________________
३०
प्रथमं परिशिष्टम्- टिप्पनानि [पृ०३५८] “रायकहादोसदरिसणत्थं भण्णति- चारिय-चोराहिमरा-हित-मारित-संक-कातुकामा वा । भुत्ताभुत्तोहावण करेज वा आसंसपयोगं ॥१३०॥ साहू णिलयट्ठिता रायकहं कहेमाणा अच्छंति । ते य सुता रायपुरिसेहिं । ताण य रायपुरिसाण एवमुवट्ठियं चित्तस्स-जइ परमत्थेणिमे साहू तो किमेएसिं रायकहाए । णूणं एते चारिया भंडिया, चोरा वा वेसपरिच्छण्णा। अहिमरा णाम दद्दरचोरा । अस्सरयणं वाहियं केणइ रण्णो । रण्णो वा सयणो केणइ अदितॄण मारितो । एतेसु संकिजति ।
अहवा चारिया चोरेसु संका । अहिमरत्तं अस्सहरणं वा मारणं वा काउकामा । वा विकप्पदरिसणे।
अहवा रायकहाए रायदिक्खियस्स अणुसरणं, भुत्तभोगिणो सइकरणं, इतरेसु कोउयं । पुनः स्मरणकोउएणं ओहावणं करेज, कारिज वा आसंसपओगं । आसंसपओगो नाम निदानकरणं। रायकह त्ति दारं गयं ॥१३०॥" - निशीथ० चूर्णिः ।
"विज्जा चरणं च तवो पुरिसक्कारो य समिइगुत्तीओ । उवइस्सइ खलु जहियं कहाइ अक्खेवणीइ रसो ॥१९५॥ धर्मविषया कथा धर्मकथा असौ बोद्धव्या चतुर्विधा धीरपुरुषप्रज्ञप्ता तीर्थकरगणधरप्ररूपितेत्यर्थः, चातुर्विध्यमेवाह- आक्षेपणी विक्षेपणी संवेगश्चैव निर्वेद इति, 'सूचनात्सूत्र'मिति न्यायात् संवेजनी निवेदनी चैवेत्युपन्यासगाथाक्षरार्थः ॥ भावार्थं त्वाह- आचारो लोचास्नानादिः व्यवहारः कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिश्चैव संशयापन्नस्य मधुरवचनैः प्रज्ञापना, दृष्टिवादश्च-श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनम्, अन्ये त्वभिदधति-आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, एषा अनन्तरोदिता चतुर्विधा खलुशब्दो विशेषणार्थः श्रोत्रपेक्षयाऽऽचारादिभेदानाश्रित्यानेकप्रकारेति कथा त्वाक्षेपणी भवति, तुरेवकारार्थः, कथैव प्रज्ञापकेनोच्यमाना नान्येन, आक्षिप्यन्ते मोहात्तत्त्वं प्रत्यनया भव्यप्राणिन इत्याक्षेपणी भवतीति गाथार्थः । इदानीमस्या रसमाह- विद्या ज्ञानम् अत्यन्तापकारिभावतमोभेदकं चरणं चारित्रं समग्रविरतिरूपं तपः अनशनादि पुरुषकारश्च कर्मशत्रून् प्रति स्ववीर्योत्कर्षलक्षणः समितिगुप्तयः पूर्वोक्ता एव, एतदुपदिश्यते खलु श्रोतृभावापेक्षया सामीप्येन कथ्यते, एवं यत्र क्वचिदसावुपदेशः कथाया आक्षेपण्या रसो निष्यन्दः सार इति गाथार्थः । गताऽऽक्षेपणी, विक्षेपणीमाह- कथयित्वा स्वसमयं स्वसिद्धान्तं ततः कथयति परसमयं परसिद्धान्तमित्येको भेदः, अथवा विपर्यासाद् व्यत्ययेन कथयति- परसमयं कथयित्वा स्वसमयमिति द्वितीयः, मिथ्यासम्यग्वादयोरेवमेव भवतो द्वौ भेदाविति, मिथ्यावादं कथयित्वा सम्यग्वादं कथयति सम्यग्वादं च कथयित्वा मिथ्यावादमिति, एवं विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणीति गाथाक्षरार्थः । भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम्- विक्खेवणी सा चउव्विहा पन्नत्ता, तंजहा-ससमयं कहेत्ता परसमयं १. एतद् वृद्धविवरणं दशवैकालिकचूर्णिनाम्ना सागरानन्दसूरिभिः संशोधितं श्रीऋषभदेवजी केशरीमलजी श्वेताम्बरसंस्थारतलाम इत्यतः विक्रमसं. १९८९ मध्ये प्रकाशितमस्ति । तस्य तृतीयेऽध्ययने पृ० १०६-१०९ इत्यत्र द्रष्टव्यम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org