________________
प्रथमं परिशिष्टम्- टिप्पनानि
फंदइ, ताहे लोगो आगंतुं सामि वंदित्ता तंपि सप्पं महति अ, अन्नाओ य घयविक्कणियातो तं सप्पं घएण मक्खंति, ततो सो पिवीलियाहिं गहितो, तं वेयणं सम्मं अहियासेइ, अद्धमासे कालगतो सहस्सारे उववन्नो॥ - आव० मलय० ॥ ___“केन पुन: कारणेन देवादिभ्यः साधूनामुपसर्गा भवन्ति ? इत्याह- हास-प्पओस-वीमंसओ विमायाए वा भवो दिव्वो । एवं चिय माणुस्सो कुसीलपडिसेवणचउत्थो ॥३००६॥ तिरिओ भय-प्पओसा-हारावच्चाइरक्खणत्थं वा । घट्ट-त्थंभण-पवडण-लेसणओ चायसंवेओ ॥३००७॥ व्या० हासात् क्रीडातः, अवज्ञातपूर्वभवसंबन्धादिकृतप्रद्वेषाद् वा, वीमंसउ त्ति 'किमयं स्वप्रतिज्ञातश्चलति नवा ?' इति मीमांसातो विमर्षाद् दिव्य उपसर्गो भवेत् । तथा विमायाए त्ति विविधा मात्रा विमात्रा तस्याः सकाशात् किमपि हास्यात्, किमपि प्रद्वेषात्, किं च मीमांसातश्चेत्यर्थः, दिव्य उपसर्गो भवेदिति । एवं मानुषोऽप्युपसर्गश्चतुर्विधो भवेत् । केवलं कुसीलपडिसेवणचउत्थो त्ति स्त्रीपण्डकलक्षणो यः कुशीलस्तत्प्रतिसेवनामाश्रित्य चतुर्थभेदो द्रष्टव्यः, विमात्रापक्षस्यात्र हास्यादिष्वेवान्तर्भावविवक्षणादिति । तिर्यङ् भयात्, प्रद्वेषात्, आहारार्थम्, अपत्यनीडगुहादिस्थानरक्षणार्थमुपसर्गं कुर्यादिति । आत्मसंवेदनीयस्तूपसर्गो नेत्रपतितकूणिकादिघट्टनात्, अङ्गानां वा स्तम्भनात् स्तब्धताभावात्, गर्तादौ वा प्रपतनात्, विगुणितबाह्वाद्यङ्गानां वा लेशनात् परस्परं श्लेषणाद् भवति ॥३००६-३००७॥” - विशेषाव० मलधारि०॥
[पृ० ४८४] “तो समणो जइ सुमणो भावेण य जइ न होइ पावमणो । सयणे य जेण य समो समो य माणावमाणेसु ॥१५६॥ व्या० ततः श्रमणो यदि सुमनाः, द्रव्यमनः प्रतीत्य, भावेन च यदि न भवति पापमनाः, एतत्फलमेव दर्शयति- स्वजने च जने च समः, समश्च माना-ऽपमानयोरिति गाथार्थः ॥१५६।।
नत्थि य सि कोइ वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नोऽवि पजओ ॥१५५॥ व्या० नास्ति च सि तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, तुल्यमनस्त्वात्, एतेन भवति सममनाः, समं मनोऽस्येति सममनाः, एषोऽन्योऽपि पर्याय इति गाथार्थः ॥१५५॥" - दशवै० हारि० ॥
पृ० ४८५] “औत्पत्तिक्या लक्षणं प्रतिपादयन्नाह- पुव्वमदिट्ठमस्सुअमवेइअ तक्खणविसुद्धगहिअत्था । अव्वाहयफलजोगिणि बुद्धी उप्पत्तिआ नाम ॥९३९॥ व्या० पूर्वम् इति बुद्ध्युत्पादात् प्राक् स्वयमदृष्टोऽन्यतश्चाश्रुतः अवेदित: मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धः यथावस्थितः गृहीत: अवधारितः अर्थः अभिप्रेतपदार्थो यया सा तथा, इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं वाऽव्याहतमुच्यते, फलं प्रयोजनम्, अव्याहतं च तत्फलं च अव्याहतफलम्, योगोऽस्या अस्तीति योगिनी अव्याहतफलेन योगिनी अव्याहतफलयोगिनी, अन्ये पठन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org