Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 438
________________ प्रथमं परिशिष्टम्- टिप्पनानि सत्यमेतत्, किन्तु क्षायोपशमिकसम्यक्त्वश्रुतचारित्राणामपि समुदितानां क्षायिकसम्यक्त्वादिनिबन्धनत्वेन पारम्पर्येण मोक्षहेतुत्वाददोषः ॥१०४॥" - आव० हारि० । [पृ० ३३८] “पडिसेवणा उ भावो, सो पुण कुसलो य होजऽकुसलो वा । कुसलेण होइ कप्पो, अकुसलपरिणामतो दप्पो ॥३९॥ प्रतिषेवणा द्विविधा-द्रव्यरूपा भावरूपा च प्रतिषेवणक्रियायाः कर्तृकर्मगतत्वात्, तत्र या तस्य तस्य वस्तुनः प्रतिषेव्यमानता सा द्रव्यरूपा प्रतिषेवणा, यस्तु जीवस्य तथा तथा प्रतिषेवकत्वपरिणामः, सा भावरूपा प्रतिषेवणा सैव चेह ग्राह्या, जीवपरिणामानुरूपतः प्रायश्चित्तविधिप्रवृत्तेः, तथा चाह-पडिसेवणा उ भावो प्रतिषेवणा नाम तुरेवकारार्थो भिन्नक्रमश्च, भाव एव जीवस्याध्यवसाय एव नान्या, स च भावो द्विधा कुशलोऽकुशलश्च, तत्र कुशलो ज्ञानादिरूपोऽकुशलोऽविरत्यादिरूपः, तत्र या कुशलेन परिणामेन बाह्यवस्तुप्रतिषेवणा सा कल्पः, पदैकदेशे पदसमुदायोपचारात् कल्पप्रतिषेवणा, कल्पिका इति भावः, या पुनरकुशलपरिणामतः प्रतिषेवणा सा दर्पः, दर्पप्रतिषेवणा दर्पिका इत्यर्थः । मूलगुण- उत्तरगुणे, दुविहा पडिसेवणा समासेण । मूलगुणे पंचविहा पिंडविसोहाइया इयरा ॥४१॥ प्रतिसेवना समासेन संक्षेपेण द्विविधा, तद्यथा-मूलगुणे मूलगुणविषया उत्तरगुणे उत्तरगुणविषया, तत्र मूलगुणविषया पञ्चविधा प्राणतिपातमृषावादादत्तादानमैथुनपरिग्रहरूपा, इतरा उत्तरगुणविषया पिण्डविशुद्ध्यादिविषया अनेकविधा, अत्रादिशब्दात्समित्यादिपरिग्रहः, किमुक्तं भवति ? मूलगुणेषु प्राणातिपातविरत्यादिषु उत्तरगुणेषु पिण्डविशुद्ध्यादिषु यथाक्रमं प्रतिसेवना प्राणातिपातादिलक्षणा पञ्चविधा आधाकर्मोपभोगादिलक्षणा अनेकविधेति, तत्र मूलगुणप्रतिसेवना संरम्भादिभेदतश्चित्रा उत्तरगुणप्रतिसेवना त्वतिक्रमादिभेदतः ।। आलोयण पडिकमणे, मीसविवेगे तहा विउस्सग्गे । तवच्छेय मूल अणवट्ठिया य पारंचिए चेव ॥५३॥ आङ् मर्यादायाम्, सा च मर्यादा इयम् जह बालो जंपतो, कजमकजं व उज्जुए भणइ । तं तह आलोएजा मायामयविप्पमुक्को य ॥१॥ अनया मर्यादया लोचू दर्शने [पा० धा० १६४] चुरादित्वात् णिच्, लोकनं लोचना प्रकटीकरणम्, आलोचनं गुरोः पुरतो वचसा प्रकटीकरणमितिभावः यत् प्रायश्चित्तमालोचनामात्रेण शुध्यति, तदालोचनार्हतया कारणे कार्योपचारादालोचनम्, तथा प्रतिक्रमणं दोषात् प्रतिनिवर्त्तनमपुनः-करणतया मिथ्यादुष्कृतप्रदानमित्यर्थः, तदर्ह प्रायश्चित्तमपि प्रतिक्रमणम्, किमुक्तं भवति ? [यत्] प्रायश्चित्तं मिथ्यादृष्कृतमात्रेणैव शुद्धिमासादयति, न च गुरुसमक्षमालोच्यते, यथा सहसानुपयोगतः श्लेष्मादिप्रक्षेपादुपजातं प्रायश्चित्तम्, तथाहि-सहसानुपयुक्ते यदि श्लेष्मादि प्रक्षिप्तं भवति, न च हिंसादिकं दोषमापनस्तर्हि गुरुसमक्षमालोचनामन्तरेणापि मिथ्यादुःकृतप्रदानमात्रेण स शुध्यति, तत् प्रतिक्रमणार्हत्वात् प्रतिक्रमणम्, यस्मिन् पुनः प्रतिसेविते प्रायश्चित्ते यदि गुरुसमक्षमालोचयति, आलोच्य यो गुरुसंदिष्टः प्रतिक्रामति पश्चाच्च मिथ्यादुःकृतमिति ब्रूते तदा शुध्यति, तत् आलोचनाप्रतिक्रमणलक्षणोभयार्हत्वात् मिश्रम्, तथा विवेकः परित्यागः, Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579