________________
प्रथमं परिशिष्टम्- टिप्पनानि दृश्यमानात्मत्वमभ्युपगम्य प्रतिषेधः कृतो भवति । वस्तुनोऽप्यदृश्यस्य पिशाचादेर्यदि दृश्यघटात्मत्वनिषेधः क्रियते, दृश्यात्मत्वमभ्युपगम्य कर्तव्यः- 'यद्ययं दृश्यमानः पिशाचात्मा भवेत् पिशाचो दृष्टो भवेत्, न च दृष्टः, तस्मान्न पिशाचः' इति । दृश्यात्मत्वाभ्युपगमपूर्वकः दृश्यमाने घटादौ वस्तुनि वस्तुनोऽवस्तुनो वा दृश्यस्यादृश्यस्य च [३४] तादात्म्यनिषेधः । तथा च सति, यथा घटस्य दृश्यत्वमभ्युपगम्य प्रतिषेधो दृश्यानुपलम्भादेव, तद्वत् सर्वस्य परस्परपरिहारवतोऽन्यत्र दृश्यमाने निषेधः दृश्यानुपलम्भादेव । तथा चास्यैवंजातीयकस्य प्रयोगस्य स्वभावानुपलब्धावन्तर्भावः ॥६॥
कार्यविरुद्धोपलब्धिर्यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्त्यग्नेरिति ॥३८॥ प्रतिषेध्यस्य यत् कार्यं तस्य यत् विरुद्धं तस्योपलब्धेरुदाहरणम्- यथेति । इहेति धर्मी । अप्रतिबद्धं सामर्थ्य येषां शीतकारणानां शीतजननं प्रति न तानि सन्तीति साध्यम् । वढेरिति हेतुः । यत्र शीतकारणान्यदृश्यानि शीतस्पर्शोऽप्यदृश्यः तत्रायं हेतुः प्रयोक्तव्यः । दृश्यत्वे तु शीतस्पर्शस्य तत्कारणानां वा कार्यानुपलब्धिः दृश्यानुपलब्धिर्वा गमिका । तस्मादेषाप्यभावसाधनी । ततो यस्मिन्देशे सदपि शीतकारणमदृश्यं शीतस्पर्शश्च दूरस्थत्वात्प्रतिपत्तुः, वह्निः [तु] भास्वरवर्णत्वात् दूरादपि दृश्यः, तत्रायं प्रयोगः ॥७॥ __ व्यापकविरुद्धोपलब्धिर्यथा नात्र तुषारस्पर्शोऽमेरिति ॥३९॥ प्रतिषेध्यस्य यत् व्यापकं तेन यत् विरुद्धं तस्योपलब्धिरुदाहर्तव्या- यथेति । अत्रेति धर्मी । तुषारस्पर्शो नेति साध्यम् । वढेरिति हेतुः । यत्र व्याप्यस्तुषारस्पर्शो व्यापकश्च शीतस्पर्शो न दृश्यः तत्रायं हेतुः, तयोर्दृश्यत्वे स्वभावस्य व्यापकस्य चानुपलब्धिर्यतः प्रयोक्तव्या । तथा च सत्यभावसाधनी इयम् । दूरवर्तिनश्च प्रतिपत्तुः तुषारस्पर्शः शीतस्पर्शविशेष: शीतमात्रं च परोक्षम् । वह्निस्तु रूपविशेषाद् दूरस्थोऽपि प्रत्यक्षः । ततो वह्नः शीतमात्राभावः । ततः शीतविशेषतुषारस्पर्शाभावनिश्चयः, शीतविशेषस्य शीतसामान्येन व्याप्तत्वादिति विशिष्टविषयेऽस्याः प्रयोगः ॥८॥ ___ कारणानुपलब्धिर्यथा नात्र धूमोऽग्न्यभावादिति ॥४०॥ प्रतिषेध्यस्य यत् कारणं तस्यानुपलब्धेरुदाहरणम्- यथेति । अत्रेति धर्मी । न धूम इति साध्यम् । वयसत्त्वादिति हेतुः। यत्र कार्यं सदपि दृश्यं न भवति तत्रायं प्रयोगः । दृश्ये तु कार्ये दृश्यानुपलब्धिः गमिका । ततोऽयमप्यभावसाधनः । निष्कम्पायतसलिलपूरिते हृदे हेमन्तोचितबाष्पोद्गमे विरले संध्यातमसि सति, सन्नपि तत्र धूमो न दृश्यः इति कारणानुपलब्ध्या प्रतिषिध्यते । वह्निस्तु यदि तस्याम्भस उपरि प्लवमानो भवेत् ज्वलितो रूपविशेषादेवोपलब्धो भवेत् । अज्वलितस्तु इन्धनमध्यनिविष्टो भवेत् तत्रापि दहनाधिकरणमिन्धनं प्रत्यक्षमिति स्वरूपेणाधाररूपेण वा दृश्य एव वह्निः इति तत्रास्याः प्रयोगः ॥९॥
कारणविरुद्धोपलब्धिर्यथा नास्य रोमहर्षादिविशेषाः संनिहितदहनविशेषत्वादिति ॥४१॥ प्रतिषेध्यस्य यत्कारणं तस्य यद्विरुद्धं तस्योपलब्धेरुदाहरणम्- यथेति । अस्येति धर्मी । रोम्णां हर्षः उद्भेदः स आदिर्येषां दन्तवीणादीनां शीतकृतानाम्, ते [विशेषाः नाम'] विशिष्यन्ते तदन्येभ्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org