प्रतिपादयन्नाहअणुमाणहेउदिटुंतसाहिया वयविवागपरिणामा । हिअनिस्सेअसफलवई बुद्धी परिणामिआ नाम ॥९४८॥ व्या० अनुमानहेतुदृष्टान्तैः साध्यमर्थं साधयतीति अनुमानहेतुदृष्टान्तसाधिका, इह लिङ्गात् ज्ञानमनुमानं स्वार्थमित्यर्थः, तत्प्रतिपादकं वचो हेतुः परार्थमित्यर्थः, अथवा ज्ञापकमनुमानम्, कारको हेतुः, दृष्टमर्थमन्तं नयतीति दृष्टान्तः । आह- अनुमानग्रहणादेव दृष्टान्तस्य गतत्वादलमुपन्यासेन, न, अनुमानस्य तत्त्वत एकलक्षणत्वात्, उक्तं च- अन्यथाऽनुपपन्नत्वं, यत्र यत्र त्रयेण किम् ?। नान्यथाऽनुपपन्नत्वं यत्र यत्र त्रयेण किम् ?॥१॥ [ ] इत्यादि । साध्योपमाभूतस्तु दृष्टान्तः, उक्तं च- यः साध्यस्योपमाभूतः स दृष्टान्त इति कथ्यते [ ], कालकृतो देहावस्थाविशेषो वय इत्युच्यते, तद्विपाके परिणामः पुष्टता यस्याः सा तथाविधा, हितम् अभ्युदयस्तत्कारणं वा, निःश्रेयसं मोक्षस्तन्निबन्धनं वा हितनिःश्रेयसाभ्यां फलवती हितनिःश्रेयसफलवती बुद्धिः पारिणामिकी नामेति गाथार्थः ॥” - आव० नि० हारि० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org