________________
६७
प्रथमं परिशिष्टम्- टिप्पनानि परार्थसंपदमाह- तत्त्वं जीवादयः पदार्थाः, प्रमाणप्रतिष्ठितत्वात्, तेषामुपदेश: स्वरूपप्रकाशनम्, तद्र(ल्ल?)क्षणादिविधानं वा, तं करोति तत्त्वोपदेशकृत्, अत एव सार्वं सर्वस्मै हितम्, प्राणिरक्षणोपायोपदेशपरमपददायितया विश्वजनीनत्वात् । एतेन परार्थसंपादकत्वमुक्तम् । अधुना परेषामेवानर्थपरिघातित्वमाह- कुत्सिताः पन्थानः कापथाः तीर्थान्तराणि, तेषां घट्टनं विचालकं निराकारकम्, सर्वजनापकारिकुमतविध्वंसकमित्यर्थः । ईदृशादेव शास्त्राज्जातं शाब्दं प्रमाणम्, नान्येभ्यः, विप्रलम्भकत्वात्तेषामिति ॥९॥" - न्यायावतारसिद्धर्षि० ॥
[पृ०४४९ पं०३] “संप्रत्यनुपलब्धेः प्रकारभेदं दर्शयितुमाह- सा च प्रयोगभेदादेकादशप्रकारा ॥३१॥ सा चैषाऽनुपलब्धिरेकादशप्रकारा । एकादश प्रकारा अस्या इत्येकादशप्रकारा । कुतः प्रकारभेदः ? प्रयोगभेदात् । प्रयोगः प्रयुक्तिः शब्दस्याभिधानव्यापार उच्यते । शब्दो हि साक्षात्क्वचिदर्थान्तराभिधायी क्वचित्प्रतिषेधान्तराभिधायी । सर्वत्रैव तु दृश्यानुपलब्धिरशब्दोपात्तापि गम्यत इति वाचकव्यापारभेदादनुपलम्भप्रकारभेदो न तु स्वरूपभेदादिति यावत् ।
प्रकारभेदानाह- स्वभावानुपलब्धिर्यथा नात्र धूम: उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति ॥३२॥ प्रतिषेध्यस्य यः स्वभावः तस्यानुपलब्धिः । यथेति । अत्र इति धर्मी, न धूमः इति साध्यम्। 'उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः' इति हेतु: । अयं च हेतुः पूर्ववद् व्याख्येयः ॥१॥
कार्यानुपलब्धिर्यथा नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति धूमाभावात् ॥३३॥ प्रतिषेध्यस्य यत्कार्यं तस्यानुपलब्धिरुदाह्रियते- यथेति । इह इति धर्मी । अप्रतिबद्धम् अनुपहतं धूमजननं प्रति सामर्थ्य येषां तान्यप्रतिबद्धसामर्थ्यानि न सन्ति इति साध्यम् । धूमाभावात् इति हेतुः । कारणानि च नावश्यं कार्यवन्ति भवन्तीति कार्यादर्शनात् अप्रतिबद्धसामर्थ्यानामेवाभावः साध्यः, न त्वन्येषाम् । अप्रतिबद्धशक्तीनि चान्त्यक्षणभावीन्येव, अन्येषां प्रतिबन्धसंभवात् । कार्यानुपलब्धिश्च यत्र कारणमदृश्यं तत्र प्रयुज्यते । दृश्ये तु कारणे दृश्यानुपलब्धिरेव गमिका । तत्र धवलगृहोपरिस्थितो गृहाङ्गणमपश्यन्नपि चतुर्षु पार्श्वेष्वङ्गणभित्तिपर्यन्तं पश्यति । भित्तिपर्यन्तसमं चालोकसंज्ञकमाकाशदेशं धूमविविक्तं पश्यति । तत्र धूमाभावनिश्चयात्- यद्देशस्थेन वह्निना जन्यमानो धूमस्तद्देशः स्यात्- तस्य वह्नेप्रतिबद्धसामर्थ्यस्याभावः प्रतिपत्तव्यः । तद्गृहाङ्गणदेशेन च वह्निना जन्यमानो धूमस्तद्देशः स्यात् । तस्मात्तद्देशस्य वढेरभावः प्रतिपत्तव्यः । तद्गृहाङ्गणदेशं भित्तिपरिक्षिप्तं भित्तिपर्यन्तपरिक्षिप्तेन चालोकात्मना धूमविविक्तेनाकाशदेशेन सह धर्मिणं करोति । तस्मात् दृश्यमानादृश्यमानाकाशदेशावयवः प्रत्यक्षाप्रत्यक्षसमुदायो वन्यभावप्रतीतिसामर्थ्यायातो धर्मी, न दृश्यमान एव । इहेति तु प्रत्यक्षनिर्देशो दृश्यमानभागापेक्षः- न केवलमिहैव दृश्यादृश्यसमुदायो धर्मी अपि त्वन्यत्रापि । शब्दस्य क्षणिकत्वे साध्ये कश्चिदेव शब्दः प्रत्यक्षोऽन्यस्तु परोक्षः तद्वदिहापि । यथा चात्र [३२] धर्मी साध्यप्रतिपत्त्यधिकरणभूतो दृश्यादृश्यावयवो दर्शितः तद्वदुत्तरेष्वपि प्रयोगेषु स्वयं प्रतिपत्तव्यः ॥२॥
व्यापकानुपलब्धिर्यथा नात्र शिंशपा वृक्षाभावादिति ॥३४॥ प्रतिषेध्यस्य व्याप्यस्य यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org