Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 445
________________ ३० प्रथमं परिशिष्टम्- टिप्पनानि [पृ०३५८] “रायकहादोसदरिसणत्थं भण्णति- चारिय-चोराहिमरा-हित-मारित-संक-कातुकामा वा । भुत्ताभुत्तोहावण करेज वा आसंसपयोगं ॥१३०॥ साहू णिलयट्ठिता रायकहं कहेमाणा अच्छंति । ते य सुता रायपुरिसेहिं । ताण य रायपुरिसाण एवमुवट्ठियं चित्तस्स-जइ परमत्थेणिमे साहू तो किमेएसिं रायकहाए । णूणं एते चारिया भंडिया, चोरा वा वेसपरिच्छण्णा। अहिमरा णाम दद्दरचोरा । अस्सरयणं वाहियं केणइ रण्णो । रण्णो वा सयणो केणइ अदितॄण मारितो । एतेसु संकिजति । अहवा चारिया चोरेसु संका । अहिमरत्तं अस्सहरणं वा मारणं वा काउकामा । वा विकप्पदरिसणे। अहवा रायकहाए रायदिक्खियस्स अणुसरणं, भुत्तभोगिणो सइकरणं, इतरेसु कोउयं । पुनः स्मरणकोउएणं ओहावणं करेज, कारिज वा आसंसपओगं । आसंसपओगो नाम निदानकरणं। रायकह त्ति दारं गयं ॥१३०॥" - निशीथ० चूर्णिः । "विज्जा चरणं च तवो पुरिसक्कारो य समिइगुत्तीओ । उवइस्सइ खलु जहियं कहाइ अक्खेवणीइ रसो ॥१९५॥ धर्मविषया कथा धर्मकथा असौ बोद्धव्या चतुर्विधा धीरपुरुषप्रज्ञप्ता तीर्थकरगणधरप्ररूपितेत्यर्थः, चातुर्विध्यमेवाह- आक्षेपणी विक्षेपणी संवेगश्चैव निर्वेद इति, 'सूचनात्सूत्र'मिति न्यायात् संवेजनी निवेदनी चैवेत्युपन्यासगाथाक्षरार्थः ॥ भावार्थं त्वाह- आचारो लोचास्नानादिः व्यवहारः कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिश्चैव संशयापन्नस्य मधुरवचनैः प्रज्ञापना, दृष्टिवादश्च-श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनम्, अन्ये त्वभिदधति-आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, एषा अनन्तरोदिता चतुर्विधा खलुशब्दो विशेषणार्थः श्रोत्रपेक्षयाऽऽचारादिभेदानाश्रित्यानेकप्रकारेति कथा त्वाक्षेपणी भवति, तुरेवकारार्थः, कथैव प्रज्ञापकेनोच्यमाना नान्येन, आक्षिप्यन्ते मोहात्तत्त्वं प्रत्यनया भव्यप्राणिन इत्याक्षेपणी भवतीति गाथार्थः । इदानीमस्या रसमाह- विद्या ज्ञानम् अत्यन्तापकारिभावतमोभेदकं चरणं चारित्रं समग्रविरतिरूपं तपः अनशनादि पुरुषकारश्च कर्मशत्रून् प्रति स्ववीर्योत्कर्षलक्षणः समितिगुप्तयः पूर्वोक्ता एव, एतदुपदिश्यते खलु श्रोतृभावापेक्षया सामीप्येन कथ्यते, एवं यत्र क्वचिदसावुपदेशः कथाया आक्षेपण्या रसो निष्यन्दः सार इति गाथार्थः । गताऽऽक्षेपणी, विक्षेपणीमाह- कथयित्वा स्वसमयं स्वसिद्धान्तं ततः कथयति परसमयं परसिद्धान्तमित्येको भेदः, अथवा विपर्यासाद् व्यत्ययेन कथयति- परसमयं कथयित्वा स्वसमयमिति द्वितीयः, मिथ्यासम्यग्वादयोरेवमेव भवतो द्वौ भेदाविति, मिथ्यावादं कथयित्वा सम्यग्वादं कथयति सम्यग्वादं च कथयित्वा मिथ्यावादमिति, एवं विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणीति गाथाक्षरार्थः । भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम्- विक्खेवणी सा चउव्विहा पन्नत्ता, तंजहा-ससमयं कहेत्ता परसमयं १. एतद् वृद्धविवरणं दशवैकालिकचूर्णिनाम्ना सागरानन्दसूरिभिः संशोधितं श्रीऋषभदेवजी केशरीमलजी श्वेताम्बरसंस्थारतलाम इत्यतः विक्रमसं. १९८९ मध्ये प्रकाशितमस्ति । तस्य तृतीयेऽध्ययने पृ० १०६-१०९ इत्यत्र द्रष्टव्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579