________________
७०
प्रथमं परिशिष्टम्- टिप्पनानि भयश्रद्धादिकृतेभ्य इति 'रोमहर्षादिविशेषाः' । ते न सन्तीति साध्यम् । दहनः एव विशिष्यते तदन्यस्माद्दहनात् शीतनिवर्तनसामर्थ्येनेति दहनविशेषः । कश्चिद्दहनः सन्नपि न शीतनिवर्तनक्षमो यथा प्रदीपः । तादृशनिवृत्तये विशेषग्रहणम् । संनिहितो दहनविशेषो यस्य स तथोक्तः, तस्य भावः, तस्मादिति हेतुः। यत्र शीतस्पर्शः सन्नप्यदृश्यो रोमहर्षादिविशेषाश्चादृश्याः, तत्रायं प्रयोगः । रोमहर्षादिविशेषस्य दृश्यत्वे दृश्यानुपलब्धिः प्रयोक्तव्याः, शीतस्पर्शस्य दृश्यत्वे कारणानुपलब्धिः । तस्मादभावसाधनोऽयम्। रूपविशेषाद्विदूरात् दहनं पश्यति, शीतस्पर्शस्त्वदृश्यो रोमहर्षादिविशेषाश्च । तेषां कारणविरुद्धोपलब्ध्या अभावः प्रतिपद्यत इति तत्रास्याः प्रयोगः ॥१०॥
कारणविरुद्धकार्योपलब्धिर्यथा न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशो धूमादिति ॥४२॥ प्रतिषेध्यस्य यत् कारणं तस्य यत् विरुद्धं तस्य यत् कार्यं तस्योपलब्धिरुदाहर्तव्या- यथेति । अयं देश इति धर्मी । योगो युक्तम्, रोमहर्षादिविशेषयुक्तं रोमहर्षादिविशेषैर्युक्तम् । तस्य संबन्धी पुरुषो 'रोमहर्षादिविशेषयुक्तपुरुषः' । तद्वान् न भवतीति साध्यम् । धूमादिति हेतुः । रोमहर्षादिविशेषस्य प्रत्यक्षत्वे दृश्यानुपलब्धिः, कारणस्य शीतस्पर्शस्य प्रत्यक्षत्वे कारणानुपलब्धिः, वह्नस्तु प्रत्यक्षत्वे कारणविरुद्धोपलब्धिः प्रयोक्तव्या । त्रयाणामप्यदृश्यत्वेऽयं प्रयोगः । तस्मादभावसाधनोऽयम् । तत्र दूरस्थस्य प्रतिपत्तुः दहनशीतस्पर्शरोमहर्षादिविशेषा अप्रत्यक्षाः सन्तोऽपि धूमस्तु प्रत्यक्षो यत्र, तत्रैतत्प्रमाणम् । धूमस्तु यादृशः तस्मिन्देशे स्थितं शीतं निवर्तयितुं समर्थस्य वह्रनुमापकः स इह ग्राह्यः । धूममात्रेण तु वह्निमात्रेऽनुमितेऽपि न शीतस्पर्शनिवृत्तिः नापि रोमहर्षादिविशेषनिवृत्तिरवसातुं शक्येति न धूममात्रं हेतुरिति द्रष्टव्यमिति ॥११॥” इति न्यायबिन्दुटीकायां धर्मोत्तरविरचितायां द्वितीये परिच्छेदे ॥
[पृ० ४५२] ‘आशी दंष्ट्रा तद्गतमहाविषा आशीविषा विविधभेदाः । ते कर्म-जातिभेदेनाऽनेकधा चतुर्विकल्पाः ॥७९१।।' इति संस्कृते छाया ॥ ___ [पृ० ४५४] “णिवितिगणिब्बले ओमे, तह उद्धट्ठाणमेव उन्भामे । वेयावच्चा हिंडण, मंडलि कप्पट्ठियाहरणं ॥५७४॥ णिव्वीतियमाहारं आहारेति । तह वि अठायमाणे णिब्बलाणि मंडगचणगादी आहारेति । तह वि अठायमाणे ओमोदरियं करेति । तह वि ण ठाति चउत्थादि जाव छम्मासियं तवं करेति; पारणए णिब्बलमाहारमाहारेति । जइ उवसमति तो सुंदरं। अह णोवसमति 'ताहे' उद्धट्ठाणं महतं करेति कायोत्सर्गमित्यर्थः । तह वि अठायमाणे उब्भामे भिक्खायरिए गच्छति।
अहवा- साहूण 'वीसामणा' ति वेयावच्चं कराविज्जति । तह वि अठायमाणे देसहिंडगाणं सहाओ दिजति । एत्थ हेट्टिल्लपया उवरुवरि दळुव्वा, एवं अगीतत्थस्स । गीतत्थो पुण सुत्तत्थमंडलिं दाविज्जति।
अहवा- गीतत्थस्स वि णिव्वितिगादि विभासाए दट्ठव्वा । नोदक आह- जति तावागीयत्थस्स निव्वीयादि तवविसेसा उवसमो ण भवति तो गीयत्थस्स कहं सीयच्छायादिठियस्स उवसमो भविस्सति ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org