________________
प्रथमं परिशिष्टम्- टिप्पनानि साधनमर्हति साधयितुं वा शक्य इति साध्योऽनुमेय इत्यर्थः, तस्य निश्चायकं तत्स्वरूपनिर्णायकमिति यावत् । तत्कुत इत्याह- लिङ्गात्, लिङ्ग्यते गम्यतेऽर्थोऽनेनेति लिङ्गं हेतुः तस्मात् । किंभूतादित्याहसाध्याविनाभुन इति । विना भवतीति विनाभु, ततोऽन्यदविनाभु, साध्येनाविनाभु साध्याविनाभु, साध्यं विमुच्य यन्न भवतीत्यर्थः, तस्मात् साध्यनिश्चायकं ज्ञानं तदनुमानं स्मृतम् अभिप्रेतं नीतिवद्भिरिति संबन्धः । तत्र लिङ्गात् साध्यनिश्चायकमित्यनेनानुमानस्य प्रत्यक्षशाब्दलक्षणसंकीर्णतां वारयति । साध्याविनाभुन इत्यनेन परप्रणीतलिङ्गलक्षणव्युदासमाचष्टे । ततश्च यत्परे प्रोचुः- .... तदपाकर्तुमाहतदभ्रान्तमित्यादि । तदनुमानं भ्राम्यति स्वगोचरे विपर्यस्यतीति भ्रान्तम्, ततोऽन्यदभ्रान्तम्, अविपरीतार्थग्राहीति यावत्, इयं च प्रतिज्ञा; प्रमीयते यथावस्थितोऽर्थः परिच्छिद्यतेऽनेनेति प्रमाणम्, तद्भावस्तत्त्वं तस्मात्, अयं तु हेतुः; संगतमक्षाणामिति समक्षम्, तदिव समक्षवदिति दृष्टान्तः .... ॥५॥ - न्यायावतारसिद्धर्षि० ॥ _[पृ० ४४८] “दृष्टेष्टाव्याहताद्वाक्यात्परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं मानं शाब्दं प्रकीर्तितम् ॥८॥ अत्रापि शाब्दम् इति लक्ष्यम्, अनूद्यत्वात् । दृष्टेष्टाव्याहताद् इत्यादि लक्षणम्, विधेयत्वात् । दृष्टेन प्रमाणालोकितेन इष्टः प्रतिपादयिषितोऽव्याहतो अनिराकृतः सामर्थ्यादर्थो यस्मिन् वाक्ये तत्तथा, प्रमाणनिश्चितार्थाबाधितमिति यावत्, तस्मात् । परमोऽकृत्रिमः पुरुषोपयोगी शक्यानुष्ठानो वार्थो वाच्यस्तमभिधातुं शीलं यस्य तत् परमार्थाभिधायि, विशिष्टार्थदर्शकमित्यर्थः । ततः तत्त्वग्राहितयोत्पन्नम् प्रकृतवाक्यप्रतिपाद्यार्थादानशीलतया लब्धात्मसत्ताकं यन्मानं तच्छाब्दमिति प्रकीर्तितम् उपवर्णितं पूर्वाचार्यैरिति संबन्धः । तत्र दृष्टेष्टाव्याहताद् इत्यनेन कुतीर्थिकवचसां लौकिकविप्रतारकोक्तीनां च शाब्दतां निरस्यति, प्रमाणबाधितत्वात् । वाक्यात् इत्यमुना तु वाक्यस्यैव नियतार्थदर्शकत्वात् परमार्थाभिधायितेति दर्शयन् पदाच्छाब्दाभावमाह- । परमार्थाभिधायिनः इत्यनेन ज्वरहरतक्षकचूडारत्नालंकारोपदेशादिवचनप्रभवज्ञानस्य निष्फलतया प्रामाण्यं निराचष्टे । तत्त्वग्राहितयोत्पन्नम् इत्यमुना त्वेवंभूतादपि वाक्यात् श्रोतृदोषाद् विपरीताद्यर्थग्रहणचतुरतया प्रादुर्भूतस्य शाब्दत्वं वारयति । मानम् इत्यनेन अन्तर्भावितप्रोपसर्गार्थेन शाब्दे परस्याप्रामाण्यबुद्धिं तिरस्कुरुते, तदप्रामाण्ये परार्थानुमानप्रलयप्रसङ्गात्, तस्य वचनरूपत्वात् । ..... ॥८॥ ___ आप्तोपज्ञमनुल्लङ्घ्यमदृष्टेष्टविरोधकम् । तत्त्वोपदेशकृत्सार्वं शास्त्रं कापथघट्टनम् ॥९॥ शास्ति शिक्षयति जीवाजीवादि तत्त्वं ग्राहयति, शिष्यतेऽनेनेति वा शास्त्रम् । तत् किंभूतमिति तद्विशेषणान्याह- आप्तः प्रक्षीणाशेषरागादिदोषगणः, तेन उपज्ञम् आदावुपलब्धम् । .... उल्लङ्घयते प्राबल्येन गम्यते अभिभूयते अन्यरित्युल्लङ्घ्यम्, ततोऽन्यद् अनुल्लङ्घ्यम् सर्ववचनातिशायीति यावत्। अत एव दृष्टेन प्रमाणनिर्णीतेनेष्टस्य तद्वाच्यस्य विरोधो यस्मिंस्तत् तथा तदेव, यदि वा, दृष्टः प्रमाणेन, इष्टो वचनान्तरेण, तयो र्विरोधकम्, तद्विरुद्धार्थाभिधानात्, ततोऽन्यददृष्टेष्टविरोधकम्, अबाधार्थाभिधायीत्यर्थः । तदियता शास्त्रस्य स्वार्थसंपदुक्ता, अधुना तत्त्वोपदेशादीनां परार्थत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org