Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 464
________________ प्रथमं परिशिष्टम्- टिप्पनानि अपि जाता न कमपि गुणं सम्यक्त्वादिकं लभन्ते, तथास्वाभाव्यात् ॥२९७॥" - बृहत्संग्रहणी० मलय० । [पृ० ४३२] "इत्थमवग्रहादीनां स्वरूपमभिधाय इदानीं श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिषुराह- पुढे सुणेइ सई रूवं पुण पासई अपुढे तु । गंधं रसं च फासं च बद्धपुढे वियागरे ॥५॥ व्या० आह- ननु व्यञ्जनावग्रहनिरूपणाद्वारेण श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्रतिपादितैव, किमर्थं पुनरयं प्रयास इति, उच्यते, तत्र प्रक्रान्तगाथाव्याख्यानद्वारेण प्रतिपादिता, साम्प्रतं तु सूत्रतः प्रतिपाद्यत इत्यदोषः । तत्र स्पृष्टम् इत्यालिङ्गितम्, तनौ रेणुवत्, शृणोति गृह्णाति उपलभत इति पर्यायाः, कम् ? शब्द्यतेऽनेनेति शब्दः तं शब्दप्रायोग्यं द्रव्यसंघातम्, इदमत्र हृदयम्- तस्य सूक्ष्मत्वात् भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रेन्द्रियस्य चान्येन्द्रियगणात्प्रायः पटुतरत्वात् स्पृष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णाति । रूप्यत इति रूपम्, तद्रूपं पुनः, पश्यति गृह्णाति उपलभत इत्येकोऽर्थः, अस्पृष्टमनालिङ्गितं गन्धादिवन्न संबद्धमित्यर्थः, तुशब्दस्त्वेवकारार्थः, स चावधारणे, रूपं पुन: पश्यति अस्पृष्टमेव, चक्षुषः अप्राप्तकारित्वादिति भावार्थः, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि ? अस्पृष्टमपि योग्यदेशावस्थितम्, न पुनरयोग्यदेशावस्थितम् अमरलोकादि । गन्ध्यते घ्रायत इति गन्धस्तम्, रस्यत इति रसस्तं च, स्पृश्यत इति स्पर्शस्तं च, चशब्दौ पूरणार्थों, बद्धस्पृष्टं इति बद्धमाश्लिष्टं नवशरावे तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः, स्पृष्टं पूर्ववत्, प्राकृतशैल्या चेत्थमुपन्यासो बद्धपुढे ति, अर्थतस्तु स्पृष्टं च बद्धं च स्पृष्टबद्धम् । आह- यद्बद्धं गन्धादि तत् स्पृष्टं भवत्येव, अस्पृष्टस्य बन्धायोगात्, ततश्च स्पृष्टशब्दोच्चारणं गतार्थत्वादनर्थकमिति, उच्यते, सर्वश्रोतृसाधारणत्वाच्छास्त्रारम्भस्यायमदोष इति । त्रिप्रकाराश्च श्रोतारो भवन्ति- केचिदू उद्घाटितज्ञाः, केचित् मध्यमबुद्ध्यः, तथाऽन्ये प्रपञ्चितज्ञा इति, तत्र प्रपञ्चितज्ञानाम् अनुग्रहाय गम्यमानस्याप्यभिधानमदोषायैव, अथवा विशेषणसमासाङ्गीकरणाददोषः, स्पृष्टं च तद्बद्धं च स्पृष्टबद्धम्, तत्र स्पृष्टं गन्धादि विशेष्यम्, बद्धमिति च विशेषणम्। आह- एवमपि स्पृष्टग्रहणमतिरिच्यते, यस्माद्यबद्धं न तत् स्पृष्टत्वव्यभिचारि, उभयपदव्यभिचारे च विशेषणविशेष्यभावो दृष्टो यथा नीलोत्पलमिति, न चेह उभयपदव्यभिचारः, अत्रोच्यते, नैष दोषः यस्मादेकपदव्यभिचारेऽपि विशेषणविशेष्यभावो दृष्टः, यथा अब्द्रव्यं पृथिवी द्रव्यमिति, भावना- अब् द्रव्यमेव, न द्रव्यत्वं व्यभिचरति, द्रव्यं पुनरब् चानब् चेति व्यभिचारि, अथ च विशेषणविशेष्यभाव इति । प्रकृतभावार्थस्त्वयम्- आलिङ्गितानन्तरमात्मप्रदेशैरागृहीतं गन्धादि बादरत्वाद् अभावुकत्वात् अल्पद्रव्यरूपत्वात् घ्राणादीनां चापटुत्वात् गृह्णाति निश्चिनोति घ्राणेन्द्रियादिगण इत्येवं व्यागृणीयात् प्रतिपादयेदिति यावत् । ___ आह- भवतोक्तं योग्यदेशावस्थितमेव रूपं पश्यति, न पुनरयोग्यदेशावस्थितमिति, तत्र कियान् पुनश्चक्षुषो योग्यविषयः ?, कियतो वा देशादागतं श्रोत्रादि शब्दादि गृह्णातीति, उच्यते, श्रोत्रं तावच्छब्दं जघन्यतः खल्वङ्गुलासंख्येयमात्राद्देशात्, उत्कृष्टतस्तु द्वादशभ्यो योजनेभ्य इति, चक्षुरिन्द्रियमपि रूपं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579