________________
६८
प्रथमं परिशिष्टम्- टिप्पनानि
व्यापको धर्मः तस्यानुपलब्धिरुदाह्रियते- यथेति । अत्र [इति] धर्मी । न शिंशपेति शिशपाभावः साध्यः । वृक्षस्य व्यापकस्याभावादिति हेतुः । इयमप्यनुपलब्धिः व्याप्यस्य शिंशपात्वस्य दृश्याभावे प्रयुज्यते । उपलब्धिलक्षणप्राप्ते तु व्याप्ये दृश्यानुपलब्धिर्गमिका । तत्र यदा पूर्वापरावुपश्लिष्टौ समुन्नतौ देशौ भवतः तयोरेकस्तरुगहनोपेतः अपरश्चैकशिलाघटितो निर्वृक्षकक्षः; द्रष्टापि तत्स्थान्वृक्षान् पश्यन्नपि शिंशपादिभेदं यो न विवेचयति, तस्य वृक्षत्वं प्रत्यक्षम् अप्रत्यक्षं शिंशपात्वम् । स हि निर्वृक्षे एकशिलाघटिते वृक्षाभावं दृश्यत्वाद् दृश्यानुपलम्भादवस्यति, शिंशपात्वाभावं तु व्यापकस्य वृक्षत्वस्याभावादिति । तादृशे विषयेऽस्या अभावसाधनाय प्रयोगः ॥३॥ ___ स्वभावविरुद्धोपलब्धिर्यथा नात्र शीतस्पर्शोऽग्नेरिति ॥३५॥ प्रतिषेध्यस्य स्वभावेन विरुद्धस्योपलब्धिरुदाह्रियते- यथेति । अत्रेति धर्मी । न शीतस्पर्श इति शीतस्पर्शप्रतिषेधः साध्यः। वह्नरिति हेतुः । इयं चानुपलब्धिः तत्र प्रयोक्तव्या यत्र शीतस्पर्शोऽदृश्यः । दृश्ये दृश्यानुपलब्धिप्रयोगात्। तस्मात् यत्र वर्णविशेषात् वह्निदृश्यः शीतस्पर्णो दूरस्थत्वात् सन्नप्यदृश्यः तत्रास्याः प्रयोगः ॥४॥
विरुद्धकार्योपलब्धिर्यथा नात्र शीतस्पर्शो धूमादिति ॥३६॥ प्रतिषेध्येन यत् विरुद्ध तत्कार्यस्योपलब्धिर्गमिका । यथेति । अत्रेति धर्मी । न शीतस्पर्श इति शीतस्पर्शाभावः साध्यः। धूमादिति हेतुः । यत्र शीतस्पर्शः सन् दृश्यः स्यात्, तत्र दृश्यानुपलब्धिर्गमिका । यत्र विरुद्धो वह्निः [३३] प्रत्यक्षः, तत्र विरुद्धोपलब्धिः । द्वयोरपि तु परोक्षत्वे विरुद्धकार्योपलब्धिः प्रयुज्यते । तत्र समस्तापवरकस्थं शीतं निवर्तयितुं समर्थस्याग्नेरनुमापकं यदा विशिष्टं धूमकलापं निर्यान्तमपवरकात् पश्यति तदा विशिष्टाद्वझेरनुमितात् शीतस्पर्शनिवृत्तिमनुमिमीते । इह दृश्यमानद्वारप्रदेशसहितः सर्वापवरकाभ्यन्तरदेशो धर्मी साध्यप्रतिपत्त्यनुसरणात् पूर्ववत् द्रष्टव्यः ॥५॥
विरुद्धव्याप्तोपलब्धिर्यथा न ध्रुवभावी भूतस्यापि भावस्य विनाशो हेत्वन्तरापेक्षणादिति ॥३७॥ प्रतिषेध्यस्य यत् विरुद्धं तेन व्याप्तस्य धर्मान्तरस्योपलब्धिरुदाहर्तव्या- यथेति । ध्रुवम् अवश्यं भवतीति ध्रुवभावी नेति ध्रुवभावित्वनिषेधः साध्यः । विनाशो धर्मी । भूतस्यापि भावस्य इति धर्मिविशेषणम् । भूतस्य जातस्यापि विनश्वरः स्वभावो नावश्यंभावी किमुताजातस्य इत्यपिशब्दार्थः। जनकाद्धेतोरन्यो हेतुः हेत्वन्तरं मुद्गरादि- तदपेक्षते विनश्वरः तस्यापेक्षणादिति हेतुः । हेत्वन्तरापेक्षणं नामाश्र्वभावित्वेन व्याप्तम् । यथा वाससि रागस्य रञ्जनादिहेत्वन्तरापेक्षणमध्रुवभावित्वेन व्याप्तम् । ध्रुवभावित्वविरुद्धं चाध्रुवभावित्वम् । विनाशश्च विनश्वरस्वभावात्मा हेत्वन्तरापेक्ष इष्टः । ततो विरुद्धव्याप्तहेत्वन्तरापेक्षणदर्शनाद् ध्रुवभावित्वनिषेधः। इह ध्रुवभावित्वं नित्यत्वम् अध्रुवभावित्वं चानित्यत्वम् । नित्यत्वानित्यत्वयोश्च परस्परपरिहारेणावस्थानात् एकत्र विरोधः । तथा च सति परस्परपरिहारवतोर्द्वयोः यत्रैकं दृश्यते तत्र द्वितीयस्य तादात्म्यनिषेधः कार्यः । तादात्म्यनिषेधश्च दृश्यतयाऽभ्युपगतस्य संभवति । यतः, एवं तादात्म्यनिषेधः क्रियते- 'यद्ययं दृश्यमानो नित्यो भवेत् नित्यरूपो दृश्येत । न च नित्यरूपो दृश्यते । तस्मान्न नित्यः' । एवं च प्रतिषेध्यस्य नित्यत्वस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org