SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि एस पुण लूसओ चेव कहाणयवसेण भणिओ । एस लोइओ, लोगुत्तरेऽवि चरणकरणाणुयोगे कुस्सुतिभावियस्स तस्स तहा वंसगो पउज्जति जहा संमं पडिवज्जइ । दव्वाणुओगे पुण कुप्पावयणिओ चोइज्जा- जहा जइ जिणपणीए मग्गे अत्थि जीवो अत्थि घडो, अत्थित्तं जीवे वि घडे वि, दोसु अविसेसेण वट्टइ त्ति, तेण अत्थित्तसद्दतुल्लत्तणेण जीवघडाणं एगत्तं भवति, अह अस्थिभावाओ वतिरित्तो जीवो, तेण जीवस्स अभावो भवइ त्ति । एस किल एद्दहमेत्तो चेव वंसगो, लूसगेण पुण एत्थ इमं उत्तरं भाणितव्वं- जइ जीवघडा अत्थित्ते वटुंति, तम्हा तेसिमेगत्तं संभावेहि, एवं ते सव्वभावाणं एगत्तं भवति, कहं ?, अत्थि घडो अत्थि पडो अत्थि परमाणू अत्थि दुपएसिए खंधे, एवं सव्वभावेसु अस्थिभावो वट्टइ त्ति काउं किं सव्वभावा एगीभवंतु ?, एत्थ सीसो भणतिकहं पुण एयं जाणियव्वं? सव्वभावेसु अत्थिभावो वट्टइ, न य ते एगीभवंति, आयरिओ आहअणेगंताओ एवं सिज्झइ, एत्थ दिळंतो-खइरो वणस्सई वणस्सई पुण खदिरो पलासो वा, एवं जीवो वि णियमा अत्थि, अत्थिभावो पुण जीवो व होज अन्नो वा धम्माधम्मागासादीणं ति ॥८७॥" - दशवै० हारि०॥ [पृ० ४४७] “अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज्ज्ञेयं परोक्षं ग्रहणेक्षया ॥४॥ तत्र प्रत्यक्षमिति लक्ष्यनिर्देशः, अपरोक्षतयार्थस्य ग्राहकं ज्ञानमिति लक्षणनिर्देशः, परोक्षोऽक्षगोचरातीतः, ततोऽन्योऽपरोक्षस्तद्भावस्तत्ता तया, साक्षात्कृततयेति यावत् । अर्यत इत्यर्थः, अवगम्यते इति हृदयम् । अर्थ्यत इत्यर्थो वा, दाहपाकाद्यर्थक्रियार्थिभिरभिलष्यते इति यावत् । तस्य ग्राहकं व्यवसायात्मकतया साक्षात् परिच्छेदकं ज्ञानं तदीदृशमिति, ईदृगेव प्रत्यक्षमिति संटङ्कः । ___ ..... अपरोक्षतया इत्यनेन तु परोक्षलक्षणसंकीर्णतामध्यक्षस्य परिहरति, तस्य साक्षात्कारितया अर्थग्रहणरूपत्वादिति । ईदृशम् इत्यमुना तु पूर्वोक्तन्यायात् सावधारणेन विशेषणकदम्बकसचिवज्ञानोपप्रदर्शनात् परपरिकल्पितलक्षणयुक्तस्य प्रत्यक्षतां प्रतिक्षिपति । .... अधुना परोक्षलक्षणं दर्शयति- इतरदित्यादि । अपरोक्षतयार्थस्य ग्राहकं ज्ञानं प्रत्यक्षमित्युक्तम्, तस्मादितरदसाक्षादर्थग्राहकं ज्ञानं परोक्षमिति ज्ञेयमवगन्तव्यम् । एतदपि स्वसंवेदनापेक्षया प्रत्यक्षमेव, बहिरर्थापेक्षया तु परोक्षव्यपदेशमश्नुत इति दर्शयन्नाह- ग्रहणेक्षया इति, इह ग्रहणं प्रक्रमाद् बहिः प्रवर्तनमुच्यते, अन्यथा विशेषणवैयर्थ्यं स्यात्, तस्येक्षा अपेक्षा तया, बहिःप्रवृत्तिपर्यालोचनयेति यावत्। .... ॥४॥ ___ तत्र तावदनुमानलक्षणमभिधित्सुराह- साध्याविनाभुनो लिङ्गात्साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं प्रमाणत्वात्समक्षवत् ॥५॥ साध्याविनेत्यादि । इहाप्यनुमानमिति लक्ष्यनिर्देशः, तस्य प्रसिद्धतया अनूद्यत्वात् । साध्याविनाभुनो लिङ्गात् साध्यनिश्चायकमिति लक्षणनिर्देशः, तस्याप्रसिद्धतया विधेयत्वादिति । अत्राप्यनुमानशब्दस्य कादिकारकव्युत्पत्तिक्रमेणार्थकथनं प्रमाणशब्दवद् द्रष्टव्यम् । ततश्चेहापि लिङ्गग्रहणसाध्याविनाभावित्वलक्षणलिङ्गसंबन्धस्मरणकालात् अनु पश्चान्मीयते परिच्छिद्यतेऽर्थोऽनुमेयपावकादिर्येन ज्ञानेन तदनुमानमिति । तत् किंभूतमित्याह- साध्यनिश्चायकमिति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy