Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 485
________________ ७० प्रथमं परिशिष्टम्- टिप्पनानि भयश्रद्धादिकृतेभ्य इति 'रोमहर्षादिविशेषाः' । ते न सन्तीति साध्यम् । दहनः एव विशिष्यते तदन्यस्माद्दहनात् शीतनिवर्तनसामर्थ्येनेति दहनविशेषः । कश्चिद्दहनः सन्नपि न शीतनिवर्तनक्षमो यथा प्रदीपः । तादृशनिवृत्तये विशेषग्रहणम् । संनिहितो दहनविशेषो यस्य स तथोक्तः, तस्य भावः, तस्मादिति हेतुः। यत्र शीतस्पर्शः सन्नप्यदृश्यो रोमहर्षादिविशेषाश्चादृश्याः, तत्रायं प्रयोगः । रोमहर्षादिविशेषस्य दृश्यत्वे दृश्यानुपलब्धिः प्रयोक्तव्याः, शीतस्पर्शस्य दृश्यत्वे कारणानुपलब्धिः । तस्मादभावसाधनोऽयम्। रूपविशेषाद्विदूरात् दहनं पश्यति, शीतस्पर्शस्त्वदृश्यो रोमहर्षादिविशेषाश्च । तेषां कारणविरुद्धोपलब्ध्या अभावः प्रतिपद्यत इति तत्रास्याः प्रयोगः ॥१०॥ कारणविरुद्धकार्योपलब्धिर्यथा न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशो धूमादिति ॥४२॥ प्रतिषेध्यस्य यत् कारणं तस्य यत् विरुद्धं तस्य यत् कार्यं तस्योपलब्धिरुदाहर्तव्या- यथेति । अयं देश इति धर्मी । योगो युक्तम्, रोमहर्षादिविशेषयुक्तं रोमहर्षादिविशेषैर्युक्तम् । तस्य संबन्धी पुरुषो 'रोमहर्षादिविशेषयुक्तपुरुषः' । तद्वान् न भवतीति साध्यम् । धूमादिति हेतुः । रोमहर्षादिविशेषस्य प्रत्यक्षत्वे दृश्यानुपलब्धिः, कारणस्य शीतस्पर्शस्य प्रत्यक्षत्वे कारणानुपलब्धिः, वह्नस्तु प्रत्यक्षत्वे कारणविरुद्धोपलब्धिः प्रयोक्तव्या । त्रयाणामप्यदृश्यत्वेऽयं प्रयोगः । तस्मादभावसाधनोऽयम् । तत्र दूरस्थस्य प्रतिपत्तुः दहनशीतस्पर्शरोमहर्षादिविशेषा अप्रत्यक्षाः सन्तोऽपि धूमस्तु प्रत्यक्षो यत्र, तत्रैतत्प्रमाणम् । धूमस्तु यादृशः तस्मिन्देशे स्थितं शीतं निवर्तयितुं समर्थस्य वह्रनुमापकः स इह ग्राह्यः । धूममात्रेण तु वह्निमात्रेऽनुमितेऽपि न शीतस्पर्शनिवृत्तिः नापि रोमहर्षादिविशेषनिवृत्तिरवसातुं शक्येति न धूममात्रं हेतुरिति द्रष्टव्यमिति ॥११॥” इति न्यायबिन्दुटीकायां धर्मोत्तरविरचितायां द्वितीये परिच्छेदे ॥ [पृ० ४५२] ‘आशी दंष्ट्रा तद्गतमहाविषा आशीविषा विविधभेदाः । ते कर्म-जातिभेदेनाऽनेकधा चतुर्विकल्पाः ॥७९१।।' इति संस्कृते छाया ॥ ___ [पृ० ४५४] “णिवितिगणिब्बले ओमे, तह उद्धट्ठाणमेव उन्भामे । वेयावच्चा हिंडण, मंडलि कप्पट्ठियाहरणं ॥५७४॥ णिव्वीतियमाहारं आहारेति । तह वि अठायमाणे णिब्बलाणि मंडगचणगादी आहारेति । तह वि अठायमाणे ओमोदरियं करेति । तह वि ण ठाति चउत्थादि जाव छम्मासियं तवं करेति; पारणए णिब्बलमाहारमाहारेति । जइ उवसमति तो सुंदरं। अह णोवसमति 'ताहे' उद्धट्ठाणं महतं करेति कायोत्सर्गमित्यर्थः । तह वि अठायमाणे उब्भामे भिक्खायरिए गच्छति। अहवा- साहूण 'वीसामणा' ति वेयावच्चं कराविज्जति । तह वि अठायमाणे देसहिंडगाणं सहाओ दिजति । एत्थ हेट्टिल्लपया उवरुवरि दळुव्वा, एवं अगीतत्थस्स । गीतत्थो पुण सुत्तत्थमंडलिं दाविज्जति। अहवा- गीतत्थस्स वि णिव्वितिगादि विभासाए दट्ठव्वा । नोदक आह- जति तावागीयत्थस्स निव्वीयादि तवविसेसा उवसमो ण भवति तो गीयत्थस्स कहं सीयच्छायादिठियस्स उवसमो भविस्सति ? Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579